प्रमुखा विकल्पसूचिः उद्घाट्यताम्

देवीभागवतपुराणम्/स्कन्धः ०२/अध्यायः ०३

< देवीभागवतपुराणम्‎ | स्कन्धः ०२

प्रतीयसकाशाच्छन्तनुजन्मवर्णनम्

उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः ।।
सत्यवत्यास्तथा सूत विस्तरेण त्वयाऽनघ ।। १ ।।
तथाऽप्येकस्तु संदेहश्चित्तेऽस्माकं सुसंस्थितः ।।
न निवर्तति धर्मज्ञ कथितेन त्वयाऽनघ ।। २ ।।
माता व्यासस्य या प्रोक्ता नाम्ना सत्यवती शुभा ।।
सा कथं नृपतिं प्राप्ता शंतुनुं धर्मवित्तमम् ।।३।।
निषादपुत्रीं स कथं वृतवान्नृपतिः स्वयम् ।।
धर्मिष्ठः पौरवो राजा कुलहीनामसंवृत्ताम् ।। ४ ।।
शंतनोः प्रथमा पत्नी का ह्यभूत्कथयाधुना ।।
भीष्मः पुत्रोऽथ मेधावी वसोरंशः कथं पुनः ।। ५ ।।
त्वया प्रोक्तं पुरा सूत राजा चित्रांगदः कृतः ।।
सत्यवत्याः सुतो वीरो भीष्मेणामित तेजसा ।। ६ ।।
चित्रांगदे हते वीरे कृतस्तदनुजस्तथा ।।
विचित्रवीर्यनामाऽसौ सत्यवत्याः सुतो नृपः ।। ७ ।।
ज्येष्ठे भीष्मे स्थिते पूर्वे धमिष्ठं रूपवत्यपि ।।
कृतवान्स कथं राज्यं स्थापितस्तेन जानता ।। ८ ।।
मृते विचित्रवीर्ये तु सत्यवत्यतिदुःखिता ।।
वधूभ्यां गोलकौ पुत्रौ जनयामास सा कथम् ।। ९ ।।
कथं राज्यं न भीष्माय ददौ सा वरवर्णिनी ।।
न कृतस्तु कथं तेन वीरेण दारसंग्रहः ।। 2.3.१० ।।
अधर्मस्तु कृतः कस्माद्व्यासेनामिततेजसा ।।
ज्येष्ठेन भ्रातृभार्यायां पुत्रानुत्पादिताविति ।। ११ ।।
पुराणकर्ता धर्मात्मा स कथं कृतवान्मुनिः ।।
सेवनं परदाराणां भ्रातुश्चैव विशेषतः ।। १२ ।।
जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः ।।
शिष्टाचारः कथं सूत वेदानुमितिकारक ।। १३ ।।
व्यास शिष्योऽसि मेधाविन्संदेहं छेत्तुमर्हसि ।।
श्रोतुकामा वयं सर्वे धर्मक्षेत्रे कृतक्षणाः ।। १४ ।।
सूत उवाच ।।
इक्ष्वाकुवंशप्रभवो महाभिष इति स्मृतः ।।
सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः ।। १५ ।।
अश्वमेधसहस्रेण वाजपेयशतेन च ।।
तोषयामास देवेंद्रं स्वर्गं प्राप महामतिः । ।। १६ ।।
एकदा ब्रह्मसदनं गतो राजा महाभिषः ।।
सुराः सर्वे समाजग्मुः सेवनार्थं प्रजापतिम् ।। १७ ।।
गंगा महानदी तत्र संस्थिता सेवितुं विभुम् ।।
तस्या वासः समुद्धूतं मारुतेन तरस्विना ।। १८ ।।
अधोमुखाः सुराः सर्वे न विलोक्यैव तां स्थिताः ।।
राजा महाभिषस्तां तु निःशंकः समपश्यत ।। १९ ।।
साऽपि तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी ।।
