प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः ०४

< देवीभागवतपुराणम्‎ | स्कन्धः ०३

विष्णुना कृतं देवीस्तोत्रम्

ब्रह्मोवाच
इत्युक्त्वा भगवान्विष्णुः पुनराह जनार्दनः ।
वयं गच्छेम पार्श्वेऽस्याः प्रणमन्तः पुनः पुनः ॥ १ ॥
सेयं वरा महामाया दास्यत्येषा वरान् हि नः ।
स्तुवामः सन्निधिं प्राप्य निर्भयाश्चरणान्तिके ॥ २ ॥
यदि नो वारयिष्यन्ति द्वारस्थाः परिचारकाः ।
पठिष्यामश्च तत्रस्थाः स्तुतिं देव्याः समाहिताः ॥ ३ ॥
ब्रह्मोवाच
इत्युक्ते हरिणा वाक्ये सुप्रहृष्टौ सुसंस्थितौ ।
जातौ प्रमुदितौ कामं निकटे गमनाय च ॥ ४ ॥
ओमित्युक्त्वा हरिं सर्वे विमानात्त्वरितास्त्रयः ।
उत्तीर्य निर्गता द्वारि शङ्कमाना मनस्यलम् ॥ ५ ॥
द्वारस्थान् वीक्ष्य तान्सर्वान्देवी भगवती तदा ।
स्मितं कृत्वा चकाराशु तांस्त्रीन्स्त्रीरूपधारिणः ॥ ६ ॥
वयं युवतयो जाताः सुरूपाश्चारुभूषणाः ।
विस्मयै परमं प्राप्ता गतास्तत्सन्निधिं पुनः ॥ ७ ॥
सा दृष्ट्वा नः स्थितांस्तत्र स्त्रीरूपांश्चरणान्तिके ।
व्यलोकयत चार्वङ्गी प्रेमसम्पूर्णया दृशा ॥ ८ ॥
प्रणम्य तां महादेवीं पुरतः संस्थिता वयम् ।
परस्परं लोकयन्तः स्त्रीरूपाश्चारुभूषणाः ॥ ९ ॥
पादपीठं प्रेक्षमाणा नानामणिविभूषितम् ।
सूर्यकोटिप्रतीकाशं स्थितास्तत्र वयं त्रयः ॥ १० ॥
काश्चिद्‌रक्ताम्बरास्तत्र सहचर्यः सहस्रशः ।
काश्चिन्नीलाम्बरा नार्यस्तथा पीताम्बराः शुभाः ॥ ११ ॥
देव्यः सर्वाः शुभाकारा विचित्राम्बरभूषणाः ।
विरेजुः पार्श्वतस्तस्याः परिचर्यापराः किल ॥ १२ ॥
जगुश्च ननृतुश्चान्याः पर्युपासन्त ताः स्त्रियः ।
वीणामारुतवाद्यानि वादयन्तो मुदान्विताः ॥ १३ ॥
शृणु नारद वक्ष्यामि यद्‌दृष्टं तत्र चाद्‌भुतम् ।
नखदर्पणमध्ये वै देव्याश्चरणपङ्कजे ॥ १४ ॥
ब्रह्माण्डमखिलं सर्वं तत्र स्थावरजङ्गमम् ।
अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः ॥ १५ ॥
वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः ।
पर्वताः सागरा नद्यो गन्धर्वाप्सरसस्तथा ॥ १६ ॥
विश्वावसुश्चित्रकेतुः श्वेतश्चित्राङ्गदस्तथा ।
नारदस्तुम्बुरुश्चैव हाहाहूहूस्तथैव च ॥ १७ ॥
अश्विनौ वसवः साध्याः सिद्धाश्च पितरस्तथा ।
नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः ॥ १८ ॥
वैकुण्ठो ब्रह्मलोकश्च कैलासः पर्वतोत्तमः ।
सर्वं तदखिलं दृष्टं नखमध्यस्थितं च नः ॥ १९ ॥
मज्जन्मपङ्कजं तत्र स्थितोऽहं चतुराननः ।
शेषशायी जगन्नाथस्तथा च मधुकैटभौ ॥ २० ॥
ब्रह्मोवाच
एवं दृष्टं मया तत्र पादपद्मनखे स्थितम् ।
विस्मतोऽहं ततो वीक्ष्य किमेतदिति शङ्‌कितः ॥ २१ ॥
विष्णुश्च विस्मयाविष्टः शङ्करश्च तथा स्थितः ।
तां तदा मेनिरे देवीं वयं विश्वस्य मातरम् ॥ २२ ॥
ततो वर्षशतं पूर्णं व्यतिक्रान्तं प्रपश्यतः ।
सुधामये शिवे द्वीपे विहारं विविधं तदा ॥ २३ ॥
सख्य इव तदा तत्र मेनिरेऽस्मानवस्थितान् ।
देव्यः प्रमुदिताकारा नानाभरणमण्डिताः ॥ २४ ॥
वयमप्यतिरम्यत्वाद्‌बभूविम विमोहिताः ।
प्रहृष्टमनसः सर्वे पश्यन्भावान्मनोरमान् ॥ २५ ॥
एकदा तां महादेवीं देवीं श्रीभुवनेश्वरीम् ।
तुष्टाव भगवान्विष्णुर्युवतीभावसंस्थितः ॥ २६ ॥
श्रीभगवानुवाच
नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
कल्याणै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः ॥ २७ ॥
सच्चिदानन्दरूपिण्यै संसारारणये नमः ।
पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः ॥ २८ ॥
सर्वाधिष्टानरूपायै कूटस्थायै नमो नमः ।
अर्धमात्रार्थभूतायै हृल्लेखायै नमो नमः ॥ २९ ॥
ज्ञातं मयाऽखिलमिदं त्वयि सन्निविष्टं
     त्वत्तोऽस्य सम्भवलयावपि मातरद्य ।
शक्तिश्च तेऽस्य करणे विततप्रभावा
