देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः २६

कुमारीपूजावर्णनम्

जनमेजय उवाच
नवरात्रे तु सम्प्राप्ते किं कर्तव्यं द्विजोत्तम ।
विधानं विधिवद्‌ब्रूहि शरत्काले विशेषतः ॥ १ ॥
किं फलं खलु कस्तत्र विधिः कार्यो महामते ।
एतद्विस्तरतो ब्रूहि कृपया द्विजसत्तम ॥ २ ॥

व्यास उवाच
शृणु राजन्प्रवक्ष्यामि नवरात्रव्रतं शुभम् ।
शरत्काले विशेषेण कर्तव्यं विधिपूर्वकम् ॥ ३ ॥
वसन्ते च प्रकर्तव्यं तथैव प्रेमपूर्वकम् ।
द्वावृतू यमदंष्ट्राख्यौ नूनं सर्वजनेषु वै ॥ ४ ॥
शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह ।
तस्माद्यत्‍नादिदं कार्यं सर्वत्र शुभमिच्छता ॥ ५ ॥
द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् ।
वसन्तशरदावेव सर्वनाशकरावुभौ ॥ ६ ॥
तस्मात्तत्र प्रकर्तव्यं चण्डिकापूजनं बुधैः ।
चैत्राश्विने शुभे मासे भक्तिपूर्वं नराधिप ॥ ७ ॥
अमावास्यां च सम्प्राप्य सम्भारं कल्पयेच्छुभम् ।
हविष्यं चाशनं कार्यमेकभुक्तं तु तद्दिने ॥ ८ ॥
मण्डपस्तु प्रकर्तव्यः समे देशे शुभे स्थले ।
हस्तषोडशमानेन स्तम्भध्वजसमन्वितः ॥ ९ ॥
गौरमृद्‌गोमयाभ्यां च लेपनं कारयेत्ततः ।
तन्मध्ये वेदिका शुभ्रा कर्तव्या च समा स्थिरा ॥ १० ॥
चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् ।
तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत् ॥ ११ ॥
रात्रौ द्विजानथामन्त्र्य देवीतत्त्वविशारदान् ।
आचारनिरतान्दान्तान्वेदवेदाङ्गपारगान् ॥ १२ ॥
प्रतिपद्दिवसे कार्यं प्रातःस्नानं विधानतः ।
नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथवा ॥ १३ ॥
प्रातर्नित्यं पुरः कृत्वा द्विजानां वरणं ततः ।
अर्घ्यपाद्यादिकं सर्वं कर्तव्यं मधुपूर्वकम् ॥ १४ ॥
वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः ।
वित्तशाठ्यं न कर्तव्यं विभवे सति कर्हिचित् ॥ १५ ॥
विप्रैः सन्तोषितैः कार्यं सम्पूर्णं सर्वथा भवेत् ।
नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः ॥ १६ ॥
वरयेद्‌ब्राह्मणं शान्तं पारायणकृते तदा ।
स्वस्तिवाचनकं कार्यं वेदमन्त्रविधानतः ॥ १७ ॥
वेद्यां सिंहासनं स्थाप्य क्षौ‍मवस्त्रसमन्वितम् ।
तत्र स्थाप्याऽम्बिका देवी चतुर्हस्तायुधान्विता ॥ १८ ॥
रत्‍नभूषणसंयुक्ता मुक्ताहारविराजिता ।
दिव्याम्बरधरा सौ‌म्या सर्वलक्षणसंयुता ॥ १९ ॥
शंखचक्रगदापद्मधरा सिंहे स्थिता शिवा ।
अष्टादशभुजा वाऽपि प्रतिष्ठाप्या सनातनी ॥ २० ॥
अर्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् ।
स्थापयेत्पीठपूजार्थं कलशं तत्र पार्श्वतः ॥ २१ ॥
पञ्चपल्लवसंयुक्तं वेदमन्त्रैः सुसंस्कृतम् ।
सुतीर्थजलसम्पूर्णं हेमरत्‍नैः समन्वितम् ॥ २२ ॥
पार्श्वे पूजार्थसम्भारान्परिकल्प्य समन्ततः ।
गीतवादित्रनिर्घोषान्कारयेन्मङ्गलाय वै ॥ २३ ॥
तिथौ हस्तान्वितायां च नन्दायां पूजनं वरम् ।
प्रथमे दिवसे राजन् विधिवत्कामदं नृणाम् ॥ २४ ॥
नियमं प्रथमं कृत्वा पश्चात्पूजां समाचरेत् ।
उपवासेन नक्तेन चैकभुक्तेन वा पुनः ॥ २५ ॥
करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम् ।
साहाय्यं कुरु मे देवि जगदम्ब ममाखिलम् ॥ २६ ॥
यथाशक्ति प्रकर्तव्यो नियमो व्रतहेतवे ।
पश्चात्पूजा प्रकर्तव्या विधिवन्मन्त्रपूर्वकम् ॥ २७ ॥
चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः ।
मन्दारकरजाशोकचम्पकैः करवीरकैः ॥ २८ ॥
मालतीब्रह्मकापुष्पैस्तथा बिल्वदलैः शुभैः ।
पूजयेज्जगतां धात्रीं धूपैर्दीपैर्विधानतः ॥ २९ ॥
फलैर्नानाविधैरर्घ्यं प्रदातव्यं च तत्र वै ।
नारिकेलैर्मातुलुङ्गैर्दाडिमीकदलीफलैः ॥ ३० ॥
नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः ।
अन्नदानं प्रकर्तव्यं भक्तिपूर्वं नराधिप ॥ ३१ ॥
