प्रमुखा विकल्पसूचिः उद्घाट्यताम्

प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम्

व्यास उवाच
कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः ।
न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा ॥ १ ॥
ददर्श बाणानपरान्नानाजातीयकांस्तदा ।
गृध्रपक्षयुतांस्तीव्राच्छिलाधौतान्महोज्वलान् ॥ २ ॥
चिन्तयामास मनसा कस्येमे विशिखास्त्विह ।
ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने ॥ ३ ॥
एवं चिन्तयतानेन कृष्णाजिनधरौ मुनी ।
समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा ॥ ४ ॥
तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते ।
शार्ङ्गमाजगवञ्चैव तथाक्षय्यौ महेषुधी ॥ ५ ॥
ध्यानस्थौ तौ महाभागौ नरनारायणावृषी ।
दृष्ट्वा धर्मसुतौ तत्र दैत्यानामधिपस्तदा ॥ ६ ॥
क्रोधरक्तेक्षणस्तौ तु प्रोवाचासुरपालकः ।
किं भवद्‌भ्यां समारब्धो दम्भो धर्मविनाशनः ॥ ७ ॥
न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि ।
तपसश्चरणं तीव्रं तथा चापस्य धारणम् ॥ ८ ॥
विरोधोऽयं युगे चाद्ये कथं युक्तं कलिप्रियम् ।
ब्राह्मणस्य तपो युक्तं तत्र किं चापधारणम् ॥ ९ ॥
क्व जटाधारणं देहे क्वेषुधी च विडम्बनौ ।
धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः ॥ १० ॥
व्यास उवाच
इति तस्य वचः श्रुत्वा नरः प्रोवाच भारत ।
का ते चिन्तात्र दैत्येन्द्र वृथा तपसि चावयोः ॥ ११ ॥
सामर्थ्ये सति यत्कुर्यात्तत्संपद्येत तस्य हि ।
आवां कार्यद्वये मन्द समर्थौ लोकविश्रुतौ ॥ १२ ॥
युद्धे तपसि सामर्थ्यं त्वं पुनः किं करिष्यसि ।
गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे ॥ १३ ॥
ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः ।
विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः ॥ १४ ॥
प्रह्लाद उवाच
तापसौ मन्दबुद्धी स्थो मृषा वां गर्वमोहितौ ।
मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥ १५ ॥
न युक्तमेतत्तीर्थेऽस्मिन्नधर्माचरणं पुनः ।
का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन ॥ १६ ॥
व्यास उवाच
तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह ।
युद्धस्वाद्य मया सार्धं यदि ते मतिरीदृशी ॥ १७ ॥
अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम ।
( युद्धे श्रद्धा न ते पश्चाद्‌भविष्यति कदाचन ।) ॥
व्यास उवाच
तन्निशम्य वचस्तस्य दैत्येन्द्रः कुपितस्तदा ॥ १८ ॥
प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः ।
येन केनाप्युपायेन जेष्यामि तावुभावपि ॥ १९ ॥
नरनारायणौ दान्तावृषी तपिसमन्वितौ ।
व्यास उवाच
इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम् ॥ २० ॥
आकृष्य तरसा चापं ज्याशब्दञ्च चकार ह ।
नरोऽपि धनुरादाय शरांस्तीव्राञ्छिलाशितान् ॥ २१ ॥
मुमोच बहुशः कोधात्प्रह्लादोपरि पार्थिव ॥ २२ ॥
तान्दैत्यराजस्तपनीयपुङ्खै-
     श्चिच्छेद बाणैस्तरसा समेत्य ।
समीक्ष्य छिन्नांश्च नरः स्वसृष्टा-
     नन्यान्मुमोचाशु रुषान्वितो वै ॥ २३ ॥
दैत्याथिपस्तानपि तीव्रवेगै-
     श्छित्त्वा जघानोरसि तं मुनीन्द्रम् ।
नरोऽपि तं पञ्चभिराशुगैश्च
     कुद्धोऽहनद्दैत्यपतिं बाहुदेशे ॥ २४ ॥
सेन्द्राः सुरास्तत्र तयोर्हि युद्धं
     द्रष्टुं विमानैर्गगनस्थिताश्च ।
नरस्य वीर्यं युधि संस्थितस्य
     ते तुष्टुवुर्दैत्यपतेश्च भूयः ॥ २५ ॥
ववर्ष दैत्याधिप आत्तचापः
     शिलीमुखानम्बुधरो यथापः ।
आदाय शार्ङ्ग धनुरप्रमेयं
