देवीभागवतपुराणम्/स्कन्धः ०१/अध्यायः ११

बुधोत्पत्तिः

ऋषय ऊचुः
कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका ।
कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना ॥ १ ॥
सर्वं कथानकं ब्रूहि लोमहर्षणजाधुना ।
श्रोतुकामा वयं सर्वे त्वन्मुखाब्जच्युतं रसम् ॥ २ ॥
अमृतादपि मिष्टा ते वाणी सूत रसात्मिका ।
न तृप्यामो वयं सर्वे सुधया च यथामराः ॥ ३ ॥
सूत उवाच
शृणुध्वं मुनयः सर्वे कथां दिव्यां मनोरमाम् ।
वक्ष्याम्यहं यथाबुद्ध्या श्रुतां व्यासवरोत्तमात् ॥ ४ ॥
गुरोस्तु दयिता भार्या तारा नामेति विश्रुता ।
रूपयौवनयुक्ता सा चार्वङ्गी मदविह्वला ॥ ५ ॥
गतैकदा विधोर्धाम यजमानस्य भामिनी ।
दृष्टा च शशिनात्यर्थं रूपयौवनशालिनी ॥ ६ ॥
कामातुरस्तदा जातः शशी शशिमुखीं प्रति ।
सापि वीक्ष्य विधुं कामं जाता मदनपीडिता ॥ ७ ॥
तावन्योन्यं प्रेमयुक्तौ स्मरार्तौ च बभूवतुः ।
तारा शशी मदोन्मत्तौ कामबाणप्रपीडितौ ॥ ८ ॥
रेमाते मदमत्तौ तौ परस्परस्पृहान्वितौ ।
दिनानि कतिचित्तत्र जातानि रममाणयोः ॥ ९ ॥
बृहस्पतिस्तु दुःखार्तस्तारामानयितुं गृहम् ।
प्रेषयामास शिष्यं तु नायाता सा वशीकृता ॥ १० ॥
पुनः पुनर्यदा शिष्यं परावर्तत चन्द्रमाः ।
बृहस्पतिस्तदा क्रुद्धो जगाम स्वयमेव हि ॥ ११ ॥
गत्वा सोमगृहं तत्र वाचस्पतिरुदारधीः ।
उवाच शशिनं क्रुद्धः स्मयमानं मदान्वितम् ॥ १२ ॥
किं कृतं किल शीतांशो कर्म धर्मविगर्हितम् ।
रक्षिता मम भार्येयं सुन्दरी केन हेतुना ॥ १३ ॥
तव देव गुरुश्चाहं यजमानोऽसि सर्वथा ।
गुरुभार्या कथं मूढ भुक्ता किं रक्षिताथवा ॥ १४ ॥
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।
महापातकिनो ह्येते तत्संसर्गी च पञ्चमः ॥ १५ ॥
महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः ।
न देवसदनार्होऽसि यदि भुक्तेयमङ्गना ॥ १६ ॥
मुञ्चेमामसितापाङ्गीं नयामि सदनं मम ।
नोचेद्वक्ष्यामि दुष्टात्मन् गुरुदारापहारिणम् ॥ १७ ॥
इत्येवं भाषमाणं तमुवाच रोहिणीपतिः ।
गुरुं क्रोधसमायुक्तं कान्ताविरहदुःखितम् ॥ १८ ॥
इन्दुरुवाच
क्रोधात्ते तु दुराराध्या ब्राह्मणाः क्रोधवर्जिताः ।
पूजार्हा धर्मशास्त्रज्ञा वर्जनीयास्ततोऽन्यथा ॥ १९ ॥
आगमिष्यति सा कामं गृहं ते वरवर्णिनी ।
अत्रैव संस्थिता बाला का ते हानिरिहानघ ॥ २० ॥
इच्छया संस्थिता चात्र सुखकामार्थिनी हि सा ।
दिनानि कतिचित्स्थित्वा स्वेच्छया चागमिष्यति ॥ २१ ॥
त्वयैवोदाहृतं पूर्वं धर्मशास्त्रमतं तथा ।
