प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

देवीभागवतपुराणम्/स्कन्धः ०१/अध्यायः ०५

< देवीभागवतपुराणम्‎ | स्कन्धः ०१

हयग्रीवावतारकथनम्

ऋषय ऊचुः
सूतास्माकं मनः कामं मग्नं संशयसागरे ।
यथोक्तं महदाश्चर्यं जगद्विस्मयकारकम् ॥ १ ॥
यन्मूर्धा माधवस्यापि गतो देहात्पुनः परम् ।
हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः ॥ २ ॥
वेदोऽपि स्तौति यं देवं देवाः सर्वे यदाश्रयाः ।
आदिदेवो जगन्नाथः सर्वकारणकारणः ॥ ३ ॥
तस्यापि वदनं छिन्नं दैवयोगात्कथं तदा ।
तत्सर्वं कथयाशु त्वं विस्तरेण महामते ॥ ४ ॥
सूत उवाच
शृण्वन्तु मुनयः सर्वे सावधानाः समन्ततः ।
चरितं देवदेवस्य विष्णोः परमतेजसः ॥ ५ ॥
कदाचिद्दारुणं युद्धं कृत्वा देवः सनातनः ।
दशवर्षसहस्राणि परिश्रान्तो जनार्दनः ॥ ६ ॥
समे देशे शुभे स्थाने कृत्वा पद्मासनं विभुः ।
अवलम्ब्य धनुः सज्यं कण्ठदेशे धरास्थितम् ॥ ७ ॥
दत्त्वा भारं धनुष्कोट्यां निद्रामाप रमापतिः ।
श्रान्तत्वाद्दैवयोगाच्च जातस्तत्रातिनिद्रितः ॥ ८ ॥
तदा कालेन कियता देवाः सर्वे सवासवाः ।
ब्रह्मेशसहिताः सर्वे यज्ञं कर्तुं समुद्यताः ॥ ९ ॥
गताः सर्वेऽथ वैकुण्ठं द्रष्टुं देवं जनार्दनम् ।
देवकार्यार्थसिद्ध्यर्थं मखानामधिपं प्रभुम् ॥ १० ॥
अदृष्ट्वा तं तदा तत्र ज्ञानदृष्ट्या विलोक्य ते ।
यत्रास्ते भगवान् विष्णुर्जग्मुस्तत्र तदा सुराः ॥ ११ ॥
ददृशुस्ते तदेशानं योगनिद्रावशं गतम् ।
विचेतनं विभुं विष्णुं तत्रासांचक्रिरे सुराः ॥ १२ ॥
स्थितेषु सर्वदेवेषु निद्रासुप्ते जगत्पतौ ।
चिन्तामापुः सुराः सर्वे ब्रह्मरुद्रपुरोगमाः ॥ १३ ॥
तानुवाच ततः शक्रः किं कर्तव्यं सुरोत्तमाः ।
निद्राभङ्गः कथं कार्यश्चिन्तयन्तु सुरोत्तमाः ॥ १४ ॥
तमुवाच तदा शम्भुर्निद्राभङ्गेऽस्ति दूषणम् ।
कार्यं चैव प्रकर्तव्यं यज्ञस्य सुरसत्तमाः ॥ १५ ॥
उत्पादिता तदा वम्री ब्रह्मणा परमेष्ठिना ।
तया भक्षयितुं तत्र धनुषोऽग्रं धरास्थितम् ॥ १६ ॥
भक्षितेऽग्रे तदा निम्नं गमिष्यति शरासनम् ।
तदा निद्राविमुक्तोऽसौ देवदेवो भविष्यति ॥ १७ ॥
देवकार्यं तदा सर्वं भविष्यति न संशयः ।
स वम्रीं संदिदेशाथ देवदेवः सनातनः ॥ १८ ॥
तमुवाच तदा वम्री देवदेवस्य मापतेः ।
निद्राभङ्गः कथं कार्यो देवस्य जगतां गुरोः ॥ १९ ॥
निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् ।
