प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सुबाहुकृतदेवीस्तुतिवर्णनम्

व्यास उवाच
तस्मै गौरवभोज्यानि विधाय विधिवत्तदा ।
वासराणि च षड्राजा भोजयामास भक्तितः ॥ १ ॥
एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवः ।
पारिबर्हं प्रदत्वाऽथ मन्त्रयन्सचिवैः सह ॥ २ ॥
दूतैस्तु कथितं श्रुत्वा मार्गसंरोधनं कृतम् ।
बभूव विमना राजा सुबाहुरमितद्युतिः ॥ ३ ॥
सुदर्शनस्तदोवाच श्वशुरं संशितव्रतः ।
अस्मान्विसर्जयाशु त्वं गमिष्यामो ह्यशङ्‌किताः ॥ ४ ॥
भारद्वाजाश्रमं पुण्य़ं गत्वा तत्र समाहिताः ।
निवासाय विचारो वै कर्तव्यः सर्वथा नृप ॥ ५ ॥
नृपेभ्यश्च न कर्तव्यं भयं किञ्चित्त्वयाऽनघ ।
जगन्माता भवानी मे साहाय्यं वै करिष्यति ॥ ६ ॥
व्यास उवाच
तस्येति मतमाज्ञाय जामातुर्नुपसत्तमः ।
विससर्ज धनं दत्वा प्रतस्थे सोऽपि सत्वरः ॥ ७ ॥
बलेन महताऽऽविष्टो ययावनु नृपोत्तमः ।
सुदर्शनो वृतस्तत्र चचाल पथि निर्भयः ॥ ८ ॥
रथैः परिवृतः शूरः सदारो रथसंस्थितः ।
गच्छन्ददर्श सैन्यानि नृपाणां रघुनन्दनः ॥ ९ ॥
सुबाहुरपि तान्वीक्ष्य चिन्ताविष्टो बभूव ह ।
विधिवत्स शिवां चित्ते जगाम शरणं मुदा ॥ १० ॥
जजापैकाक्षरं मन्त्रं कामराजमनुत्तमम् ।
निर्भयो वीतशोकश्च पत्‍न्या सह नवोढया ॥ ११ ॥
ततः सर्वे महीपालाः कृत्वा कोलाहलं तदा ।
उत्थिताः सैन्यसंयुक्ता हन्तुकामास्तु कन्यकाम् ॥ १२ ॥
काशिराजस्तु तान्दृष्ट्वा हन्तुकामो बभूव ह ।
निवारितस्तदाऽत्यर्थं राघवेण जिगीषता ॥ १३ ॥
तत्रापि नेदुः शंखाश्च भेर्यश्चानकदुन्दुभिः ।
सुबाहोश्च नृपाणाञ्च परस्परजिघांसताम् ॥ १४ ॥
शत्रुजित्तु सुसंवृत्तः स्थितस्तत्र जिघांसया ।
युधाजित्तत्सहायार्थं सन्नद्धः प्रबभूव ह ॥ १५ ॥
केचिच्च प्रेक्षकास्तस्य सहानीकैः स्थितास्तदा ।
युधाजिदग्रतो गत्वा सुदर्शनमुपस्थितः ॥ १६ ॥
शत्रुजित्तेन सहितो हन्तुं भ्रातरमानुजः ।
परस्परं ते बाणौघैस्ततक्षुः क्रोधमूर्छिताः ॥ १७ ॥
सम्मर्दः सुमहांस्तत्र सम्प्रवृत्तः सुमार्गणैः ।
काशीपतिस्तदा तूर्णं सैन्येन बहुना वृतः ॥ १८ ॥
साहाय्यार्थं जगामाशु जामातरमनिन्दितम् ।
एवं प्रवृत्ते सङ्ग्रामे दारुणे लोमहर्षणे ॥ १९ ॥
प्रादुर्बभूव सहसा देवी सिंहोपरि स्थिता ।
नानायुधधरा रम्या वराभूषणभूषिता ॥ २० ॥
दिव्याम्बरपरीधाना मन्दारस्रक्सुसंयुता ।
तां दृष्ट्वा तेऽथ भूपाला विस्मयं परमं गताः ॥ २१ ॥
केयं सिंहसमारूढा कुतो वेति समुत्थिता ।