न स्त्री दुष्यति चारेण न विप्रो वेदकर्मणा ॥ २२ ॥
इत्युक्तः शशिना तत्र गुरुरत्यन्तदुःखितः ।
जगाम स्वगृहं तूर्णं चिन्ताविष्टः स्मरातुरः ॥ २३ ॥
दिनानि कतिचित्तत्र स्थित्वा चिन्तातुरो गुरुः ।
ययावथ गृहं तस्य त्वरितश्चौषधीपतेः ॥ २४ ॥
स्थितः क्षत्रा निषिद्धोऽसौ द्वारदेशे रुषान्वितः ।
नाजगाम शशी तत्र चुकोपाति बृहस्पतिः ॥ २५ ॥
अयं मे शिष्यतां यातो गुरुपत्‍नीं तु मातरम् ।
जग्राह बलतोऽधर्मी शिक्षणीयो मयाधुना ॥ २६ ॥
उवाच वाचं कोपात्तु द्वारदेशस्थितो बहिः ।
किं शेषे भवने मन्द पापाचार सुराधम ॥ २७ ॥
देहि मे कामिनीं शीघ्रं नोचेच्छापं ददाम्यहम् ।
करोमि भस्मसान्नूनं न ददासि प्रियां मम ॥ २८ ॥
सूत उवाच
क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः ।
श्रुत्वा द्विजपतिः शीघ्रं निर्गतः सदनाद्‌बहिः ॥ २९ ॥
तमुवाच हसन्सोमः किमिदं बहु भाषसे ।
न ते योग्यासितापाङ्गी सर्वलक्षणसंयुता ॥ ३० ॥
कुरूपां च स्वसदृशीं गृहाणान्यां स्त्रियं द्विज ।
भिक्षुकस्य गृहे योग्या नेदृशी वरवर्णिनी ॥ ३१ ॥
रतिः स्वसदृशे कान्ते नार्याः किल निगद्यते ।
त्वं न जानासि मन्दात्मन् कामशास्त्रविनिर्णयम् ॥ ३२ ॥
यथेष्टं गच्छ दुर्बुद्धे नाहं दास्यामि कामिनीम् ।
यच्छक्यं कुरु तत्कामं न देया वरवर्णिनी ॥ ३३ ॥
कामार्तस्य च ते शापो न मां बाधितुमर्हति ।
नाहं ददे गुरो कान्तां यथेच्छसि तथा कुरु ॥ ३४ ॥
सूत उवाच
इत्युक्तः शशिना चेज्यश्चिन्तामाप रुषान्वितः ।
जगाम तरसा सद्म क्रोधयुक्तः शचीपतेः ॥ ३५ ॥
दृष्ट्वा शतक्रतुस्तत्र गुरुं दुःखातुरं स्थितम् ।
पाद्यार्घ्याचमनीयाद्यैः पूजयित्वा सुसंस्थितः ॥ ३६ ॥
पप्रच्छ परमोदारस्तं तथावस्थितं गुरुम् ।
का चिन्ता ते महाभाग शोकार्तोऽसि महामुने ॥ ३७ ॥
केनापमानितोऽसि त्वं मम राज्ये गुरुश्च मे ।
त्वदधीनमिदं सर्वं सैन्यं लोकाधिपैः सह ॥ ३८ ॥
बह्मा विष्णुस्तथा शम्भुर्ये चान्ये देवसत्तमाः ।
करिष्यन्ति च साहाय्यं का चिन्ता वद साम्प्रतम् ॥ ३९ ॥
गुरुरुवाच
शशिनापहृता भार्या तारा मम सुलोचना ।
न ददाति स दुष्टात्मा प्रार्थितोऽपि पुनः पुनः ॥ ४० ॥
किं करोमि सुरेशान त्वमेव शरणं मम ।
साहाय्यं कुरु देवेश दुःखितोऽस्मि शतक्रतो ॥ ४१ ॥
इन्द्र उवाच
मा शोकं कुरु धर्मज्ञ दासोऽस्मि तव सुव्रत ।
आनयिष्याम्यहं नूनं भार्यां तव महामते ॥ ४२ ॥
प्रेषिते चेन्मया दूते न दास्यति मदाकुलः ।
ततो युद्धं करिष्यामि देवसैन्यैः समावृतः ॥ ४३ ॥