शिशुमातृविभेदश्च ब्रह्महत्यासमं स्मृतम् ॥ २० ॥
तत्कथं देवदेवस्य करोमि सुखनाशनम् ।
किं फलं भक्षणाद्देव येन पापं करोम्यहम् ॥ २१ ॥
सर्वः स्वार्थवशो लोकः कुरुते पातकं किल ।
तस्मादहं करिष्यामि स्वार्थमेव प्रभक्षणम् ॥ २२ ॥
ब्रह्मोवाच
तव भागं करिष्यामो मखमध्ये यथा शृणु ।
तेन त्वं कुरु कार्यं नो विष्णुं बोधय माचिरम् ॥ २३ ॥
होमकर्मणि पार्श्वे च हविर्दानात्पतिष्यति ।
तत्ते भागं विजानीहि कुरु कार्यं त्वरान्विता ॥ २४ ॥
सूत उवाच
इत्युक्ता ब्रह्मणा वम्री धनुषोऽग्रं त्वरान्विता ।
चखाद संस्थितं भूमौ विमुक्ता ज्या तदाभवत् ॥ २५ ॥
प्रत्यञ्जायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा ।
शब्दः समभवद्‌घोरस्तेन त्रस्ताः सुरास्तदा ॥ २६ ॥
ब्रह्माण्डं क्षुभितं सर्वं वसुधा कम्पिता तदा ।
समुद्राश्च समुद्विग्नास्त्रेसुश्च जलजन्तवः ॥ २७ ॥
ववुर्वातास्तथा चोग्राः पर्वताश्च चकम्पिरे ।
उल्कापाता महोत्पाता बभूवुर्दुःखशंसिनः ॥ २८ ॥
दिशो घोरतराश्चासन्सूर्योऽप्यस्तंगतोऽभवत् ।
चिन्तामापुः सुराः सर्वे किं भविष्यति दुर्दिने ॥ २९ ॥
एवं चिन्तयतां तेषां मूर्धा विष्णोः सकुण्डलः ।
गतः समुकुटः क्वापि देवदेवस्य तापसाः ॥ ३० ॥
अन्धकारे तदा घोरे शान्ते ब्रह्महरौ तदा ।
शिरोहीनं शरीरं तु ददृशाते विलक्षणम् ॥ ३१ ॥
दृष्ट्वा कबन्धं विष्णोस्ते विस्मिताः सुरसत्तमाः ।
चिन्तासागरमग्नाश्च रुरुदुः शोककर्शिताः ॥ ३२ ॥
हा नाथ किं प्रभो जातमत्यद्‌भुतममानुषम् ।
वैशसं सर्वदेवानां देवदेव सनातन ॥ ३३ ॥
मायेयं कस्य देवस्य यया तेऽद्य शिरो हृतम् ।
अच्छेद्यस्त्वमभेद्योऽसि अप्रदाह्योऽसि सर्वदा ॥ ३४ ॥
एवं गते त्वयि विभो मरिष्यन्ति च देवताः ।
कीदृशस्त्वयि नः स्नेहः स्वार्थेनैव रुदामहे ॥ ३५ ॥
नायं विघ्नः कृतो दैत्यैर्न यक्षैर्न च राक्षसैः ।
देवैरेव कृतः कस्य दूषणं च रमापते ॥ ३६ ॥
पराधीनाः सुराः सर्वे किं कुर्मः क्व व्रजाम च ।
शरणं नैव देवेश सुराणां मूढचेतसाम् ॥ ३७ ॥
न चैषा सात्त्विकी माया राजसी न च तामसी ।
यया छिन्नं शिरस्तेऽद्य मायेशस्य जगद्‌गुरोः ॥ ३८ ॥
क्रन्दमानांस्तदा दृष्ट्वा देवाञ्छिवपुरोगमान् ।
बृहस्पतिस्तदोवाच शमयन्वेदवित्तमः ॥ ३९ ॥
रुदितेन महाभागाः क्रन्दितेन तथापि किम् ।
उपायश्चात्र कर्तव्यः सर्वथा बुद्धिगोचरः ॥ ४० ॥
दैवं पुरुषकारश्च देवेश सदृशावुभौ ।