सुदर्शनस्तु तां वीक्ष्य सुबाहुमिति चाब्रवीत् ॥ २२ ॥
पश्य राजन्महादेवीमागतां दिव्यदर्शनाम् ।
अनुग्रहाय मे नूनं प्रादुर्भूता दयान्विता ॥ २३ ॥
निर्भयोऽहं महाराज जातोऽस्मि निर्भयादपि ।
सुदर्शनः सुबाहुश्च तामालोक्य वराननाम् ॥ २४ ॥
प्रणामं चक्रतुस्तस्या मुदितौ दर्शनेन च ।
ननाद च तदा सिंहो गजास्त्रस्ताश्चकम्पिरे ॥ २५ ॥
ववुर्वाता महाघोरा दिशश्चासन्सुदारुणाः ।
सुदर्शनस्तदा प्राह निजं सेनापतिं प्रति ॥ २६ ॥
मार्गे व्रज त्वं तरसा भूपाला यत्र संस्थिताः ।
किं करिष्यन्ति राजानः कुपिता दुष्टचेतसः ॥ २७ ॥
शरणार्थञ्च सम्प्राप्ता देवी भगवती हि नः ।
निरातङ्कैश्च गन्तव्यं मार्गेऽस्मिन्भूपसङ्कुले ॥ २८ ॥
स्मृता मया महादेवी रक्षणार्थमुपागता ।
तच्छ्रुत्वा वचनं सेनापतिस्तेन पथाऽव्रजत् ॥ २९ ॥
युधाजित्तु सुसङ्क्रुद्धस्तानुवाच महीपतीन् ।
किं स्थिता भयसन्त्रस्ता निघ्नन्तु कन्यकान्वितम् ॥ ३० ॥
अवमन्य च नः सर्वान्बलहीनो बलाधिकान् ।
कन्यां गृहीत्वा संयाति निर्भयस्तरसा शिशुः ॥ ३१ ॥
किं भीताः कामिनीं वीक्ष्य सिंहोपरि सुसंस्थिताम् ।
नोपेक्ष्यो हि महाभागा हन्तव्योऽत्र समाहितैः ॥ ३२ ॥
हत्वैनं सङ्ग्रहीष्यामः कन्यां चारुविभूषणाम् ।
नायं केसरिणादत्तां छेत्तुमर्हति जम्बुकः ॥ ३३ ॥
इत्युक्त्वा सैन्यसंयुक्तः शत्रुजित्सहितस्तदा ।
योद्धुकामः सुसम्प्राप्तो युधाजित्क्रोधसंवृतः ॥ ३४ ॥
मुमोच विशिखांस्तूर्णं समपुंखाञ्छिलाशितान् ।
धनुराकृष्य कर्णान्तं कर्मारपरिमार्जितान् ॥ ३५ ॥
हन्तुकामः सुदुर्मेधाः सुदर्शनमथोपरि ।
सुदर्शनस्तु तान्बाणैश्चिच्छेदापततः क्षणात् ॥ ३६ ॥
एवं युद्धे प्रवृत्तेऽथ चुकोप चण्डिका भृशम् ।
दुर्गादेवी मुमोचाथ बाणान् युधाजितं प्रति ॥ ३७ ॥
नानारूपा तदा जाता नानाशस्रधरा शिवा ।
सम्प्राप्ता तुमुलं तत्र चकार जगदम्बिका ॥ ३८ ॥
शत्रुजिन्निहतस्तत्र युधाजिदपि पार्थिवः ।
पतितौ तौ रथाभ्यां तु जयशब्दस्तदाऽभवत् ॥ ३९ ॥
विस्मयं परमं प्राप्ता भूपाः सर्वे विलोक्य ताम् ।
निधनं मातुलस्यापि भागिनेयस्य संयुगे ॥ ४० ॥
सुबाहुरपि तद्‌दृष्ट्वा निधनं संयुगे तयोः ।
तुष्टाव परमप्रीतो दुर्गां दुर्गार्तिनाशिनीम् ॥ ४१ ॥
सुबाहुरुवाच
नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः ।
दुर्गायै भगवत्यै ते कामदायै नमो नमः ॥ ४२ ॥
नमः शिवायै शान्त्यै ते विद्यायै मोक्षदे नमः ।
विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे ॥ ४३ ॥