     मुमोच बाणाञ्छितहेमपुङ्खान् ॥ २६ ॥
बभूव युद्धं तुमुलं तयोस्तु
     जयैषिणोः पार्थिव देवदैत्ययोः ।
ववर्षुराकाशपथे स्थितास्ते
     पुष्पाणि दिव्यानि प्रहृष्टचित्ताः ॥ २७ ॥
चुकोप दैत्याधिपतिर्हरौ स
     मुमोच बाणानतितीव्रवेगान् ।
चिच्छेद तान्धर्मसुतः सुतीक्ष्णै-
     र्धनुर्विमुक्तैर्विशिखैस्तदाऽऽशु ॥ २८ ॥
ततो नारायणं बाणैः प्रह्लादश्चातिकर्षितैः ।
ववर्ष सुस्थितं वीरं धर्मपुत्रं सनातनम् ।
नारायणोऽपि तं वेगान्मुक्तैर्बाणैः शिलाशितैः ॥ २९ ॥
तुतोदातीव पुरतो दैत्यानामधिपं स्थितम् ।
सन्निपातोऽम्बरे तत्र दिदृक्षूणां बभूव ह ॥ ३० ॥
देवानां दानवानाञ्च कुर्वतां जयघोषणम् ।
उभयोः शरवर्षेण छादिते गगने तदा ॥ ३१ ॥
दिवापि रात्रिसदृशं बभूव तिमिरं महत् ।
ऊचुः परस्परं देवा दैत्याश्चातीव विस्मिताः ॥ ३२ ॥
अदृष्टपूर्वं युद्धं वै वर्ततेऽद्य सुदारुणम् ।
देवर्षयोऽथ गन्धर्वा यक्षकिन्नरपन्नगाः ॥ ३३ ॥
विद्याधराश्चारणाश्च विस्मयं परमं ययुः ।
नारदः पर्वतश्चैव प्रेक्षणार्थं स्थितौ मुनी ॥ ३४ ॥
नारदः पर्वतं प्राह नेदृशं चाभवत्पुरा ।
तारकासुरयुद्धञ्च तथा वृत्रासुरस्य च ॥ ३५ ॥
मधुकैटभयोर्युद्धं हरिणा चेदृशं कृतम् ।
प्रह्लादः प्रबलः शूरो यस्मान्नारायणेन च ॥ ३६ ॥
करोति सदृशं युद्धं सिद्धेनाद्‌भुतकर्मणा ।
व्यास उवाच
दिने दिने तथा रात्रौ कृत्वा कृत्वा पुनः पुनः ॥ ३७ ॥
चक्रतुः परमं युद्धं तौ तदा दैत्यतापसौ ।
नारायणस्तु चिच्छेद प्रह्लादस्य शरासनम् ॥ ३८ ॥
तरसैकेन बाणेन स चान्यद्धनुराददे ।
नारायणस्तु तरसा मुक्त्वान्यञ्च शिलीमुखम् ॥ ३९ ॥
तदैव मध्यतश्चापं चिच्छेद लघुहस्तकः ।
छिन्नं छिन्नं पुनर्दैत्यो धनुरन्यत्समाददे ॥ ४० ॥
नारायणस्तु चिच्छेद विशिखैराशु कोपितः ।
छिन्ने धनुषि दैत्येन्द्रः परिघं तु समाददे ॥ ४१ ॥
जघान धर्मजं तूर्णं बाह्वोर्मध्येऽतिकोपनः ।
तमायान्तं स बलवान्मार्गणैर्नवभिर्मुनिः ॥ ४२ ॥
चिच्छेद परिघं घोरं दशभिस्तमताडयत् ।
गदामादाय दैत्येन्द्रः सर्वायसमयीं दृढाम् ॥ ४३ ॥
जानुदेशे जघानाशु देवं नारायणं रुषा ।
गदया चापि गिरिवत्संस्थितः स्थिरमानसः ॥ ४४ ॥
धर्मपुत्रोऽतिबलवान्मुमोचाशु शिलीमुखान् ।
गदां चिच्छेद भगवांस्तदा दैत्यपतेर्दृढाम् ॥ ४५ ॥
विस्मयं परमं जग्मुः प्रेक्षका गगने स्थिताः ।
स तु शक्तिं समादाय प्रह्लादः परवीरहा ॥ ४६ ॥
चिक्षेप तरसा क्रुद्धो बलान्नारायणोरसि ।
तामापतन्तीं संवीक्ष्य बाणेनैकेन लीलया ॥ ४७ ॥
सप्तधा कृतवानाशु सप्तभिस्तं जघान ह ।
दिव्यवर्षशतं चैव तद्युद्धं परमं तयोः ॥ ४८ ॥
जातं विस्मयदं राजन् सर्वेषां तत्र चाश्रमे ।
तदाऽऽजगाम तरसा पीतवासाश्चतुर्भुजः ॥ ४९ ॥
प्रह्लादस्याश्रमं तत्र जगाम च गदाधरः ।
चतुर्भुजो रमाकान्तो रथाङ्गदरपद्मभृत् ॥ ५० ॥
दृष्ट्वा तमागतं तत्र हिरण्यकशिपोः सुतः ।
प्रणम्य परया भक्त्या प्राञ्जलिः प्रत्युवाच ह ॥ ५१ ॥

प्रह्लाद उवाच
देवदेव जगनाथ भक्तवत्सल माधव ।
कथं न जितवानाजावहमेतौ तपस्विनौ ।
संग्रामस्तु मया देव कृतः पूर्णं शतं समाः ॥ ५२ ॥
सुराणां न जितौ कस्मादिति मे विस्मयो महान् ।
विष्णुरुवाच
सिद्धाविमौ मदंशौ च विस्मयः कोऽत्र मारिष ॥ ५३ ॥
तापसौ न जितात्मानौ नरनारायणौ जितौ ।
गच्छ त्वं वितलं राजन् कुरु भक्तिं ममाचलाम् ॥ ५४ ॥
नाभ्यां कुरु विरोधं त्वं तापसाभ्यां महामते ।
व्यास उवाच
इत्याज्ञप्तो दैत्यराजो निर्ययावसुरैः सह ॥ ५५ ॥
नरनारायणौ भूयस्तपोयुक्तौ बभूवतुः ॥ ५६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