प्रमुखा विकल्पसूचिः उद्घाट्यताम्

देवीकथनेन दानवानां रसातलं प्रति गमनम्

व्यास उवाच
इति तस्य वचः श्रुत्वा भार्गवस्य महात्मनः ।
प्रह्लादस्तु सुसंहृष्टो बभूव नृपनन्दनः ॥ १ ॥
ज्ञात्वा दैवं बलिष्ठञ्च प्रह्लादस्तानुवाच ह ।
कृतेऽपि युद्धे न जयो भविष्यति कदाचन ॥ २ ॥
तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः ।
संग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे ॥ ३ ॥
निरुद्यमानां दैवं हि प्रधानमसुराधिप ।
केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम् ॥ ४ ॥
तस्माद्युद्धं करिष्यामो बलमास्थाय साम्प्रतम् ।
भवाग्रे दैत्यवर्य त्वं सर्वज्ञोऽसि महामते ॥ ५ ॥
इत्युक्तस्तैस्तदा राजन् प्रह्लादः प्रबलारिहा ।
सेनानीश्च तदा भूत्वा देवान्युद्धे समाह्वयत् ॥ ६ ॥
तेऽपि तत्रासुरान्दृष्ट्वा संग्रामे समुपस्थितान् ।
सर्वे सम्भृतसम्भारा देवास्तान्समयोधयन् ॥ ७ ॥
संग्रामस्तु तदा घोरः शक्रप्रह्लादयोरभूत् ।
पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः ॥ ८ ॥
वर्तमाने महायुद्धे शुक्रेण प्रतिपालिताः ।
जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप ॥ ९ ॥
तदैवेन्द्रो गुरोर्वाक्यात्सर्वदुःखविनाशिनीम् ।
सस्मार मनसा देवीं मुक्तिदां परमां शिवाम् ॥ १० ॥
इन्द्र उवाच
जय देवि महामाये शूलधारिणि चाम्बिके ।
शङ्खचक्रगदापद्मखड्गहस्तेऽभयप्रदे ॥ ११ ॥
नमस्ते भुवनेशानि शक्तिदर्शननायिके ।
दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि ॥ १२ ॥
महाकुण्डलिनीरूपे सच्चिदानन्दरूपिणि ।
प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके ॥ १३ ॥
पञ्चकोशान्तरगते पुच्छब्रह्मस्वरूपिणि ।
आनन्दकलिके मातः सर्वोपनिषदर्चिते ॥ १४ ॥
मातः प्रसीद सुमुखी भव हीनसत्त्वां-
     स्त्रायस्व नो जननि दैत्यपराजितान् वै ।
त्वं देवि नः शरणदा भुवने प्रमाणा
     शक्तासि दुःखशमनेऽखिलवीर्ययुक्ते ॥ १५ ॥
ध्यायन्ति येऽपि सुखिनो नितरां भवन्ति
     दुःखान्विताविगतशोकभयास्तथान्ये ।
मोक्षार्थिनो विगतमानविमुक्तसङ्गाः
     संसारवारिधिजलं प्रतरन्ति सन्तः ॥ १६ ॥
त्वं देवि विश्वजननि प्रथितप्रभावा
     संरक्षणार्थमुदितार्तिहरप्रतापा ।
संहर्तुमेतदखिलं किल कालरूपा
     को वेत्ति तेऽम्ब चरितं ननु मन्दबुद्धिः ॥ १७ ॥
ब्रह्मा हरश्च हरिदश्वरथो हरिश्च
     इन्द्रो यमोऽथ वरुणोऽग्निसमीरणौ च ।
ज्ञातुं क्षमा न मुनयोऽपि महानुभावा
     यस्याः प्रभावमतुलं निगमागमाश्च ॥ १८ ॥
धन्यास्त एव तव भक्तिपरा महान्तः
     संसारदुःखरहिताः सुखसिन्धुमग्नाः ।
ये भक्तिभावरहिता न कदापि दुःखा- ॥
     म्भोधिं जनिक्षयतरङ्गमुमे तरन्ति ॥ १९ ॥
ये वीज्यमानाः सितचामरैश्च
     क्रीडन्ति धन्याः शिबिकाधिरूढाः ।
तैः पूजिता त्वं किल पूर्वदेहे
     नानोपहारैरिति चिन्तयामि ॥ २० ॥
ये पूज्यमाना वरवारणस्था
     विलासिनीवृन्दविलासयुक्ताः ।
सामन्तकैश्चोपनतैर्व्रजन्ति
     मन्ये हि तैस्त्वं किल पूजितासि ॥ २१ ॥

