देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः २२
सुदर्शनशशिकलयोर्विवाहवर्णनम्
व्यास उवाच
श्रुत्वा सुतावाक्यमनिन्दितात्मा
नृपांश्च गत्वा नृपतिर्जगाद ।
व्रजन्तु कामं शिविराणि भूपाः
श्वो वा विवाहं किल संविधास्ये ॥ १ ॥
भक्ष्याणि पेयानि मयाऽर्पितानि
गृह्णन्तु सर्वे मयि सुप्रसन्नाः ।
श्वो भावि कार्यं किल मण्डपेऽत्र
समेत्य सर्वैरिह संविधेयम् ॥ २ ॥
नायाति पुत्री किल मण्डपेऽद्य
करोमि किं भूपतयोऽत्र कामम् ।
प्रातः समाश्वास्य सुतां नयिष्ये
गच्छन्तु तस्माच्छिविराणि भूपाः ॥ ३ ॥
न विग्रहो बुद्धिमतां निजाश्रिते
कृपा विधेया सततं ह्यपत्ये ।
विधाय तां प्रातारिहानयिष्ये
सुतां तु गच्छन्तु नृपा यथेष्टम् ॥ ४ ॥
इच्छापणं वा परिचिन्त्य चित्ते
प्रातः करिष्याम्यथ संविवाहम् ।
सर्वैः समेत्यात्र नृपैः समेतैः
स्वयंवरः सर्वमतेन कार्यः ॥ ५ ॥
श्रुत्वा नृपास्तेऽवितथं विदित्वा
वचो ययुः स्वानि निकेतनानि ।
विधाय पार्श्वे नगरस्य रक्षां
चक्रुः क्रिया मध्यदिनोदिताश्च ॥ ६ ॥
सुबाहुरप्यार्यजनैः समेत-
श्चकार कार्याणि विवाहकाले ।
पुत्रीं समाहूय गृहे सुगुप्ते
पुरोहितैर्वेदविदां वरिष्ठैः ॥ ७ ॥
स्नानादिकं कर्म वरस्य कृत्वा
विवाहभूषाकरणं तथैव ।
आनाय्य वेदीरचिते गृहे वै
तस्यार्हणां भूमिपतिश्चकार ॥ ८ ॥
सविष्टरं चाचमनीयमर्घ्यं
वस्त्रद्वयं गामथ कुण्डले द्वे ।
समर्प्य तस्मै विधिवन्नरेन्द्र
ऐच्छत्सुतादानमहीनसत्त्वः ॥ ९ ॥
सोऽप्यग्रहीत्सर्वमदीनचेताः
शशाम चिन्ताऽथ मनोरमायाः ।
कन्यां सुकेशीं निधिकन्यकासमां
मेने तदाऽऽत्मानमनुत्तमञ्च ॥ १० ॥
सुपूजितं भूषणवस्त्रदानै-
र्वरोत्तमं तं सचिवास्तदानीम् ।
निन्युश्च ते कौतुकमण्डपान्त-
र्मुदान्विता वीतभयाश्च सर्वे ॥ ११ ॥
समाप्तभूषां विधिवद्विधिज्ञाः
स्त्रियश्च तां राजसुतां सुयाने ।
आरोप्य निन्युर्वरसन्निधानण्
चतुष्कयुक्ते किल मण्डपे वै ॥ १२ ॥
अग्निं समाधाय पुरोहितः स
हुत्वा यथावच्च तदन्तराले ।
आह्वाययत्तौ कृतकौतुकौ तु
वधूवरौ प्रेमयुतौ निकामम् ॥ १३ ॥
लाजाविसर्गं विधिवद्विधाय
कृत्वा हुताशस्य प्रदक्षिणाञ्च ।
तौ चक्रतुस्तत्र यथोचित्तं तत्
सर्वं विधानं कुलगोत्रजातम् ॥ १४ ॥
शतद्वयं चाश्चयुजां रथानां
सुभूषितं चापि शरौघसंयुतम् ।
ददौ नृपेन्द्रस्तु सुदर्शनाय
सुपूजितं पारिबर्हं विवाहे ॥ १५ ॥
मदोत्कटान्हेमविभूषितांश्च