दृष्ट्वा तौ प्रेमसंयुक्तौ निर्लज्जौ काममोहितौ ।।2.3.२०।।
ब्रह्मा चुकोप तौ तूर्णं शशाप च रुषाऽन्वितः ।।
मर्त्यलोकेषु भूपाल जन्म प्राप्य पुनर्दिवम् ।। २१ ।।
पुण्येन महताऽऽविष्टस्त्वमवाप्स्यसि सर्वथा ।।
गंगां तथोक्तवान्ब्रह्मा वीक्ष्य प्रेमवतीं नृपे ।। २२ ।।
विमनस्कौ तु तौ तूर्णं निःसृतौ ब्रह्मणोंऽतिकात् ।।
स नृपश्चिंतयित्वाऽथ भूलोके धर्मतत्परान् ।। २३ ।।
प्रतीपं चिंतयामास पितरं पुरुवंशजम् ।।
एतस्मिन्समये चाष्टौ वसवः स्त्रीसमन्विताः ।। २४ ।।
वसिष्ठस्याऽऽश्रमं प्राप्ता रममाणा यदृच्छया ।।
पृथ्वादीनां वसूनां च मध्ये कोऽपि वसूत्तमः ।। २५ ।।
द्यौर्नामा तस्य भार्याऽथ नंदिनीं गां ददर्श ह ।।
दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा ।। २६ ।।
द्यौस्तामाह वसिष्ठस्य गौरियं शृणु सुंदरि ।।
दुग्धमस्याः पिबेद्यस्तु नारी वा पुरषोऽथ वा ।। २७ ।।
अयुतायुर्भवेन्यूनं सदैवाऽगतयौवनः ।।
तच्छ्रुत्वा सुंदरी प्राह मृत्युलोकेऽस्ति मे सखी ।। २८ ।।
उशीनरस्य राजर्षेः पुत्री परमशोभना ।।
तस्या हेतोर्महाभाग सवत्सां गां पयस्विनीम्।।२९।।
आनयस्वाऽऽश्रमश्रेष्ठं नंदिनीं कामदां शुभाम् ।।
यावदस्याः पयः पीत्वा सखी मम सदैव हि ।। 2.3.३० ।।
मानुषेषु भवेदेका जरारोगविवर्जिता ।।
तच्छ्रुत्वा वचनं तस्या द्यौर्जहार च नंदिनीम् ।। ३१ ।।
अवमन्य मुनिं दांतं पृथ्वाद्यैः सहितोऽनघः ।।
हृतायामथ नंदिन्यां वसिष्ठस्तु महातपाः ।। ३२ ।।
आजगामाऽऽश्रमपदं फलान्यादाय सत्वरः ।।
नापश्यत यदा धेनुं सवत्सां स्वाश्रमे मुनिः ।। ३३ ।।
मृगयामास तेजस्वी गह्वरेषु वनेष्वपि ।।
नासादिता यदा धेनुश्चुकोपातिशयं मुनिः ।। ३४ ।।
वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् ।।
वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै ।। ३५ ।।
तस्मात्सर्वे जनिष्यंति मानुषेषु न संशयः ।।
एवं शशाप धर्मात्मा वसूंस्तान्वारुणिः स्वयम् ।। ३६ ।।
श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते ।।
शप्ताः स्म इति जानंत ऋषिं तमुपचक्रमुः ।। ३७ ।।
प्रसादयंतस्तमृषिं वसव शरणं गताः ।।
मुनिस्तानाह धर्मात्मा वसून्दीनान्पुरः स्थितान् ।। ३८ ।।
अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ ।।
येनेयं विहृता धेनुर्नंदिनी मम वत्सला ।। ३९ ।।
तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति ।।
