देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः २७

देवीपूजामहत्त्ववर्णनम्

व्यास उवाच
हीनाङ्गीं वर्जयेत्कन्यां कुष्ठयुक्तां व्रणाङ्‌किताम् ।
गन्धस्फुरितहीनाङ्गीं विशालकुलसम्भवाम् ॥ १ ॥
जात्यन्धां केकरां काणां कुरूपां बहुरोमशाम् ।
सन्त्यजेद्‌रोगिणीं कन्यां रक्तपुष्पादिनाङ्‌किताम् ॥ २ ॥
क्षामां गर्भसमुद्‌भूतां गोलकां कन्यकोद्‌भवाम् ।
वर्जनीयाः सदा चैताः सर्वपूजादिकर्मसु ॥ ३ ॥
अरोगिणीं सुरूपाङ्गीं सुन्दरीं व्रणवर्जिताम् ।
एकवंशसमुद्‌भूतां कन्यां सम्यक्प्रपूजयेत् ॥ ४ ॥
ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजा ।
लाभार्थे वैश्यवंशोत्था मता वा शूद्रवंशजा ॥ ५ ॥
ब्राह्मणैर्ब्रह्मजाः पूज्या राजन्यैर्ब्रह्मवंशजाः ।
वैश्यैस्त्रिवर्गजाः पूज्याश्चतस्रः पादसम्भवैः ॥ ६ ॥
कारुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत् ।
नवरात्रविधानेन भक्तिपूर्वं सदैव हि ॥ ७ ॥
अशक्तो नियतं पूजां कर्तुञ्चेन्नवरात्रके ।
अष्टम्यां च विशेषेण कर्तव्यं पूजनं सदा ॥ ८ ॥
पुराऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।
प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह ॥ ९ ॥
अतोऽष्टम्यां विशेषेण कर्तव्यं पूजनं सदा ।
नानाविधोपहारैश्च गन्धमाल्यानुलेपनैः ॥ १० ॥
पायसैरामिषैर्होमैर्ब्राह्मणानां च भोजनैः ।
फलपुष्पोपहारैश्च तोषयेज्जगदम्बिकाम् ॥ ११ ॥
उपवासे ह्यशक्तानां नवरात्रव्रते पुनः ।
उपोषणत्रयं प्रोक्तं यथोक्तफलदं नृप ॥ १२ ॥
सप्तम्यां च तथाऽष्टम्यां नवम्यां भक्तिभावतः ।
त्रिरात्रकरणात्सर्वं फलं भवति पूजनात् ॥ १३ ॥
पूजाभिश्चैव होमैश्च कुमारिपूजनैस्तथा ।
सम्पूर्णं तद्‌व्रतं प्रोक्तं विप्राणां चैव भोजनैः ॥ १४ ॥
व्रतानि यानि चान्यानि दानानि विविधानि च ।
नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले ॥ १५ ॥
धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् ।
आयुरारोग्यदं चैव स्वर्गदं मोक्षदं तथा ॥ १६ ॥
विद्यार्थी वा धनार्थी वा पुत्रार्थी वा भवेन्नरः ।
तेनेदं विधिवत्कार्यं व्रतं सौभाग्यदं शिवम् ॥ १७ ॥
विद्यार्थी सर्वविद्यां वै प्राप्नोति व्रतसाधनात् ।
राजभ्रष्टो नृपो राज्यं समवाप्नोति सर्वदा ॥ १८ ॥
पूर्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् ।
ते व्याधिनो दरिद्राश्च भवन्ति पुत्रवर्जिताः ॥ १९ ॥
वन्ध्या च या भवेन्नारी विधवा धनवर्जिता ।
अनुमा तत्र कर्तव्या नेयं कृतवती व्रतम् ॥ २० ॥
नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले ।
स कथं विभवं प्राप्य मोदते च तथा दिवि ॥ २१ ॥
रक्तचन्दनसंमिश्रैः कोमलैर्बिल्वपत्रकैः ।
भवानी पूजिता येन स भवेन्नृपतिः क्षितौ ॥ २२ ॥
नाराधिता येन शिवा सनातनी
     दुःखार्तिहा सिद्धिकरी जगद्वरा ।
दुःखावृतः शत्रुयुतश्च भूतले
     नूनं दरिद्रो भवतीह मानवः ॥ २३ ॥
यां विष्णुरिन्द्रो हरपद्मजौ तथा
     वह्निः कुबेरो वरुणो दिवाकरः ।
ध्यायन्ति सर्वार्थसमाप्तिनन्दिता-
     स्तां किं मनुष्या न भजन्ति चण्डिकाम् ॥ २४ ॥
स्वाहा स्वधा नाम मनुप्रभावै-
     स्तृप्यन्ति देवाः पितरस्तथैव ।
यज्ञेषु सर्वेषु मुदा हरन्ति
     यन्नाम युग्मश्रुतिभिर्मुनीन्द्राः ॥ २५ ॥
यस्येच्छया सृजति विश्वमिदं प्रजेशो
     नानावतारकलनं कुरुते हरिश्च ।
नूनं करोति जगतः किल भस्म शम्भु-
     स्तां शर्मदां न भजते नु कथं मनुष्यः ॥ २६ ॥
नैकोऽस्ति सर्वभुवनेषु तया विहीनो
     देवो नरोऽथ विहगः किल पन्नगो वा ।
गन्धर्वराक्षसपिशाचनगेषु नूनं
     यः स्पन्दितुं भवति शक्तियुतो यथेच्छम् ॥ २७ ॥
तां न सेवेत कश्चण्डीं सर्वकामार्थदां शिवाम् ।
व्रतं तस्या न कः कुर्याद्वाञ्छन्नर्थचतुष्टयम् ॥ २८ ॥
महापातकसंयुक्तो नवरात्रव्रतं चरेत् ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ २९ ॥
पुरा कश्चिद्वणिग्दीनो धनहीनः सुदुःखितः ।
कुटुम्बी चाभवत्कश्चित् कोसले नृपसत्तम ॥ ३० ॥
अपत्यानि बहून्यस्याभवन्क्षुत्पीडितानि च ।
भक्ष्यं किञ्चित्तु सायाह्ने प्रापुस्तस्य च बालकाः ॥ ३१ ॥
भुङ्क्ते स्म कार्यकर्ताऽसौ परस्याथ बुभुक्षितः ।
कुटुम्बभरणं तत्र चकारातिनिराकुलः ॥ ३२ ॥
सदा धर्मरतः शान्तः सदाचारश्च सत्यवाक् ।
अक्रोधनश्च धृतिमान्निर्मदश्चानसूयकः ॥ ३३ ॥
सम्पूज्य देवता नित्यं पितॄनप्यतिथींस्तथा ।
भुञ्जाने पोष्यवर्गेऽथ कृतवान्भोजनं वणिक् ॥ ३४ ॥
एवं गच्छति काले वै सुशिलो नामतो गुणैः ।
दारिद्र्यार्तो द्विजं शान्तं पप्रच्छातिबुभुक्षितः ॥ ३५ ॥