इत्याश्वास्य गुरुं शक्रो दूतं वक्तृविचक्षणम् ।
प्रेषयामास सोमाय वार्ताशंसिनमद्‌भुतम् ॥ ४४ ॥
स गत्वा शशिलोकं तु त्वरितः सुविचक्षणः ।
उवाच वचनेनैव वचनं रोहिणीपतिम् ॥ ४५ ॥
प्रेषितोऽहं महाभाग शक्रेण त्वां विवक्षया ।
कथितं प्रभुणा यच्च तद्‌ब्रवीमि महामते ॥ ४६ ॥
धर्मज्ञोऽसि महाभाग नीतिं जानासि सुव्रत ।
अत्रिः पिता ते धर्मात्मा न निद्यं कर्तुमर्हसि ॥ ४७ ॥
भार्या रक्ष्या सर्वभूतैर्यथाशक्ति ह्यतन्द्रितैः ।
तदर्थे कलहः कामं भविता नात्र संशयः ॥ ४८ ॥
यथा तव तथा तस्य यत्‍नः स्याद्दाररक्षणे ।
आत्मवत्सर्वभूतानि चिन्तय त्वं सुधानिधे ॥ ४९ ॥
अष्टाविंशतिसंख्यास्ते कामिन्यो दक्षजाः शुभाः ।
गुरुपत्‍नीं कथं भोक्तुं त्वमिच्छसि सुधानिधे ॥ ५० ॥
स्वर्गे सदा वसन्त्येता मेनकाद्या मनोरमाः ।
भुंक्ष्व ताः स्वेच्छया कामं मुञ्च पत्‍नीं गुरोरपि ॥ ५१ ॥
ईश्वरा यदि कुर्वन्ति जुगुप्सितमहन्तया ।
अज्ञास्तदनुवर्तन्ते तदा धर्मक्षयो भवेत् ॥ ५२ ॥
तस्मान्मुञ्च महाभाग गुरोः पत्‍नीं मनोरमाम् ।
कलहस्त्वन्निमित्तोऽद्य सुराणां न भवेद्यथा ॥ ५३ ॥
सूत उवाच
सोमः शक्रवचः श्रुत्वा किञ्चित्क्रोधसमाकुलः ।
भङ्ग्या प्रतिवचः प्राह शक्रदूतं तदा शशी ॥ ५४ ॥
इन्दुरावाच
धर्मज्ञोऽसि महाबाहो देवानामधिपः स्वयम् ।
पुरोधापि च ते तादृग्युवयोः सदृशी मतिः ॥ ५५ ॥
परोपदेशे कुशला भवन्ति बहवो जनाः ।
दुर्लभस्तु स्वयं कर्ता प्राप्ते कर्मणि सर्वदा ॥ ५६ ॥
बार्हस्पत्यप्रणीतं च शास्त्रं गृह्णन्ति मानवाः ।
को विरोधोऽत्र देवेश कामयानां भजन्स्त्रियम् ॥ ५७ ॥
स्वकीयं बलिनां सर्वं दुर्बलानां न किञ्चन ।
स्वीया च परकीया च भ्रमोऽयं मन्दचेतसाम् ॥ ५८ ॥
तारा मय्यनुरक्ता च यथा न तु तथा गुरौ ।
अनुरक्ता कथं त्याज्या धर्मतो न्यायतस्तथा ॥ ५९ ॥
गृहारम्भस्तु रक्तायां विरक्तायां कथं भवेत् ।
विरक्तेयं यदा जाता चकमेऽनुजकामिनीम् ॥ ६० ॥
न दास्येऽहं वरारोहां गच्छ दूत वद स्वयम् ।
ईश्वरोऽसि सहस्राक्ष यदिच्छसि कुरुष्व तत् ॥ ६१ ॥
सूत उवाच
इत्युक्तः शशिना दूतः प्रययौ शक्रसन्निधिम् ।
इन्द्रायाचष्ट तत्सर्वं यदुक्तं शीतरश्मिना ॥ ६२ ॥
तुराषाडपि तच्छ्रुत्वा क्रोधयुक्तो बभूव ह ।
सेनोद्योगं तथा चक्रे साहाय्यार्थं गुरोर्विभुः ॥ ६३ ॥
शुक्रस्तु विग्रहं श्रुत्वा गुरुद्वेषात्ततो ययौ ।
मा ददस्वेति तं वाक्यमुवाच शशिनं प्रति ॥ ६४ ॥
साहाय्यं ते करिष्यामि मन्त्रशक्त्या महामते ।
