प्रमुखा विकल्पसूचिः उद्घाट्यताम्

प्रह्लादेन शुक्रकोपसान्त्वनम्

व्यास उवाच ।।
इति संचिंत्य मनसा तानुवाच हसन्निव ।।
वंचिता मत्स्वरूपेण दैत्याः किं गुरुणा किल ।।१।।
अहं काव्यो गुरुश्चाऽयं देवकार्यप्रसादकः ।।
अनेन वंचिता यूयं मद्याज्या नात्र संशयः ।। २ ।।
मा श्रद्धध्वं वचोऽस्याऽऽर्या दाभिकोऽयं मदा कृतिः ।।
अनुगच्छत मां याज्यास्त्यजतैनं बृहस्पतिम् ।। ३ ।।
इत्याकर्ण्य वचस्तस्य दृष्ट्वा तौ सदृशौ पुनः ।।
विस्मयं परमं जग्मुः काव्योऽयमिति निश्चिताः ।। ४ ।।
स तान्वीक्ष्य सुसंभ्रातान्गुरुर्वाक्यमुवाच ह ।।
गुरुर्वो वंचयत्येव मद्रूपोऽयं बृहस्पतिः ।। ५ ।।
प्राप्तो वंचयितुं युष्मान्देवकार्यार्थसिद्धये ।।
मा विश्वासं वचस्यस्य कुरुध्वं दैत्यसत्तमाः ।। ६ ।।
प्राप्ता विद्या मया शंभोर्युष्मानध्याप यामि ताम् ।।
देवेभ्यो विजयं नूनं करिष्यामि न संशयः ।। ७ ।।
इति श्रुत्वा गुरोर्वाक्यं काव्यं रूपधरस्य ते ।।
निश्वासं परमं जग्मुः काव्योऽयमिति निश्चयात्।। ८ ।।
काव्येन बहुधा तत्र बोधिताः किल दानवाः ।।
बुबुधुर्न गुरोर्मायामोहिताः काल पर्ययात् ।। ९ ।।
एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् ।।
अयं गुरुर्नो धर्मात्मा बुद्धिदश्च हिते रतः ।। 4.14.१० ।।
दशवर्षाणि सततमयं नः शास्ति भार्गवः ।।
गच्छ त्वं कुहको भासि नाऽस्माकं गुरुरप्युत ।। ११ ।।
इत्युक्त्वा भार्गवं मूढा निर्भर्त्स्य च पुनः पुनः ।।
जगृहुस्तं गुरुं प्रीत्या प्रणिपत्या ऽभिवाद्य च ।।१२ ।।
काव्यस्तु तन्मयान्दृष्ट्वा चुकोपाऽथ शशाप च ।।
दैत्यान्विबोधि तान्मत्वा गुरुणा चातिवंचितान् ।। १३ ।।
यस्मान्मया बोधिता वै गृह्णीयुर्न च मे वचः।।
तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ ।। १४ ।।
मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ।।
तदाऽस्य कपटं सर्वं परिज्ञातं भविष्यति।।१५।।
व्यास उवाच ।।
इत्युक्त्वाऽसौ जगामाऽशु भार्गवः क्रोधसंयुतः ।।
बृहस्पतिर्मुदं प्राप्य तस्थौ तत्र समाहितः ।। १६ ।।
ततः शप्तान्गुरु र्ज्ञात्वा दैत्यांस्तान्भार्गवेण हि ।।
जगाम तरसा त्यक्त्वा स्वरूपं स्वं विधाय च ।। १७ ।।
गत्वोवाच तदा शक्रं कृतं कार्यं मया धुवम् ।।
शप्ताः शुक्रेण ते दैत्या मया त्यक्ताः पुनः पुनः ।।१८।।
निराधारा कृता नूनं यतध्वं सुरसत्तमाः ।।
संग्रामार्थं महाभाग शापदग्धा मया कृताः ।। १९ ।।
इति श्रुत्वा गुरोर्वाक्यं मघवा मुदमाप्तवान् ।।
जहृषुश्च सुराः सर्वे प्रतिपूज्य बृहस्पतिम् ।। 4.14.२० ।।
संग्रामाय मतिं चक्रुः संविचार्य मिथः पुनः ।।
निर्ययुर्मिलिता सर्वे दानवाऽभिमुखाः सुराः ।। २१ ।।
सुरान्समुद्यतान्ज्ञात्वा कृतोद्योगान्महाबलान् ।।
अंतर्हितं गुरुं चैव बभूवुश्चिंतयाऽन्विताः ।। २२ ।।
परस्परमथोचुस्ते मोहितास्तस्य मायया ।।
संप्रसाद्यो महात्मा च यातोऽसौ रुष्टमानसः ।।२३।।
वंचयित्वा गतः पापो गुरुः कपटपंडितः ।।
भ्रातृस्त्रीलंभनः प्रायो मलिनोंऽतर्बहिः शुचिः ।। २४ ।।
किं कुर्मः क्व च गच्छामः कथं काव्यं प्रकोपितम् ।।
कूर्वीमहि सहायार्थं प्रसन्नं हृष्टमानसम् ।। २५ ।।
इति संचिंत्य ते सर्वे मिलिता भयकंपिताः ।।
प्रह्लादं पुरतः कृत्वा जग्मुस्ते भार्गवं पुनः ।। २६ ।।
प्रणेमुश्चरणौ तस्य मुनेर्मौनभृतस्तदा ।।
भार्गवस्तानुवाचाथ रोषसंरक्तलोचनः ।। २७ ।।
मया प्रबोधिता यूयं मोहिता गुरुमायया ।।
न गृहीतं वचो योग्यं तदा याज्या हितं शुचि ।।२८।।
तदाऽवगणितश्चाहं भवद्भिस्तद्वशं गतैः ।।
प्राप्तं नूनं मदोन्मत्तैर्ममाऽवमानजं फलम् ।। २९ ।।
तत्र गच्छत सद्भ्रष्टा यत्रासौ कपटाकृतिः ।।
वंचकः सुरकार्यार्थी नाहं तद्वद्धि वंचकः ।। 4.14.३० ।।