ते शप्ताः पथि गच्छतीं गंगां दृष्ट्वा सरिद्वराम्।।2.3.४०।।
ऊचुस्तां प्रणताः सर्वे शप्तां चिंतातुरां नदीम् ।।
भविष्यामो वयं देवि कथं देवाः सुधाशनाः ।। ४१ ।।
मानुषाणां च जठरं चिंतेयं महती हि नः ।।
तस्मात्त्वं मानुषी भूत्वा जनयास्मान्सरिद्वरे ।। ४२ ।।
शंतनुर्नाम राजर्षिस्तस्य भार्या भवानघे ।।
जाताञ्जाताञ्जले चास्मान्निक्षिपस्व सुरापगे ।। ४३ ।।
एवं शापविनिर्मोक्षो भविता नात्र संशयः ।।
तथेत्युक्ताश्च ते सर्वे जग्मुर्लोकं स्वकं पुनः ।। ४४ ।।
गंगाऽपि निर्गता देवी चिंत्यमाना पुनः पुनः ।।
महाभिषो नृपो जातः प्रतीपस्य सुतस्तदा ।। ४५ ।।
शंतनुर्नाम राजर्षिर्धर्मात्मा सत्यसंगरः ।।
प्रतीपस्तु स्तुतिं चक्रे सूर्यस्यामिततेजसः ।। ४६ ।।
तदा च सलिलात्तस्मान्निःसृता वरवर्णिनी ।।
दक्षिणं शालसंकाशमूरुं भेजे शुभानना ।। ४७ ।।
अंके स्थितां स्त्रियं चाह मापृष्ट्वा किं वरानने ।।
ममोरावास्थिताऽसि त्वं किमर्थं दक्षिणे शुभे ।। ४८ ।।
सा तमाह वरारोहा यदर्थं राजसत्तम ।।
स्थिताऽस्म्यंके कुरुश्रेष्ठ कामयानां भजस्व माम् ।। ४९ ।।
तामवोचदथो राजा रूपयौवनशालिनीम् ।।
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनीम् ।। 2.3.५० ।।
स्थिता दक्षिणमूरुं मे त्वमाश्लिष्य च भामिनि ।।
अपत्यानां स्नुषाणां च स्थानं विद्धि शुचिस्मिते ।। ५१ ।।
स्नुषा मे भव कल्याणि जाते पुत्रेऽतिवाञ्छिते ।।
भविष्यति च मे पुत्रस्तव पुण्यान्न संशयः ।। ५२ ।।
तथेत्युक्ता गता सा वै कामिनी दिव्य दर्शना ।।
राजा चापि गृहं प्राप्तश्चिंतयंस्तां स्त्रियं पुनः ।। ५३ ।।
ततः कालेन कियता जाते पुत्रे वयस्विनि ।।
वनं जिगमिषू राजा पुत्रं वृत्तांतमूचिवान् ।। ५४ ।।
वृत्तांतं कथयित्वा तु पुनरूचे निजं सुतम् ।।
यदि प्रयाति सा बाला त्वां वने चारुहासिनी ।।५५।।
कामयाना वरारोहा ता भजेथा मनोरमाम् ।।
न प्रष्टव्या त्वया काऽसि मन्नियोगान्नराधिप ।। ५६ ।।
धर्मपत्नीं च तां कृत्वा भविता त्वं सुखी किल ।।
सूत उवाच ।।
एवं संदिश्य तं पुत्रं भूपतिः प्रीतमानसः ।। ५७ ।।
दत्त्वा राज्यश्रियं सर्वां वनं राजा विवेश ह ।।
तत्रापि च तपस्तप्त्वा समाराध्य परांबिकाम् ।। ५८ ।।
जगाम स्वर्गं राजाऽसौ देहं त्यक्त्वा स्वतेजसा ।।
राज्यं प्राप महातेजाः शंतनुः सार्वभौमिकम् ।। ५९ ।।
प्रजां वै पालयामास धर्मदंडो महीपतिः ।। 2.3.६० ।।

इति श्रीदेवीभागवते महापुराणे द्वितीयस्कंधे तृतीयोऽध्यायः ।।३।।