देवीभागवतपुराणम्/स्कन्धः ०१/अध्यायः २०
धृतराष्ट्रादीनामुत्पत्तिवर्णनम्
ऋषय ऊचुः
शुकस्तु परमां सिद्धिमाप्तवान्देवसत्तमः ।
किं चकार ततो व्यासस्तन्नो ब्रूहि सविस्तरम् ॥ १ ॥
सूत उवाच
शिष्या व्यासस्य येऽप्यासन्वेदाभ्यासपरायणाः ।
आज्ञामादाय ते सर्वे गताः पूर्वं महीतले ॥ २ ॥
असितो देवलश्चैव वैशम्पायन एव च ।
जैमिनिश्च सुमन्तुश्च गताः सर्वे तपोधनाः ॥ ३ ॥
तानेतान्वीक्ष्य पुत्रं च लोकान्तरितमप्युत ।
व्यासः शोकसमाक्रान्तो गमनायाकरोन्मतिम् ॥ ४ ॥
सस्मार मनसा व्यासस्तां निषादसुतां शुभाम् ।
मातरं जाह्नवीतीरे मुक्तां शोकसमन्विताम् ॥ ५ ॥
स्मृत्वा सत्यवतीं व्यासस्त्यक्त्वा तं पर्वतोत्तमम् ।
आजगाम महातेजा जन्मस्थानं स्वकं मुनिः ॥ ६ ॥
द्वीपं प्राप्याथ पप्रच्छ क्व गता सा वरानना ।
निषादास्तं समाचख्युर्दत्ता राज्ञे तु कन्यका ॥ ७ ॥
दाशराजोऽपि सम्पूज्य व्यासं प्रीतिपुरःसरम् ।
स्वागतेनाभिसत्कृत्य प्रोवाच विहिताञ्जलिः ॥ ८ ॥
दाशराज उवाच
अद्य मे सफलं जन्म पावितं नः कुलं मुने ।
देवानामपि दुर्दर्शं यज्जातं तव दर्शनम् ॥ ९ ॥
यदर्थमागतोऽसि त्वं तद्ब्रूहि द्विजसत्तम ।
अपि दारा धनं पुत्रास्त्वदायत्तमिदं विभो ॥ १० ॥
सरस्वत्यास्तटे रम्ये चकाराश्रममण्डलम् ।
व्यासस्तपःसमायुक्तस्तत्रैवास समाहितः ॥ ११ ॥
सत्यवत्याः सुतौ जातौ शन्तनोरमितद्युतेः ।
मत्वा तौ भ्रातरौ व्यासः सुखमाप वने स्थितः ॥ १२ ॥
चित्राङ्गदः प्रथमजो रूपवाञ्छत्रुतापनः ।
बभूव नृपतेः पुत्रः सर्वलक्षणसंयुतः ॥ १३ ॥
विचित्रवीर्यनामासौ द्वितीयः समजायत ।
सोऽपि सर्वगुणोपेतः शन्तनोः सुखवर्धनः ॥ १४ ॥
गाङ्गेयः प्रथमस्तस्य महावीरो बलाधिकः ।
तथैव तौ सुतौ जातौ सत्यवत्यां महाबलौ ॥ १५ ॥
शन्तनुस्तान्सुतान्वीक्ष्य सर्वलक्षणसंयुतान् ।
अमंस्ताजय्यमात्मानं देवादीनां महामनाः ॥ १६ ॥
अथ कालेन कियता शन्तनुः कालपर्ययात् ।
तत्याज देहं धर्मात्मा देही जीर्णमिवाम्बरम् ॥ १७ ॥
कालधर्मगते राज्ञि भीष्मश्चक्रे विधानतः ।
प्रेतकार्याणि सर्वाणि दानानि विविधानि च ॥ १८ ॥
चित्राङ्गदं ततो राज्ये स्थापयामास वीर्यवान् ।
स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत् ॥ १९ ॥
चित्राङ्गदस्तु वीर्येण प्रमत्तः परदुःखदः ।
बभूव बलवान्वीरः सत्यवत्यात्मजः शुचिः ॥ २० ॥
अथैकदा महाबाहुः सैन्येन महतावृतः ।
प्रचचार वनोद्देशात्पश्यन्वध्यान्मृगान् रुरून् ॥ २१ ॥
चित्राङ्गदस्तु गन्धर्वो दृष्ट्वा तं मार्गगं नृपम् ।
उत्ततारान्तिकं भूमेर्विमानवरमास्थितः ॥ २२ ॥
तत्राभूच्च महद्युद्धं तयोः सदृशवीर्ययोः ।
कुरुक्षेत्रे महास्थाने त्रीणि वर्षाणि तापसाः ॥ २३ ॥
इन्द्रलोकमवापाशु गन्धर्वेण हतो रणे ।
भीष्मः श्रुत्वा चकाराशु तस्यौर्ध्वदैहिकं तदा ॥ २४ ॥
गाङ्गेयः कृतशोकस्तु मन्त्रिभिः परिवारितः ।