नाहं गतिं तव धिया परिचिन्तयन् वै
     जानामि देवि सगुणः किल निर्गुणायाः ।
किं स्तौ‌मि विश्वजननीं प्रकटप्रभावां
     भक्तार्तिनाशनपरां परमाञ्च शक्तिम् ॥ ४४ ॥
वाग्देवता त्वमसि सर्वगतैव बुद्धि-
     र्विद्या मतिश्च गतिरप्यसि सर्वजन्तोः ।
त्वां स्तौ‌मि किं त्वमसि सर्वमनोनियन्त्री
     किं स्तूयते हि सततं खलु चात्मरूपम् ॥ ४५ ॥
ब्रह्मा हरश्च हरिरप्यनिशं स्तुवन्तो
     नान्तं गताः सुरवराः किल ते गुणानाम् ।
क्वाहं विभेदमतिरम्ब गुणैर्वृतो वै
     वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः ॥ ४६ ॥
सत्सङ्गतिः कथमहो न करोति कामं
     प्रासङ्‌गिकापि विहिता खलु चित्तशुद्धिः ।
जामातुरस्य विहितेन समागमेन
     प्राप्तं मयाऽद्‌भुतमिदं तव दर्शनं वै ॥ ४७ ॥
ब्रह्माऽपि वाञ्छति सदैव हरो हरिश्च
     सेन्द्राः सुराश्च मुनयो विदितार्थतत्त्वाः ।
यद्दर्शनं जननि तेऽद्य मया दुरापं
     प्राप्तं विना दमशमादिसमाधिभिश्च ॥ ४८ ॥
क्वाहं सुमन्दमतिराशु तवावलोकं
     क्वेदं भवानि भवभेषजमद्वितीयम् ।
ज्ञाताऽसि देवि सततं किल भावयुक्ता
     भक्तानुकम्पनपरामरवर्गपूज्या ॥ ४९ ॥
किं वर्णयामि तव देवि चरित्रमेतद्‌
     यद्‌रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम् ।
शत्रू हतौ सुबलिनौ तरसा त्वयाद्य
     भक्तानुकम्पि चरितं परमं पवित्रम् ॥ ५० ॥
नाश्चर्यमेतदिति देवि विचारितेऽर्थे
     त्वं पासि सर्वमखिलं स्थिरजङ्गमं वै ।
त्रातस्त्वया च विनिहत्य रिपुर्दयातः
     संरक्षितोऽयमधुना ध्रुवसन्धिसूनुः ॥ ५१ ॥
भक्तस्य सेवनपरस्य स्वयशोऽतिदीप्तं
     कर्तुं भवानि रचितं चरितं त्वयैतत् ।
नोचेत्कथं सुपरिगृह्य सुतां मदीयां
     युद्धे भवेत्कुशलवाननवद्यशीलः ॥ ५२ ॥
शक्ताऽसि जन्ममरणादिभयान्विहन्तुं
     किं चित्रमत्र किल भक्तजनस्य कामम् ।
त्वं गीयसे जननि भक्तजनैरपारा
     त्वं पापपुण्यरहिता सगुणाऽगुणा च ॥ ५३ ॥
त्वद्दर्शनादहमहो सुकृती कृतार्थो
     जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा ।
बीजं न ते न भजनं किल वेद्मि मात-
     र्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः ॥ ५४ ॥
व्यास उवाच
एवं स्तुता तदा देवी प्रसन्नवदना शिवा ।
उवाच च नृपं देवी वरं वरय सुव्रत ॥ ५५ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुबाहुकृतदेवीस्तुतिवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