गजान्गिरेः शृङ्गसमानदेहान् ।
शतं सपादं नृपसूनवेऽसौ
ददावथ प्रेमयुतो नृपेन्द्रः ॥ १६ ॥
दासीशतं काञ्चनभूषितं च
करेणुकानां च शतं सुचारु ।
समर्पयामास वराय राजा
विवाहकाले मुदितोऽनुवेलम् ॥ १७ ॥
अदात्पुनर्दाससहस्रमेकं
सर्वायुधैः सम्भृतभूषितञ्च ।
रत्नानि वासांसि यथोचितानि
दिव्यानि चित्राणि तथाविकानि ॥ १८ ॥
ददौ पुनर्वासगृहाणि तस्मै
रम्याणि दीर्घाणि विचित्रितानि ।
सिन्धूद्भवानां तुरगोत्तमाना-
मदात्सहस्रद्वितयं सुरम्यम् ॥ १९ ॥
क्रमेलकानाञ्च शतत्रयं वै
प्रत्यादिशद्भारभृतां सुचारु ।
शतद्वयं वै शकटोत्तमानां
तस्मै ददौ धान्यरसैः प्रपूरितम् ॥ २० ॥
मनोरमां राजसुतां प्रणम्य
जगाद वाक्यं विहिताञ्जलिः पुरः ।
दासोऽस्मि ते राजसुते वरिष्ठे
तद्ब्रूहि यत्स्यात्तु मनोगतं ते ॥ २१ ॥
तं चारुवाक्यं निजगाद सापि
स्वस्त्यस्तु ते भूप कुलस्य वृद्धिः ।
सम्मानिताऽहं मम सूनवे त्वया
दत्ता यतो रत्नवरा स्वकन्या ॥ २२ ॥
न बन्दिपुत्री नृप मागधी वा
स्तौमीह किं त्वां स्वजनं महत्तरम् ।
सुमेरुतुल्यस्तु कृतः सुतोऽद्य मे
सम्बन्धिना भूपतिनोत्तमेन ॥ २३ ॥
अहोऽतिचित्रं नृपतेश्चरित्रं
परं पवित्रं तव किं वदामि ।
यद्भ्रष्टराज्याय सुताय मेऽद्य
दत्ता त्वया पूज्यसुता वरिष्ठा ॥ २४ ॥
वनाधिवासाय किलाधनाय
पित्रा विहीनाय विसैन्यकाय ।
सर्वानिमान्भूमिपतीन्विहाय
फलाशनायार्थविवर्जिताय ॥ २५ ॥
समानवित्तेऽथ कुले बले च
ददाति पुत्रीं नृपतिश्च भूयः ।
न कोऽपि मे भूपसुतेऽर्थहीने
गुणान्वितां रूपवतीञ्च दद्यात् ॥ २६ ॥
वैरं तु सर्वैः सह संविधाय
नृपैर्वरिष्ठैर्बलसंयुतैश्च ।
सुदर्शनायाथ सुताऽर्पिता मे
किं वर्णये धैर्यमिदं त्वदीयम् ॥ २७ ॥
निशम्य वाक्यानि नृपः प्रहृष्टः
कृताञ्जलिर्वाक्यमुवाच भूयः ।
गृहाण राज्यं मम सुप्रसिद्धं
भवामि सेनापतिरद्य चाहम् ॥ २८ ॥
नोचेत्तदर्धं प्रतिगृह्य चात्र
सुतान्वितो राज्यफलानि भुङ्क्ष्व ।
विहाय वाराणसिकानिवासं
वने पुरे वासमतो न मेऽस्ति ॥ २९ ॥
नृपास्तु सन्त्येव रुषान्विता वै
गत्वा करिष्ये प्रथमं तु सान्त्वनम् ।
ततः परं द्वावपरावुपायौ
नोचेत्ततो युद्धमहं करिष्ये ॥ ३० ॥
जयाजयो दैववशो तथापि
धर्मे जयो नैव कृतेऽप्यधर्मे ।
तेषां किलाधर्मवतां नृपाणां
कथं भविष्यत्यनुचिन्तितं वै ॥ ३१ ॥
आकर्ण्य तद्भाषितमर्थवच्च
जगाद वाक्यं हितकारकं तम् ।
मनोरमा मानमवाप्य तस्मात्