व्यास उवाच
एवं स्तुता मघवता देवी विश्वेश्वरी तदा ।
प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा ॥ २२ ॥
शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना ।
रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा ॥ २३ ॥
तानुवाच सुरान्देवी प्रसन्नवदना गिरा ।
भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना ॥ २४ ॥
इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी ।
जगाम तरसा तत्र यत्र दैत्या मदान्विताः ॥ २५ ॥
प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् ।
ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा ॥ २६ ॥
देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल ।
महिषान्तकरी नूनं चण्डमुण्डविनाशिनी ॥ २७ ॥
निहनिष्यति नः सर्वानम्बिका नात्र संशयः ।
वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ ॥ २८ ॥
एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह ।
योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः ॥ २९ ॥
नमुचिस्तानुवाचाथ पलायनपरानिह ।
हनिष्यति जगन्माता रुषिता किल हेतिभिः ॥ ३० ॥
तथा कुरु महाभाग यथा दुःखं न जायते ।
व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया ॥ ३१ ॥
प्रह्लाद उवाच
स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् ।
सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम् ॥ ३२ ॥
व्यास उवाच
इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् ।
तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा ॥ ३३ ॥
मालासर्पवदाभाति यस्यां सर्वं चराचरम् ।
सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः ॥ ३४ ॥
त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा ।
अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः ॥ ३५ ॥
नमो देवि महामाये सर्वेषां जननी स्मृता ।
को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च ॥ ३६ ॥
मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च ।
तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना ॥ ३७ ॥
यादृशास्तादृशा मातः सुतास्ते दानवाः किल ।
यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता ॥ ३८ ॥
तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत ।
नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः ॥ ३९ ॥
धनदारादिभोगेषु वयं सक्ता दिवानिशम् ।
तथैव देवा देवेशि को भेदोऽसुरदेवयोः ॥ ४० ॥
तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल ।
कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना ॥ ४१ ॥
न तथा विहितं मातस्त्वयि सर्वसमुद्‌भवे ।
साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि ॥ ४२ ॥
गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः ।
गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः ॥ ४३ ॥
कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः ।
वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः ॥ ४४ ॥
त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् ।
मन्यामहे विभेदेन नूनं युद्धदिदृक्षया ॥ ४५ ॥
अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे ।
त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल ॥ ४६ ॥
जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् ।
तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा ॥ ४७ ॥
एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके ।
स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः ॥ ४८ ॥
देवासुरैरयं सिन्धुर्मथितः समये क्वचित् ।
विष्णुना विहितो भेदः सुधारत्‍नच्छलेन वै ॥ ४९ ॥
त्वयासौ कल्पितः शौरिः पालकत्वे जगद्‌गुरुः ।
तेन लक्ष्मीः स्वयं लोभाद्‌ गृहीतामरसुन्दरी ॥ ५० ॥
ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् ।
उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया ॥ ५१ ॥
अनयं तादृशं कृत्वा जाता देवास्तु साधवः ।
(अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणम् ।) ॥
संस्थापिताः सुरा नूनं विष्णुना बहुमानिना ॥ ५२ ॥
नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् ।
क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता ॥ ५३ ॥
कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् ।
तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः ॥ ५४ ॥
उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः ।
कर्ता भवति चेदस्मिन्संसारे वितते किल ॥ ५५ ॥
विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः ।
वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः ॥ ५६ ॥
नैकवाक्यं वचस्तेषामपि वेदविदां पुनः ।
यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम् ॥ ५७ ॥
निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति ।
शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि ॥ ५८ ॥
गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम् ।
गुरुणानुजभार्या च भुक्ता गर्भवती बलात् ॥ ५९ ॥
शप्तो गर्भगतो बालः कृतश्चान्धस्तथा पुनः ।
विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात् ॥ ६० ॥
अपराधं विना कामं तदा सत्त्ववताम्बिके ।
पौत्रो धर्मवतां शूरः सत्यव्रतपरायणः ॥ ६१ ॥
यज्वा दानपतिः शान्तः सर्वज्ञः सर्वपूजकः ।
कृत्वाथ वामनं रूपं हरिणा छलवेदिना ॥ ६२ ॥
वञ्चितोऽसौ बलिः सर्वं हृतं राज्यं पुरा किल ।
तथापि देवान्धर्मस्थान्प्रवदन्ति मनीषिणः ॥ ६३ ॥
वदन्ति चाटुवादांश्च धर्मवादाज्जयं गताः ।
एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु ॥ ६४ ॥
शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः ।
श्रीदेव्युवाच
सर्वे गच्छत पातालं तत्र वासं यथेप्सितम् ॥ ६५ ॥
कुरुध्वं दानवाः सर्वे निर्भया गतमन्यवः ।
कालः प्रतीक्ष्यो युष्माभिः कारणं स शुभेऽशुभे ॥ ६६ ॥
सुनिर्वेदपराणां हि सुखं सर्वत्र सर्वदा ।
त्रैलोक्यस्य च राज्येऽपि न सुखं लोभचेतसाम् ॥ ६७ ॥
कृतेऽपि न सुखं पूर्णं सस्पृहाणां फलैरपि ।
तस्मात्त्यक्त्वा महीमेतां प्रयान्त्वद्य महीतलम् ॥ ६८ ॥
ममाज्ञां पुरतः कृत्वा सर्वे विगतकल्मषाः ।
व्यास उवाच
तच्छ्रुत्वा वचनं देव्यास्तथेत्युक्त्वा रसातलम् ॥ ६९ ॥
प्रणम्य दानवाः सर्वे गताः शक्त्याभिरक्षिताः ।
अन्तर्दधे ततो देवी देवाः स्वभुवनं गताः ॥ ७० ॥
त्यक्त्वा वैरं स्थिताः सर्वे ते तदा देवदानवाः ।
एतदाख्यानमखिलं यः शृणोति वदत्यथ ॥ ७१ ॥
सर्वदुःखविनिर्मुक्तः प्रयाति पदमुत्तमम् ॥ ७२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवीकथनेन दानवानां रसातलं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