उपायश्च विधातव्यो दैवात्फलति सर्वथा ॥ ४१ ॥
इन्द्र उवाच
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
विष्णोरपि शिरश्छिन्नं सुराणां चैव पश्यताम् ॥ ४२ ॥
ब्रह्मोवाच
अवश्यमेव भोक्तव्यं कालेनापादितं च यत् ।
शुभं वाप्यशुभं वापि दैवं कोऽतिक्रमेत्पुनः ॥ ४३ ॥
देहवान्सुखदुःखानां भोक्ता नैवात्र संशयः ।
यथा कालवशात्कृत्तं शिरो मे शम्भुना पुरा ॥ ४४ ॥
तथैव लिङ्गपातश्च महादेवस्य शापतः ।
तथैवाद्य हरेर्मूर्धा पतितो लवणाम्भसि ॥ ४५ ॥
सहस्रभगसंप्राप्तिर्दुःखं चैव शचीपतेः ।
स्वर्गाद्‌भ्रंशस्तथा वासः कमले मानसे सरे ॥ ४६ ॥
एते दुःखस्य भोक्तारः केन दुःखं न भुज्यते ।
संसारेऽस्मिन्महाभागास्तस्माच्छोकं त्यजन्तु वै ॥ ४७ ॥
चिन्तयन्तु महामायां विद्यादेवीं सनातनीम् ।
सा विधास्यति नः कार्यं निर्गुणा प्रकृतिः परा ॥ ४८ ॥
ब्रह्मविद्यां जगद्धात्रीं सर्वेषां जननीं तथा ।
यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ४९ ॥
सूत उवाच
इत्युक्त्वा वै सुरान्वेधा निगमानादिदेश ह ।
देहयुक्तान्स्थितानग्रे सुरकार्यार्थसिद्धये ॥ ५० ॥
ब्रह्मोवाच
स्तुवन्तु परमां देवीं ब्रह्मविद्यां सनातनीम् ।
गूढाङ्गीं च महामायां सर्वकार्यार्थसाधनीम् ॥ ५१ ॥
तच्छ्रुत्वा वचनं तस्य वेदाः सर्वाङ्गसुन्दराः ।
तुष्टुवुर्ज्ञानगम्यां तां महामायां जगत्स्थिताम् ॥ ५२ ॥
वेदा ऊचुः
नमो देवि महामाये विश्वोत्पत्तिकरे शिवे ।
निर्गुणे सर्वभूतेशि मातः शङ्करकामदे ॥ ५३ ॥
त्वं भूमिः सर्वभूतानां प्राणाः प्राणवतां तथा ।
धीः श्रीः कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः ॥ ५४ ॥
त्वमुद्‌गीथेऽर्धमात्रासि गायत्री व्याहृतिस्तथा ।
जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया ॥ ५५ ॥

त्वां संस्तुमोऽम्ब भुवनत्रयसंविधान-
     दक्षां दयारसयुतां जननीं जनानाम् ।
विद्यां शिवां सकललोकहितां वरेण्यां
     वाग्बीजवासनिपुणां भवनाशकर्त्रीम् ॥ ५६ ॥
ब्रह्मा हरः शौरिसहस्रनेत्र-
     वाग्वह्निसूर्या भुवनाधिनाथाः ।
ते त्वत्कृताः सन्ति ततो न मुख्या
     माता यतस्त्वं स्थिरजङ्गमानाम् ॥ ५७ ॥
सकलभुवनमेतत्कर्तुकामा यदा त्वं
     सृजसि जननि देवान्विष्णुरुद्राजमुख्यान् ।
स्थितिलयजननं तैः कारयस्येकरूपा
     न खलु तव कथंचिद्देवि संसारलेशः ॥ ५८ ॥
न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो
न नाम्नां संख्यां ते कथितुमिह योग्योऽस्ति पुरुषः ।
यदल्पं कीलालं कलयितुमशक्तः स तु नरः
कथं पारावाराकलनचतुरः स्यादृतमतिः ॥ ५९ ॥
न देवानां मध्ये भगवति तवानन्तविभवं
विजानात्येकोऽपि त्वमिह भुवनैकासि जननी ।
कथं मिथ्या विश्वं सकलमपि चैका रचयसि
प्रमाणं त्वेतस्मिन्निगमवचनं देवि विहितम् ॥ ६० ॥
निरीहैवासि त्वं निखिलजगतां कारणमहो
चरित्रं ते चित्रं भगवति मनो नो व्यथयति ।
कथंकारं वाच्यः सकलनिगमागोचरगुण-
प्रभावः स्वं यस्मात्स्वयमपि न जानासि परमम् ॥ ६१ ॥
न किं जानासि त्वं जननि मधुजिन्मौलिपतनं ॥
शिवे किं वा ज्ञात्वा विविदिषसि शक्तिं मधुजितः ।
हरेः किं वा मातर्दुरितततिरेषा बलवती ॥
भवत्याः पादाब्जे भजननिपुणे क्वास्ति दुरितम् ॥ ६२ ॥
उपेक्षा किं चेयं तव सुरसमूहेऽतिविषमा ॥
हरेर्मूर्ध्नो नाशो मतमिह महाश्चर्यजनकम् ।
महद्दुःखं मातस्त्वमसि जननच्छेदकुशला ॥
न जानीमो मौलेर्विघटनविलम्बः कथमभूत् ॥ ६३ ॥
ज्ञात्वा दोषं सकलसुरतापादितं देवि चित्ते
किं वा विष्णावमरजनितं दुष्कृतं पातितं ते ।
विष्णोर्वा किं समरजनितः कोऽपि गर्वोऽतिवेगा-
च्छेत्तुं मातस्तव विलसितं नैव विद्मोऽत्र भावम् ॥ ६४ ॥
किं वा दैत्यैः समरविजितैस्तीर्थदेशे सुरम्ये
घोरं तप्त्वा भगवति वरं लब्धवद्‌भिर्भवत्याः ।
अन्तर्धानं गमितमधुना विष्णुशीर्षं भवानि
द्रष्टुं किं वा विगतशिरसं वासुदेवं विनोदः ॥ ६५ ॥
सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये
     कस्मादेनां प्रेक्षसे नाथहीनाम् ।
क्षन्तव्यस्ते स्वांशजातापराधो
     व्युत्थाप्यैनं मोदिता मां कुरुष्व ॥ ६६ ॥
एते सुरास्त्वां सततं नमन्ति
     कार्येषु मुख्याः प्रथितप्रभावाः ।
शोकार्णवात्तारय देवि देवा-
     नुत्थाप्य देवं सकलाधिनाथम् ॥ ६७ ॥
मूर्धा गतः क्वाम्ब हरेर्न विद्मो
     नान्योऽस्त्युपायः खलु जीवनेऽद्य ।
यथा सुधा जीवनकर्मदक्षा
     तथा जगज्जीवितदासि देवि ॥ ६८ ॥
सूत उवाच
एवं स्तुता तदा देवी गुणातीता महेश्वरी ।
प्रसन्ना परमा माया वेदैः साङ्गैश्च सामगैः ॥ ६९ ॥
तानुवाच तदा वाणी चाकाशस्थाशरीरिणी ।
देवान्प्रति सुखैः शब्दैर्जनानन्दकरी शुभा ॥ ७० ॥
मा कुरुध्वं सुराश्चिन्तां स्वस्थास्तिष्ठन्तु चामराः ।
स्तुताहं निगमैः कामं सन्तुष्टास्मि न संशयः ॥ ७१ ॥
यः पुमान्मानुषे लोके स्तौत्येतां मामकीं स्तुतिम् ।