मांसाशनं ये कुर्वन्ति तैः कार्यं पशुहिंसनम् ।
महिषाजवराहाणां बलिदानं विशिष्यते ॥ ३२ ॥
देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् ।
न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ ॥ ३३ ॥
अहिंसा याज्ञिकी प्रोक्ता सर्वशास्त्रविनिर्णये ।
देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा ॥ ३४ ॥
होमार्थं चैव कर्तव्यं कुण्डं चैव त्रिकोणकम् ।
स्थण्डिलं वा प्रकर्तव्यं त्रिकोणं मानतः शुभम् ॥ ३५ ॥
त्रिकालं पूजनं नित्यं नानाद्रव्यैर्मनोहरैः ।
गीतवादित्रनृत्यैश्च कर्तव्यश्च महोत्सवः ॥ ३६ ॥
नित्यं भूमौ च शयनं कुमारीणां च पूजनम् ।
वस्त्रालङ्करणैर्दिव्यैर्भोजनैश्च सुधामयैः ॥ ३७ ॥
एकैकां पूजयेन्नित्यमेकवृद्ध्या तथा पुनः ।
द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं च वा ॥ ३८ ॥
विभवस्यानुसारेण कर्तव्यं पूजनं किल ।
वित्तशाठ्यं न कर्तव्यं राजञ्छक्तिमखे सदा ॥ ३९ ॥
एकवर्षा न कर्तव्या कन्या पूजाविधौ नृप ।
परमज्ञा तु भोगानां गन्धादीनां च बालिका ॥ ४० ॥
कुमारिका तु सा प्रोक्ता द्विवर्षा या भवेदिह ।
त्रिमूर्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका ॥ ४१ ॥
रोहिणी पञ्चवर्षा च षड्‌वर्षा कालिका स्मृता ।
चण्डिका सप्तवर्षा स्यादष्टवर्षा च शाम्भवी ॥ ४२ ॥
नववर्षा भवेद्‌दुर्गा सुभद्रा दशवार्षिकी ।
अत ऊर्ध्वं न कर्तव्या सर्वकार्यविगर्हिता ॥ ४३ ॥
एभिश्च नामभिः पूजा कर्तव्या विधिसंयुता ।
तासां फलानि वक्ष्यामि नवानां पूजने सदा ॥ ४४ ॥
कुमारी पूजिता कुर्याद्‌दुःखदारिद्रयनाशनम् ।
शत्रुक्षयं धनायुष्यं बलवृद्धिं करोति वै ॥ ४५ ॥
त्रिमूर्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत् ।
धनधान्यागमश्चैव पुत्रपौत्रादिवृद्धयः ॥ ४६ ॥
विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः ।
सुखार्थी पूजयेन्नित्यं कल्याणीं सर्वकामदाम् ॥ ४७ ॥
कालिकां शत्रुनाशार्थं पूजयेद्‌भक्तिपूर्वकम् ।
ऐश्वर्यधनकामश्च चण्डिकां परिपूजयेत् ॥ ४८ ॥
पूजयेच्छाम्भवीं नित्यं नृपसंमोहनाय च ।
दुःखदारिद्र्यनाशाय सङ्ग्रामे विजयाय च ॥ ४९ ॥
क्रूरशत्रुविनाशार्थं तथोग्रकर्मसाधने ।
दुर्गाञ्च पूजयेद्‌भक्त्या परलोकसुखाय च ॥ ५० ॥
वाञ्छितार्थस्य सिद्ध्यर्थं सुभद्रां पूजयेत्सदा ।
रोहिणीं रोगनाशाय पूजयेद्विधिवन्नरः ॥ ५१ ॥
श्रीरस्त्विति च मन्त्रेण पूजयेद्‌भक्तितत्परः ।
श्रीयुक्तमन्त्रैरथवा बीजमन्त्रैरथापि वा ॥ ५२ ॥
कुमारस्य च तत्त्वानि या सृजत्यपि लीलया ।
कादीनपि च देवांस्तां कुमारीं पूजयाम्यहम् ॥ ५३ ॥
सत्त्वादिभिस्त्रिमूर्तिर्या तैर्हि नानास्वरूपिणी ।
त्रिकालव्यापिनी शक्तिस्त्रिमूर्तिं पूजयाम्यहम् ॥ ५४ ॥
कल्याणकारिणी नित्यं भक्तानां पूजिताऽनिशम् ।
पूजयामि च तां भक्त्या कल्याणीं सर्वकामदाम् ॥ ५५ ॥
रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै ।
या देवी सर्वभूतानां रोहिणीं पूजयाम्यहम् ॥ ५६ ॥
काली कालयते सर्वं ब्रह्माण्डं सचराचरम् ।
कल्पान्तसमये या तां कालिकां पूजयाम्यहम् ॥ ५७ ॥
तां चण्डपापहरणीं चण्डिकां पूजयाम्यहम् ॥ ५८ ॥
अकारणात्समुत्पत्तिर्यन्मयैः परिकीर्तिता ।
यस्यास्तां सुखदां देवीं शाम्भवीं पूजयाम्यहम् ॥ ५९ ॥
दुर्गात्त्रायति भक्तं या सदा दुर्गातिनाशिनी ।
दुर्ज्ञेया सर्वदेवानां तां दुर्गां पूजयाम्यहम् ॥ ६० ॥
सुभद्राणि च भक्तानां कुरुते पूजिता सदा ।
अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम् ॥ ६१ ॥
एभिर्मन्त्रैः पूजनीयाः कन्यकाः सर्वदा बुधैः ।
वस्त्रालङ्करणैर्माल्यैर्गन्धैरुच्चावचैरपि ॥ ६२ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कुमारीपूजावर्णनं नाम षड्‌विंशोऽध्यायः ॥ २६ ॥