सर्वात्मना मोदयुता प्रसन्ना ॥ ३२ ॥
राजञ्छिवं तेऽस्तु कुरुष्व राज्यं
त्यक्त्वा भयं त्वं स्वसुतैः समेतः ।
सुतोऽपि मे नूनमवाप्य राज्यं
साकेतपुर्यां प्रचरिष्यतीह ॥ ३३ ॥
विसर्जयास्मान्निजसद्म गन्तुं
शिवं भवानी तव संविधास्यति ।
न काऽपि चिन्ता मम भूप वर्तते
सञ्चिन्तयन्त्या परमाम्बिकां वै ॥ ३४ ॥
दोषा गता विविधवाक्यपदै रसालै-
रन्योन्यभाषणपदैरमृतोपमैश्च ।
प्रातर्नृपाः समधिगम्य कृतं विवाहं
रोषान्विता नगरबाह्यगतास्तथोचुः ॥ ३५ ॥
अद्यैव तं नृपकलङ्कधरञ्च हत्वा
बालं तथैव किल तं न विवाहयोग्यम् ।
गृह्णीम तां शशिकलां नृपतेश्च लक्ष्मीं
लज्जामवाप्य निजसद्म कथं व्रजेम ॥ ३६ ॥
शृण्वन्तु तूर्यनिनदान्किल वाद्यमाना-
ञ्छङ्खस्वनानभिभवन्ति मृदङ्गशब्दाः ।
गीतध्वनिं च विविधं निगमस्वनञ्च
मन्यामहे नृपतिनाऽत्र कृतो विवाहः ॥ ३७ ॥
अस्मान्प्रतार्य वचनैर्विधिवच्चकार
वैवाहिकेन विधिना करपीडनं वै ।
कर्तव्यमद्य किमहो प्रविचिन्तयन्तु
भूपाः परस्परमतिं च समर्थयन्तु ॥ ३८ ॥
एवं वदत्सु नृपतिष्वथ कन्याकायाः
कृत्वा विवाहविधिमप्रतिमप्रभावः ।
भूपान्निमन्त्रयितुमाशु जगाम राजा
काशीपतिः स्वसुहृदैः प्रथितप्रभावैः ॥ ३९ ॥
आगच्छन्तं च तं दृष्ट्वा नृपाः काशीपतिं तदा ।
नोचुः किञ्चिदपि क्रोधान्मौनमाधाय संस्थिताः ॥ ४० ॥
स गत्वा प्रणिपत्याह कृताञ्जलिरभाषत ।
आगन्तव्यं नृपैः सर्वैर्भोजनार्थं गृहे मम ॥ ४१ ॥
कन्ययाऽसौ वृतो भूपः किं करोमि हिताहितम् ।
भवद्भिस्तु शुभः कार्यो महान्तो हि दयालवः ॥ ४२ ॥
तन्निशम्य वचस्तस्य नृपाः क्रोधपरिप्लुताः ।
प्रत्यूचुर्भुक्तमस्माभिः स्वगृहं नृपते व्रज ॥ ४३ ॥
कुरु कार्याण्यशेषाणि यथेष्टं सुकृतं कृतम् ।
नृपाः सर्वे प्रयान्त्वद्य स्वानि स्वानि गृहाणि वै ॥ ४४ ॥
सुबाहुरपि तच्छ्रुत्वा जगाम शङ्कितो गृहम् ।
किं करिष्यन्ति संविग्नाः क्रोधयुक्ता नृपोत्तमाः ॥ ४५ ॥
गते तस्मिन्महीपालाश्चक्रुश्च समयं पुनः ।
रुद्ध्वा मार्गं ग्रहीष्यामः कन्यां हत्वा सुदर्शनम् ॥ ४६ ॥
केचनोचुः किमस्माकं हन्त तेन नृपेण वै ।
दृष्ट्वा तु कौतुकं सर्वं गमिष्यामो यथागतम् ॥ ४७ ॥
इत्युक्त्वा ते नृपाः सर्वे मार्गमाक्रम्य संस्थिताः ।
चकारोत्तरकार्याणि सुबाहुः स्वगृहं गतः ॥ ४८ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुदर्शनशशिकलयोर्विवाहवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