पतिष्यति सदा भक्त्या सर्वान्कामानवाप्नुयात् ॥ ७२ ॥
शृणोति वा स्तोत्रमिदं मदीयं
     भक्त्या त्रिकालं सततं नरो यः ।
विमुक्तदुःखः स भवेत्सुखी च
     वेदोक्तमेतन्ननु वेदतुल्यम् ॥ ७३ ॥
शृण्वन्तु कारणं चाद्य यद्‌गतं वदनं हरेः ।
अकारणं कथं कार्यं संसारेऽत्र भविष्यति ॥ ७४ ॥
उदधेस्तनयां विष्णुः संस्थितामन्तिके प्रियाम् ।
जहास वदनं वीक्ष्य तस्यास्तत्र मनोरमम् ॥ ७५ ॥
तया ज्ञातं हरिर्नूनं कथं मां हसति प्रभुः ।
विरूपं हरिणा दृष्टं मुखं मे केन हेतुना ॥ ७६ ॥
विनापि कारणेनाद्य कथं हास्यस्य सम्भवः ।
सपत्‍नीव कृता तेन मन्येऽन्या वरवर्णिनी ॥ ७७ ॥
ततः कोपयुता जाता महालक्ष्मी तमोगुणा ।
तामसी तु तदा शक्तिस्तस्या देहे समाविशत् ॥ ७८ ॥
केनचित्कालयोगेन देवकार्यार्थसिद्धये ।
प्रविष्टा तामसी शक्तिस्तस्या देहेऽतिदारुणा ॥ ७९ ॥
तामस्याविष्टदेहा सा चुकोपातिशयं तदा ।
शनकैः समुवाचेदमिदं पततु ते शिरः ॥ ८० ॥
स्त्रीस्वभावाच्च भावित्वात्कालयोगाद्विनिर्गतः ।
अविचार्य तदा दत्तः शापः स्वसुखनाशनः ॥ ८१ ॥
सपत्‍नीसम्भवं दुःखं वैधव्यादधिकं त्विति ।
विचिन्त्य मनसेत्युक्तं तामसीशक्तियोगतः ॥ ८२ ॥
अनृतं साहसं माया मूर्खत्वमतिलोभता ।
अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ ८३ ॥
सशीर्षं वासुदेवं तं करोम्यद्य यथा पुरा ।
शिरोऽस्य शापयोगेन निमग्नं लवणाम्बुधौ ॥ ८४ ॥
अन्यच्च कारणं किञ्चिद्वर्तते सुरसत्तमाः ।
भवतां च महत्कार्यं भविष्यति न संशयः ॥ ८५ ॥
पुरा दैत्यो महाबाहुर्हयग्रीवोऽतिविश्रुतः ।
तपश्चक्रे सरस्वत्यास्तीरे परमदारुणम् ॥ ८६ ॥
जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम ।
निराहारो जितात्मा च सर्वभोगविवर्जितः ॥ ८७ ॥
ध्यायन्मां तामसीं शक्तिं सर्वभूषणभूषिताम् ।
एवं वर्षसहस्रं च तपश्चक्रेऽतिदारुणम् ॥ ८८ ॥
तदाहं तामसं रूपं कृत्वा तत्र समागता ।
दर्शने पुरतस्तस्य ध्यातं तत्तेन यादृशम् ॥ ८९ ॥
सिंहोपरि स्थिता तत्र तमवोचं दयान्विता ।
वरं ब्रूहि महाभाग ददामि तव सुव्रत ॥ ९० ॥
इति श्रुत्वा वचो देव्या दानवः प्रेमपूरितः ।
प्रदक्षिणां प्रणामं च चकार त्वरितस्तदा ॥ ९१ ॥
दृष्ट्वा रूपं मदीयं स प्रेमोस्फुल्लविलोचनः ।
हर्षाश्रुपूर्णनयनस्तुष्टाव स च मां तदा ॥ ९२ ॥
हयग्रीव उवाच
नमो देव्यै महामाये सृष्टिस्थित्यन्तकारिणि ।
