प्रमुखा विकल्पसूचिः उद्घाट्यताम्

भुवनेश्वरीवर्णनम्

जनमेजय उवाच -
भगवन् भवता प्रोक्तं यज्ञमम्बाभिधं महत् ।
सा का कथं समुत्पन्ना कुत्र कस्माच्च किंगुणा ॥ १ ॥
कीदृशश्च मखस्तस्याः स्वरूपं कीदृशं तथा ।
विधानं विधिवद्‌‌ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ २ ॥
ब्रह्माण्डस्य तथोत्पत्तिं वद विस्तरतस्तथा ।
यथोक्तं यादृशं ब्रह्मन्नखिलं वेत्सि भूसुर ॥ ३ ॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा मया श्रुताः ।
सृष्टिपालनसंहारकारकाः सगुणास्त्वमी ॥ ४ ॥
स्वतन्त्रास्ते महात्मानः पाराशर्य वदस्व मे ।
आहोस्वित्परतन्त्रास्ते श्रोतुमिच्छामि साम्प्रतम् ॥ ५ ॥
मृत्युधर्माश्च ते नो वा सच्चिदानन्दरूपिणः ।
अधिभूतादिभिर्युक्ता न वा दुःखैस्त्रिधात्मकैः ॥ ६ ॥
कालस्य वशगा नो वा ते सुरेंद्रा महाबलाः ।
कथं ते वै समुत्पन्ना कस्मादिति च संशयः ॥ ७ ॥
हर्षशोकयुतास्ते वै निद्रालस्यसमन्विताः ।
सप्तधातुमयास्तेषां देहाः किं वान्यथा मुने ॥ ८ ॥
कैर्द्रव्यैर्निर्मितास्ते वै कैर्गुणैरिन्द्रियैस्तथा ।
भोगश्च कीदृशस्तेषां प्रमाणमायुषस्तथा ॥ ९ ॥
निवासस्थानमप्येषां विभूतिं च वदस्व मे ।
श्रोतुमिच्छाम्यहं ब्रह्मन् विस्तरेण कथामिमाम् ॥ १० ॥