सुशील उवाच
भो भूदेव कृपां कृत्वा वदस्वाद्य महामते ।
कथं दारिद्र्यनाशः स्यादिति मे निश्चयेन वै ॥ ३६ ॥
धनैषणा मे नैवास्ति धनी स्यामिति मानद ।
कुटुम्बभरणार्थं वै पृच्छामि त्वां द्विजोत्तम ॥ ३७ ॥
पुत्री सुतस्तु मे बालो भक्षार्थी रोदते भृशम् ।
तावन्मात्रं गृहे नान्नं मुष्टिमेकां ददाम्यहम् ॥ ३८ ॥
विसर्जितो यतो गेहाद्‌गतो बालो रुदन्मया ।
अतो मे दह्यतेऽत्यर्थं किं करोमि धनं विना ॥ ३९ ॥
विवाहोऽस्ति सुताया मे नास्ति वित्तं करोमि किम् ।
दशवर्षाधिकायास्तु दानकालोऽपि यात्यलम् ॥ ४० ॥
तेन शोचामि विप्रेन्द्र सर्वज्ञोऽसि दयानिधे ।
तपो दानं व्रतं किञ्चिद्‌ब्रूहि मन्त्रजपं तथा ॥ ४१ ॥
येनाहं पोष्यवर्गस्य करोमि द्विज पोषणम् ।
तावन्मे स्याद्धनप्राप्तिर्नाधिकं प्रार्थये किल ॥ ४२ ॥
त्वत्प्रसादात्कुटुम्बं मे सुखितं प्रभवेदिह ।
तत्कुरुष्व महाभाग ज्ञानेन परिचिन्त्य च ॥ ४३ ॥

व्यास उवाच
इति पृष्टस्तथा तेन ब्राह्मणः संशितव्रतः ।
उवाच परमप्रीतस्तं वैश्यं नृपसत्तम ॥ ४४ ॥
वैश्यवर्य कुरुष्वाद्य नवरात्रव्रतं शुभम् ।
पूजनं भगवत्याश्च हवनं भोजनं तथा ॥ ४५ ॥
वेदपारायणं शक्तिजपहोमादिकं तथा ।
कुरुष्वाद्य यथाशक्ति तव कार्यं भविष्यति ॥ ४६ ॥
एतस्मादपरं किञ्चिद्‌व्रतं नास्ति धरातले ।
नवरात्राभिधं वैश्य पावनं सुखदं तथा ॥ ४७ ॥
ज्ञानदं मोक्षदं चैव सुखसन्तानवर्धनम् ।
शत्रुनाशकरं कामं नवरात्रव्रतं सदा ॥ ४८ ॥
राज्यभ्रष्टेन रामेण सीताविरहितेन च ।
किष्किन्धायां व्रतं चैतत्कृतं दुःखातुरेण वै ॥ ४९ ॥
प्रतप्तेनापि रामेण सीताविरहवह्निना ।
विधिवत्पूजिता देवी नवरात्रव्रतेन वै ॥ ५० ॥
तेन प्राप्ताऽथ वैदेही कृत्वा सेतुं महार्णवे ।
हत्वा मन्दोदरीनाथं कुम्भकर्णं महाबलम् ॥ ५१ ॥
मेघनादं सुतं हत्वा कृत्वा भूपं बिभीषणम् ।
पश्चादयोध्यामागत्य प्राप्तं राज्यमकण्टकम् ॥ ५२ ॥
नवरात्रव्रतस्यास्य प्रभावेण विशांवर ।
सुखं भूमितले प्राप्तं रामेणामिततेजसा ॥ ५३ ॥
व्यास उवाच
इति विप्रवचः श्रुत्वा स वैश्यस्तं द्विजं गुरुम् ।
कृत्वा जग्राह सन्मन्त्रं मायाबीजाभिधं नृप ॥ ५४ ॥
जजाप परया भक्त्या नवरात्रमतन्द्रितः ।
नानाविधोपहारैश्च पूजयामास सादरम् ॥ ५५ ॥
नवसंवत्सरं चैव मायाबीजपरायणः ।
नवमे वत्सरान्ते तु महाष्टम्यां महेश्वरी ॥ ५६ ॥
अर्धरात्रे तु सञ्जाते प्रत्यक्षं दर्शनं ददौ ।
नानावरप्रदानैश्च कृतकृत्यञ्चकार तम् ॥ ५७ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीपूजामहत्त्ववर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