विचित्रवीर्यनामानं राज्येशं च चकार ह ॥ २५ ॥
मन्त्रिभिर्बोधिता पश्चाद्गुरुभिश्च महात्मभिः ।
स्वपुत्रं राज्यगं दृष्ट्वा पुत्रशोकहतापि च ॥ २६ ॥
सत्यवत्यतिसन्तुष्टा बभूव वरवर्णिनी ।
व्यासोऽपि भ्रातरं श्रुत्वा राजानं मुदितोऽभवत् ॥ २७ ॥
यौवनं परमं प्राप्तः सत्यवत्याः सुतः शुभः ।
चकार चिन्तां भीष्मोऽपि विवाहार्थं कनीयसः ॥ २८ ॥
काशिराजसुतास्तिस्रः सर्वलक्षणसंयुताः ।
तेन राज्ञा विवाहार्थं स्थापिताश्च स्वयंवरे ॥ २९ ॥
राजानो राजपुत्राश्च समाहूताः सहस्रशः ।
इच्छास्वयंवरार्थं वै पूज्यमानाः समागताः ॥ ३० ॥
तत्र भीष्मो महातेजास्ता जहार बलेन वै ।
निर्मथ्य राजकं सर्वं रथेनैकेन वीर्यवान् ॥ ३१ ॥
स जित्वा पार्थिवान्सर्वांस्ताश्चादाय महारथः ।
बाहुवीर्येण तेजस्वी ह्याससाद गजाह्वयम् ॥ ३२ ॥
मातृवद्भगिनीवच्च पुत्रीवच्चिन्तयन्किल ।
तिस्रः समानयामास कन्यका वामलोचनाः ॥ ३३ ॥
सत्यवत्यै निवेद्याशु द्विजानाहूय सत्वरः ।
दैवज्ञान्वेदविदुषः पर्यपृच्छच्छुभं दिनम् ॥ ३४ ॥
कृत्वा विवाहसम्भारं यदा वै भ्रातरं निजम् ।
विचित्रवीर्यं धर्मिष्ठं विवाहयति ता यदा ॥ ३५ ॥
तदा ज्येष्ठाप्युवाचेदं कन्यका जाह्नवीसुतम् ।
लज्जमानासितापाङ्गी तिसॄणां चारुलोचना ॥ ३६ ॥
गङ्गापुत्र कुरुश्रेष्ठ धर्मज्ञ कुलदीपक ।
मया स्वयंवरे शाल्वो वृतोऽस्ति मनसा नृपः ॥ ३७ ॥
वृताहं तेन राज्ञा वै चित्ते प्रेमसमाकुले ।
यथायोग्यं कुरुष्वाद्य कुलस्यास्य परन्तप ॥ ३८ ॥
तेनाहं वृतपूर्वाऽस्मि त्वं च धर्मभृतां वरः ।
बलवानसि गाङ्गेय यथेच्छसि तथा कुरु ॥ ३९ ॥
सूत उवाच
एवमुक्तस्तया तत्र कन्यया कुरुनन्दनः ।
अपृच्छत् ब्राह्मणान्वृद्धान्मातरं सचिवांस्तथा ॥ ४० ॥
सर्वेषां मतमाज्ञाय गाङ्गेयो धर्मवित्तमः ।
गच्छेति कन्यकां प्राह यथारुचि वरानने ॥ ४१ ॥
विसर्जिताथ सा तेन गता शाल्वनिकेतनम् ।
उवाच तं वरारोहा राजानं मनसेप्सितम् ॥ ४२ ॥
विनिर्मुक्तास्मि भीष्मेण त्वन्मनस्केति धर्मतः ।
आगतास्मि महाराज गृहाणाद्य करं मम ॥ ४३ ॥
धर्मपत्नी तवात्यन्तं भवामि नृपसत्तम ।
चिन्तितोऽसि मया पूर्वं त्वयाहं नात्र संशयः ॥ ४४ ॥
शाल्व उवाच
गृहीता त्वं वरारोहे भीष्मेण पश्यतो मम ।
रथे संस्थापिता तेन न ग्रहीष्ये करं तव ॥ ४५ ॥
परोच्छिष्टां च कः कन्यां गृह्णाति मतिमान्नरः ।
अतोऽहं न ग्रहीष्यामि त्यक्तां भीष्मेण मातृवत् ॥ ४६ ॥
रुदती विलपन्ती सा त्यक्ता तेन महात्मना ।
पुनर्भीष्मं समागत्य रुदती चेदमब्रवीत् ॥ ४७ ॥
शाल्वो मुक्तां त्वया वीर न गृह्णाति गृहाण माम् ।
धर्मज्ञोऽसि महाभाग मरिष्याम्यन्यथा ह्यहम् ॥ ४८ ॥
भीष्म उवाच
अन्यचित्तां कथं त्वां वै गृह्णामि वरवर्णिनि ।
पितरं स्वं वरारोहे व्रज शीघ्नं निराकुला ॥ ४९ ॥
तथोक्ता सा तु भीष्मेण जगाम वनमेव हि ।
तपश्चकार विजने तीर्थे परमपावने ॥ ५० ॥