     ज्ञाताऽधुना सकललोकमयीति नूनम् ॥ ३० ॥
विस्तार्य सर्वमखिलं सदसद्विकारं
     सन्दर्शयस्यविकलं पुरुषाय काले ।
तत्त्वैश्च षोडशभिरेव च सप्तभिश्च
     भासीन्द्रजालमिव नः किल रञ्जनाय ॥ ३१ ॥
न त्वामृते किमपि वस्तुगतं विभाति
     व्याप्यैव सर्वमखिलं त्वमवस्थिताऽसि ।
शक्तिं विना व्यवहृतो पुरुषोऽप्यशक्तो
     वम्भण्यते जननि बुद्धिमता जनेन ॥ ३२ ॥
प्रीणासि विश्वमखिलं सततं प्रभावैः
     स्वैस्तेजसा च सकलं प्रकटीकरोषि ।
अत्स्येव देवि तरसा किल कल्पकाले
     को वेद देवि चरितं तव वै भवस्य ॥ ३३ ॥
त्राता वयं जननि ते मधुकैटभाभ्यां
     लोकाश्‍च ते सुवितताः खलु दर्शिता वै ।
नीताः सुखस्य भवने परमां च कोटिं
     यद्दर्शनं तव भवानि महाप्रभावम् ॥ ३४ ॥
नाहं भवो न च विरिंचि विवेद मातः
     कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यम् ।
कानीह सन्ति भुवनानि महाप्रभावे
     ह्यस्मिन्भवानि रचिते रचनाकलापे ॥ ३५ ॥
अस्माभिरत्र भुवने हरिरन्य एव
     दृष्टः शिवः कमलजः प्रथितप्रभावः ।
अन्येषु देवि भुवनेपु न सन्ति किं ते
     किं विद्म देवि विततं तव सुप्रभावम् ॥ ३६ ॥
याचेऽम्ब तेऽङ्‌घ्रिकमलं प्रणिपत्य कामं
     चित्ते सदा वसतु रूपमिदं तवैतत् ।
नामापि वक्त्रकुहरे सततं तवैव
     सन्दर्शनं तव पदाम्बुजयोः सदैव ॥ ३७ ॥
भृत्योऽयमस्ति सततं मयि भावनीयं
     त्वां स्वामिनीति मनसा ननु चिन्तयामि ।
एषाऽऽवयोरविरता किल देवि भूया-
     द्व्याप्तिः सदैव जननी सुतयोरिवार्थे ॥ ३८ ॥
त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं
     सर्वज्ञता परिसमाप्तिनितान्तभूमिः ।
किं पामरेण जगदम्ब निवेदनीयं
     यद्युक्तमाचर भवानि तवेङ्‌गितं स्यात् ॥ ३९ ॥
ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च
     संहारकारक इयं तु जने प्रसिद्धिः ।
किं सत्यमेतदपि देवि तवेच्छया वै
     कर्तुं क्षमा वयमजे तव शक्तियुक्ताः ॥ ४० ॥
धात्री धराधरसुते न जगद्‌बिभर्ति
     आधारशक्तिरखिलं तव वै बिभर्ति ।
सूर्योऽपि भाति वरदे प्रभया युतस्ते
     त्वं सर्वमेतदखिलं विरजा विभासि ॥ ४१ ॥
ब्रह्माऽहमीश्वरवरः किल ते प्रभावा-
     त्सर्वे वयं जनियुता न यदा तु नित्याः ।
केऽन्ये सुराः शतमखप्रमुखाश्च नित्या
     नित्या त्वमेव जननी प्रकृतिः पुराणा ॥ ४२ ॥
त्वं चेद्‌भवानि दयसे पुरुषं पुराणं
     जानेऽहमद्य तव संनिधिगः सदैव ।
नोचेदहं विभुरनादिरनीह ईशो
     विश्वात्मधीरिति तमःप्रकृतिः सदैव ॥ ४३ ॥
विद्या त्वमेव ननु बुद्धिमतां नराणां
     शक्तिस्त्वमेव किल शक्तिमतां सदैव ।
त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा
     मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ ४४ ॥
गायत्र्यसि प्रथमवेदकला त्वमेव
     स्वाहा स्वधा भगवती सगुणार्धमात्रा ।
आम्नाय एव विहितो निगमो भवत्यै
     सञ्जीवनाय सततं सुरपूर्वजानाम् ॥ ४५ ॥
मोक्षार्थमेव रचयस्यखिलं प्रपञ्चं
     तेषां गताः खलु यतो ननु जीवभावम् ।
अंशा अनादिनिधनस्य किलानघस्य
     पूर्णार्णवस्य वितता हि यथा तरङ्गाः ॥ ४६ ॥
जीवो यदा तु परिवेत्ति तवैव कृत्यं
     त्वं संहरस्यखिलमेतदिति प्रसिद्धम् ।
नाट्यं नटेन रचितं वितथेऽन्तरङ्गे
     कार्ये कृते विरमसे प्रथितप्रभावा ॥ ४७ ॥
त्राता त्वमेव मम मोहमयाद्‌भवाब्धे-
     स्त्वामम्बिके सततमेमि महार्तिदे च ।
रागादिभिर्विरचिते वितथे किलान्ते
     मामेव पाहि बहुदुःखकरे च काले ॥ ४८ ॥
नमो देवि महाविद्ये नमामि चरणौ तव ।
सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ॥ ४९ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विष्णुना कृतं देवीस्तोत्रं नाम चतुर्थोऽध्यायः ॥ ४ ॥