भक्तानुग्रहचतुरे कामदे मोक्षदे शिवे ॥ ९३ ॥
धराम्बुतेजःपवनखपञ्चानां च कारणम् ।
त्वं गन्धरसरूपाणां कारणं स्पर्शशब्दयोः ॥ ९४ ॥
घ्राणं च रसना चक्षुस्त्वक्श्रोत्रमिन्द्रियाणि च ।
कर्मेन्द्रियाणि चान्यानि त्वत्तः सर्वं महेश्वरि ॥ ९५ ॥
देव्युवाच
किं तेऽभीष्टं वरं ब्रूहि वाञ्छितं यद्ददामि तत् ।
परितुष्टास्मि भक्त्या ते तपसा चाद्‌भुतेन च ॥ ९६ ॥
हयग्रीव उवाच
यथा मे मरणं मातर्न भवेत्तत्तथा कुरु ।
भवेयममरो योगी तथाजेयः सुरासुरैः ॥ ९७ ॥
देव्युवाच
जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।
मर्यादा चेदृशी लोके भवेच्च कथमन्यथा ॥ ९८ ॥
एवं त्वं निश्चयं कृत्वा मरणे राक्षसोत्तम ।
वरं वरय चेष्टं ते विचार्य मनसा किल ॥ ९९ ॥
हयग्रीव उवाच
हयग्रीवाच्च मे मृत्युर्नान्यस्माज्जगदम्बिके ।
इति मे वाञ्छितं कामं पूरयस्व मनोगतम् ॥ १०० ॥
देव्युवाच
गृहं गच्छ महाभाग कुरु राज्यं यथासुखम् ।
हयग्रीवादृते मृत्युर्न ते नूनं भविष्यति ॥ १०१ ॥
इति दत्त्वा वरं तस्मा अन्तर्धानं गता तथा ।
मुदं परमिकां प्राप्य सोऽपि स्वभवनं गतः ॥ १०२ ॥
स पीडयति दुष्टात्मा मुनीन् वेदांश्च सर्वशः ।
न कोऽपि विद्यते तस्य हन्ताद्य भुवनत्रये ॥ १०३ ॥
तस्माच्छीर्षं हयस्यास्य समुद्धृत्य मनोहरम् ।
देहेऽत्र विशिरोविष्णोस्त्वष्टा संयोजयिष्यति ॥ १०४ ॥
हयग्रीवोऽथ भगवान्हनिष्यति तमासुरम् ।
पापिष्ठं दानवं क्रूरं देवानां हितकाम्यया ॥ १०५ ॥
सूत उवाच
एवं सुरांस्तदाभाष्य शर्वाणी विरराम ह ।
देवास्तदातिसन्तुष्टास्तमूचुर्देवशिल्पिनम् ॥ १०६ ॥
देवा ऊचुः
कुरु कार्यं सुराणां वै विष्णोः शीर्षाभियोजनम् ।
दानवप्रवरं दैत्यं हयग्रीवो हनिष्यति ॥ १०७ ॥
सूत उवाच
इति श्रुत्वा वचस्तेषां त्वष्टा चातित्वरान्वितः ।
वाजिशीर्षं चकर्ताशु खड्गेन सुरसन्निधौ ॥ १०८ ॥
विष्णोः शरीरे तेनाशु योजितं वाजिमस्तकम् ।
हयग्रीवो हरिर्जातो महामायाप्रसादतः ॥ १०९ ॥
कियता तेन कालेन दानवो मददर्पितः ।
निहतस्तरसा संख्ये देवानां रिपुरोजसा ॥ ११० ॥
य इदं शुभमाख्यानं शृण्वन्ति भुवि मानवाः ।
सर्वदुःखविनिर्मुक्तास्ते भवन्ति न संशयः ॥ १११ ॥
महामायाचरित्रञ्च पवित्रं पापनाशनम् ।
पठतां शृण्वतां चैव सर्वसम्पत्तिकारकम् ॥ ११२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे हयग्रीवावतारकथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