द्वे भार्ये चातिरूपाढ्ये तस्य राज्ञो बभूवतुः ।
अम्बालिका चाम्बिका च काशिराजसुते शुभे ॥ ५१ ॥
राजा विचित्रवीर्योऽसौ ताभ्यां सह महाबलः ।
रेमे नानाविहारैश्च गृहे चोपवने तथा ॥ ५२ ॥
वर्षाणि नव राजेन्द्रः कुर्वन् क्रीडा मनोरमाम् ।
प्रापासौ मरणं भूयो गृहीतो राजयक्ष्मणा ॥ ५३ ॥
मृते पुत्रेऽतिदुःखार्ता जाता सत्यवती तदा ।
कारयामास पुत्रस्य प्रेतकार्याणि मन्त्रिभिः ॥ ५४ ॥
भीष्ममाह तदैकान्ते वचनं चातिदुःखिता ।
राज्यं कुरु महाभाग पितुस्ते शन्तनोः सुत ॥ ५५ ॥
भ्रातुर्भार्यां गृहाण त्वं वंशञ्च परिरक्षय ।
यथा न नाशमायाति ययातेर्वंश इत्युत ॥ ५६ ॥
भीष्म उवाच
प्रतिज्ञा मे श्रुता मातः पित्रर्थे या मया कृता ।
नाहं राज्यं करिष्यामि न चाहं दारसंग्रहम् ॥ ५७ ॥
सूत उवाच
तदा चिन्तातुरा जाता कथं वंशो भवेदिति ।
नालसाद्धि सुखं मह्यं समुत्पन्ने ह्यराजके ॥ ५८ ॥
गाङ्गेयस्तामुवाचेदं मा चिन्तां कुरु भामिनि ।
पुत्रं विचित्रवीर्यस्य क्षेत्रजं चोपपादय ॥ ५९ ॥
कुलीनं द्विजमाहूय वध्वा सह नियोजय ।
नात्र दोषोऽस्ति वेदेऽपि कुलरक्षाविधौ किल ॥ ६० ॥
पौत्रं चैवं समुत्पाद्य राज्यं देहि शुचिस्मिते ।
अहं च पालयिष्यामि तस्य शासनमेव हि ॥ ६१ ॥
तच्छ्रुत्वा वचनं तस्य कानीनं स्वसुतं मुनिम् ।
जगाम मनसा व्यासं द्वैपायनमकल्मषम् ॥ ६२ ॥
स्मृतमात्रस्ततो व्यास आजगाम स तापसः ।
कृत्वा प्रणामं मात्रेऽथ संस्थितो दीप्तिमान्मुनिः ॥ ६३ ॥
भीष्मेण पूजितः कामं सत्यवत्या च मानितः ।
तस्थौ तत्र महातेजा विधूमोऽग्निरिवापरः ॥ ६४ ॥
तमुवाच मुनिं माता पुत्रमुत्पादयाधुना ।
क्षेत्रे विचित्रवीर्यस्य सुन्दरं तव वीर्यजम् ॥ ६५ ॥
व्यासः श्रुत्वा वचो मातुराप्तवाक्यममन्यत ।
ओमित्युक्त्वा स्थितस्तत्र ऋतुकालमचिन्तयत् ॥ ६६ ॥
अम्बिका च यदा स्नाता नारी ऋतुमती तदा ।
सङ्गं प्राप्य मुनेः पुत्रमसूतान्धं महाबलम् ॥ ६७ ॥
जन्मान्धं च सुतं वीक्ष्य दुःखिता सत्यवत्यपि ।
द्वितीयां च वधूमाह पुत्रमुत्पादयाशु वै ॥ ६८ ॥
ऋतुकालेऽथ सम्प्राप्ते व्यासेन सह सङ्गता ।
तथा चाम्बालिका रात्रौ गर्भं नारी दधार सा ॥ ६९ ॥
सोऽपि पाण्डुः सुतो जातो राज्ययोग्यो न सम्मतः ।
पुत्रार्थे प्रेरयामास वर्षान्ते च पुनर्वधूम् ॥ ७० ॥
आहूय च ततो व्यासं सम्प्रार्थ्य मुनिसत्तमम् ।
प्रेषयामास रात्रौ सा शयनागारमुत्तमम् ॥ ७१ ॥
न गता च वधूस्तत्र प्रेष्या सम्प्रेषिता तया ।
तस्यां च विदुरो जातो दास्यां धर्मांशतः शुभः ॥ ७२ ॥
एवं व्यासेन ते पुत्रा धृतराष्ट्रादयस्त्रयः ।
उत्पादिता महावीरा वंशरक्षणहेतवे ॥ ७३ ॥
एतद्वः सर्वमाख्यातं तस्य वंशसमुद्भवम् ।
व्यासेन रक्षितो वंशो भ्रातृधर्मविदानघाः ॥ ७४ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ प्रथमस्कन्धे धृतराष्ट्रादीनामुत्पत्तिवर्णनं नाम विंशोऽध्यायः ॥ २० ॥