भविता यदि संग्रामस्तव चेन्द्रेण मारिष ॥ ६५ ॥
शङ्करस्तु तदाकर्ण्य गुरुदाराभिमर्शनम् ।
गुरुशत्रुं भृगुं मत्वा साहाय्यमकरोत्तदा ॥ ६६ ॥
संग्रामस्तु तदा वृत्तो देवदानवयोर्द्रुतम् ।
बहूनि तत्र वर्षाणि तारकासुरवत्किल ॥ ६७ ॥
देवासुरकृतं युद्धं दृष्ट्वा तत्र पितामहः ।
हंसारूढो जगामाशु तं देशं क्लेशशान्तये ॥ ६८ ॥
राकापतिं तदा प्राह मुञ्च भार्यां गुरोरिति ।
नोचेद्विष्णुं समाहूय करिष्यामि तु संक्षयम् ॥ ६९ ॥
भृगुं निवारयामास ब्रह्मा लोकपितामहः ।
किमन्यायमतिर्जाता सङ्गदोषान्महामते ॥ ७० ॥
निषेधयामास ततो भृगुस्तं चौषधीपतिम् ।
मुञ्च भार्यां गुरोरद्य पित्राहं प्रेषितस्तव ॥ ७१ ॥
सूत उवाच
द्विजराजस्तु तच्छ्रुत्वा भृगोर्वचनमद्‌भुतम् ।
ददौ च तत्प्रियां भार्यां गुरोर्गर्भवतीं शुभाम् ॥ ७२ ॥
प्राप्य कान्तां गुरुर्हृष्टः स्वगृहं मुदितो ययौ ।
ततो देवास्ततो दैत्या ययुः स्वान्स्वान्गृहान्प्रति ॥ ७३ ॥
ब्रह्मा स्वसदनं प्राप्तः कैलासं चापि शङ्करः ।
बृहस्पतिस्तु सन्तुष्टः प्राप्य भार्यां मनोरमाम् ॥ ७४ ॥
ततः कालेन कियता तारासूत सुतं शुभम् ।
सुदिने शुभनक्षत्रे तारापतिसमं गुणैः ॥ ७५ ॥
दृष्ट्वा पुत्रं गुरुर्जातं चकार विधिपूर्वकम् ।
जातकर्मादिकं सर्वं प्रहृष्टेनान्तरात्मना ॥ ७६ ॥
श्रुतं चन्द्रमसा जन्म पुत्रस्य मुनिसत्तमाः ।
दूतं च प्रेषयामास गुरुं प्रति महामतिः ॥ ७७ ॥
न चायं तव पुत्रोऽस्ति मम वीर्यसमुद्‌भवः ।
कथं त्वं कृतवान्कामं जातकर्मादिकं विधिम् ॥ ७८ ॥
तच्छ्रुत्वा वचनं तस्य दूतस्य च बृहस्पतिः ।
उवाच मम पुत्रो मे सदृशो नात्र संशयः ॥ ७९ ॥
पुनर्विवादः सञ्जातो मिलिता देवदानवाः ।
युद्धार्थमागतास्तेषां समाजः समजायत ॥ ८० ॥
तत्रागतः स्वयं ब्रह्मा शान्तिकामः प्रजापतिः ।
निवारयामास मुखे संस्थितान्युद्धदुर्मदान् ॥ ८१ ॥
तारां पप्रच्छ धर्मात्मा कस्यायं तनयः शुभे ।
सत्यं वद वरारोहे यथा क्लेशः प्रशाम्यति ॥ ८२ ॥
तमुवाचासितापाङ्गी लज्जमानाप्यधोमुखी ।
चन्द्रस्येति शनैरन्तर्जगाम वरवर्णिनी ॥ ८३ ॥
जग्राह तं सुतं सोमः प्रहृष्टेनान्तरात्मना ।
नाम चक्रे बुध इति जगाम स्वगृहं पुनः ॥ ८४ ॥
ययौ ब्रह्मा स्वकं धाम सर्वे देवाः सवासवाः ।
यथागतं गतं सर्वैः सर्वशः प्रेक्षकैर्जनैः ॥ ८५ ॥
कथितेयं बुधोत्पत्तिर्गुरुक्षेत्रे च सोमतः ।
यथा श्रुता मया पूर्वं व्यासात्सत्यवतीसुतात् ॥ ८६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे बुधोत्पत्तिर्नामेकादशोऽध्यायः ॥ ११ ॥