व्यास उवाच -
दुर्गमः प्रश्नभारोऽयं कृतो राजंस्त्वयाऽधुना ।
ब्रह्मादीनां समुत्पत्तिः कस्मादिति महामते ॥ ११ ॥
एतदेव मया पूर्वं पृष्टोऽसौ नारदो मुनिः ।
विस्मितः प्रत्युवाचेदमुत्थितः शृणु भूपते ॥ १२ ॥
कस्मिंश्च समये चाहं गङ्गातीरे स्थितं मुनिम् ।
अपश्यं नारदं शान्तं सर्वज्ञं वेदवित्तमम् ॥ १३ ॥
दृष्ट्वाहं मुदितो भूत्वा पादयोरपतं मुनेः ।
तेजाज्ञप्तः समीपेऽस्य संविष्टश्च वरासने ॥ १४ ॥
श्रुत्वा कुशलवार्तां वै तमपृच्छं विधेः सुतम् ।
निर्विष्टं जाह्नवीतीरे निर्जने सूक्ष्मवालुके ॥ १५ ॥
मुनेऽतिविततस्यास्य ब्रह्माण्डस्य महामते ।
कः कर्ता परमः प्रोक्तस्तन्मे ब्रूहि विधानतः ॥ १६ ॥
कस्मादेतत्समुत्पन्नं ब्रह्माण्डं मुनिसत्तम ।
अनित्यं वा तथा नित्यं तदाचक्ष्व द्विजोत्तम ॥ १७ ॥
एककर्तृकमेतद्वा बहुकर्तृकमन्यथा ।
अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे ॥ १८ ॥
इति सन्देहसन्दोहे मग्नं मां तारयाधुना ।
विकल्पकोटीः कृर्वाणं संसारेऽस्मिन् प्रविस्तरे ॥ १९ ॥
ब्रुवन्ति शंकरं केचिन्मत्वा कारणकारणम् ।
सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम् ॥ २० ॥
आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम् ।
संसारतारकं नित्यं सृष्टिस्थित्यन्तकारणम् ॥ २१ ॥
अन्ये विष्णुं स्तुवन्त्येनं सर्वेषां प्रभुमीश्वरम् ।
परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम् ॥ २२ ॥
भुक्तिदं मुक्तिदं शान्तं सर्वादिं सर्वतोमुखम् ।
व्यापकं विश्वशरणमनादिनिधनं हरिम् ॥ २३ ॥
धातारं च तथा चान्ये ब्रुवन्ति सृष्टिकारणम् ।
तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम् ॥ २४ ॥
चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम् ।
स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम् ॥ २५ ॥
दिनेशं प्रवदन्त्यन्ये सर्वेशं वेदवादिनः ।
स्तुवन्ति चैव गायन्ति सायं प्रातरतन्द्रिताः ॥ २६ ॥
यजन्ति च तथा यज्ञे वासवं च शतक्रतुम् ।
सहस्राक्षं देवदेवं सर्वेषां प्रभुमुल्बणम् ॥ २७ ॥
यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् ।
यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम् ॥ २८ ॥
वरुणं च तथा सोमं पावकं पवनं तथा ।
यमं कुबेरं धनदं गणाधीशं तथापरे ॥ २९ ॥
हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् ।
स्मरणात्सिद्धिदं कामं कामदं कामगं परम् ॥ ३० ॥
भवानीं केचनाचार्याः प्रवदन्त्यखिलार्थदाम् ।
आदिमायां महाशक्तिं प्रकृतिं पुरुषानुगाम् ॥ ३१ ॥
ब्रह्मैकतासमापन्नां सृष्टिस्थित्यन्तकारिणीम् ।
मातरं सर्वभूतानां देवतानां तथैव च ॥ ३२ ॥
अनादिनिधनां पूर्णां व्यापिकां सर्वजन्तुषु ।
ईश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम् ॥ ३३ ॥
वैष्णवीं शाङ्करीं ब्राह्मीं वासवीं वारुणीं तथा ।
वाराहीं नारसिंहीं च महालक्ष्मीं तथाद्‌भुताम् ॥ ३४ ॥
वेदमातरमेकां च विद्यां भवतरोः स्थिराम् ।
सर्वदुःखनिहन्त्रीं च स्मरणात्सर्वकामदाम् ॥ ३५ ॥
मोक्षदां च मुमुक्षूणां कामदां च फलार्थिनाम् ।
त्रिगुणातीतरूपां च गुणविस्तारकारकाम् ॥ ३६ ॥
निर्गुणां सगुणां तस्मात्तां ध्यायन्ति फलार्थिनः ।
निरंजनं निराकारं निर्लेपं निर्गुणं किल ॥ ३७ ॥
अरूपं व्यापकं ब्रह्म प्रवदन्ति मुनीश्वराः ।
वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित् ॥ ३८ ॥
सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा ।
सहस्रकरकर्णश्च सहस्रास्यः सहस्रपात् ॥ ३९ ॥
विष्णोः पादमथाकाशं परमं समुदाहृतम् ।
विराजं विरजं शान्तं प्रवदन्ति मनीषिणः ॥ ४० ॥
पुरुषोत्तमं तथा चान्ये प्रवदन्ति पुराविदः ।
नैकोऽपीति वदन्त्यन्ये प्रभुरीशः कदाचन ॥ ४१ ॥
अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन ।
न कदापीशजन्यं यज्जगदेतदचिन्तितम् ॥ ४२ ॥
सदैवेदमनीशं च स्वभावोत्थं सदेदृशम् ।
अकर्तासौ पुमान्प्रोक्तः प्रकृतिस्तु तथा च सा ॥ ४३ ॥
एवं वदन्ति साङ्ख्याश्च मुनयः कपिलादयः ।
एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे ॥ ४४ ॥
विकल्पोपहतं चेतः किं करोमि मुनीश्वर ।
धर्माधर्मविवक्षायां न मनो मे स्थिरं भवेत् ॥ ४५ ॥
को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते ।
देवाः सत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः ॥ ४६ ॥
पीड्यन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः ।
धर्मस्थिताः सदाचाराः पाण्डवा मम वंशजाः ॥ ४७ ॥
दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः ।
अतो मे हृदयं तात वेपतेऽतीव संशये ॥ ४८ ॥
कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने ।
त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने ॥ ४९ ॥
मज्जन्तं चोत्पतन्तं च मग्नं मोहजलाविले ॥ ५० ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे भुवनेश्वरीवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