व्यास उवाच ।।
एवं ब्रुवतं शुक्रं तु वाक्यं संदिग्धया गिरा ।।
प्रह्लादस्तं तदोवाच गृहीत्वा चरणौ ततः ।। ३१ ।।
प्रह्लाद उवाच ।।
भार्गवाऽद्य समायातान्याज्यानस्मांस्तथाऽऽतुरान् ।।
त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितांस्तनयान्हि नः ।। ३२ ।।
गते त्वयि तु मंत्रार्थं शैलूषेण दुरात्मना ।।
त्वद्वेषमधुराऽऽलापैर्वयं तेन प्रवंचिताः ।। ३३ ।।
अज्ञानकृतदोषेण नैव कुप्यति शांतिमान् ।।
सर्वज्ञस्त्वं विजानासि चित्तं नः प्रवणं त्वयि ।। ३४ ।।
ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते ।।
ब्रुवंति मुनयः सर्वे क्षणकोपाहि साधवः ।। ३५ ।।
जलं स्वभावत शीतं वह्न्यातप समाग मात् ।।
भवत्युष्णं वियोगाच्च शीतत्वमनुगच्छति ।। ३६ ।।
क्रोधश्चांडालरूपो वै त्यक्तव्यः सर्वथा बुधैः ।।
तस्माद्रोषं परित्यज्य प्रसादं कुरु सुव्रत ।। ३७ ।।
यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान् ।।
त्वया त्यक्ता महाभाग गमिष्यामो रसातलम् ।। ३८ ।।
व्यास उवाच ।।
प्रह्लादस्य वचः श्रुत्वा भार्गवो ज्ञानचक्षुषा ।।
विलोक्य सुमना भूत्वा तानुवाच हसन्निव ।। ३९ ।।
न भेतव्यं न गंतव्यं दानवा वा रसातलम् ।।
रक्षयिष्यामि वो याज्यान्मंत्रैरवितथैः किल ।। 4.14.४० ।।
हितं सत्यं ब्रवीम्यद्य शृणुध्वं तत्तु निश्चयम् ।।
वचनं मम धर्मज्ञाः श्रुतं यद्ब्रह्मणः पुरा ।। ४१ ।।
अवश्यंभाविनो भावाः प्रभवंति शुभाऽशुभाः ।।
देवं न चाऽन्यथा कर्तुं क्षमः कोऽपि धरातले ।। ४२ ।।
अद्य मंदबला यूयं कालयोगादसंशयम् ।।
देवैर्जिताः सकृच्चाऽपि पातालं प्रतिपत्स्यथ ।। ४३ ।।
प्राप्तः पर्यायकालो वै इति ब्रह्माऽभ्यभाषत ।।
भुक्तं राज्यं भवद्भिश्च पूर्णं सर्वं समृद्धिमत् ।। ४४ ।।
युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि ।।
दैवयोगाच्च युस्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ।। ४५ ।।
सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति ।।
पौत्रस्त्रैलोक्य विजयी राज्यं प्राप्स्यति ते बलिः ।। ४६ ।।
यदा वामनरूपेण हृतं देवेन विष्णुना ।।
तदैव च भवत्पौत्रः प्रोक्तो देवेन जिष्णुना ।।४७।।
हृतं येन बले राज्यं देववांछार्थ सिद्धये ।।
त्वमिंद्रो भविता चाग्रे स्थिते सावर्णिके मनौ ।।४८।।
भार्गव उवाच ।।
इत्युक्तो हरिणा पौत्रस्तव प्रह्लाद सांप्रतम् ।।
अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत् ।। ४९ ।।
एकदा वासवेनासौ बलिर्गर्दभरूपभाक् ।।
शून्ये गृहे स्थितः कामं भयभीतः शतक्रतो ।। 4.14.५० ।।
पृष्टश्च बहुधा तेन वासवेन बलिस्तदा ।।
किमर्थं गार्दभं रूपं कृतवान्दैत्यपुंगव ।। ५१ ।।
भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता ।।
न लज्जा खररूपेण तव राक्षससत्तम ।।
तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा ।। ५२ ।।
प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो ।।
यथा विष्णुर्महातेजा मत्स्यकच्छपतां गतः ।।५३।।
तथाऽहं खररूपेण संस्थितः कालयोगतः ।।
यथा त्वं कमले लीनः संस्थितो ब्रह्महत्यया ।। ५४ ।।
पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक् ।।
दैवाधीनस्य किं दुःखं किं सुखं पाकशासन ।। ५५ ।।
कालः करोति वै नूनं यदिच्छति यथा तथा ।।
भार्गव उवाच ।।
इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम् ।। ५६ ।।
प्रबोधं प्रापतुः कामं यथास्थानं च जग्मतुः ।।
इत्येतत्ते समाख्याता मया दैवबलिष्ठता ।।५७।।
दैवाधीनं जगत्सर्वं सदेवासुरमानुषम् ।।५८।।
इति श्रीदेवीभागवते महापुराणे चतुर्थस्कंधे चतुर्दशोऽध्यायः ।। १४ ।।