प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्माणं प्रति विष्णुवाक्यम्

व्यास उवाच
शृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् ।
अवतारकारणं चैव देव्याश्चरितमद्‌भुतम् ॥ १ ॥
धरैकदा भराक्रान्ता रुदती चातिकर्शिता ।
गोरूपधारिणी दीना भीतागच्छत्त्रिविष्टपम् ॥ २ ॥
पृष्टा शक्रेण किं तेऽद्य वर्तते भयमित्यथ ।
केन वै पीडितासि त्वं किं ते दुःखं वसुन्धरे ॥ ३ ॥
तच्छ्रुत्वेला तदोवाच शृणु देवेश मेऽखिलम् ।
दुःखं पृच्छसि यत्त्वं मे भाराक्रान्तोऽस्मि मानद ॥ ४ ॥
जरासन्धो महापापी मागधेषु पतिर्मम ।
शिशुपालस्तथा चैद्यः काशिराजः प्रतापवान् ॥ ५ ॥
रुक्मी च बलवान्कंसो नरकश्च महाबलः ।
शाल्वः सौभपतिः क्रूरः केशी धेनुकवत्सकौ ॥ ६ ॥
सर्वे धर्मविहीनाश्च परस्परविरोधिनः ।
पापाचारा मदोन्मत्ताः कालरूपाश्च पार्थिवाः ॥ ७ ॥
तैरहं पीडिता शक्र भाराक्रान्ताक्षमा विभो ।
किं करोमि क्व गच्छामि चिन्ता मे महती स्थिता ॥ ८ ॥
पीडिताहं वराहेण विष्णुना प्रभविष्णुना ।
शक्र जानीहि हरिणा दुःखाद्दुःखतरं गता ॥ ९ ॥
यतोऽहं दुष्टदैत्येन कश्यपस्यात्मजेन वै ।
हृताहं हिरण्याक्षेण मग्ना तस्मिन्महार्णवे ॥ १० ॥
तदा सूकररूपेण विष्णुना निहतोऽप्यसौ ।
उद्धृताहं वराहेण स्थापिता हि स्थिरा कृता ॥ ११ ॥
नोचेद्‌रसातले स्वस्था स्थिता स्यां सुखशायिनी ।
न शक्तास्म्यद्य देवेश भारं वोढुं दुरात्मनाम् ॥ १२ ॥
अग्रे दुष्टः समायाति ह्यष्टाविंशस्तथा कलिः ।
तदाहं पीडिता शक्र गन्तास्म्याशु रसातलम् ॥ १३ ॥
तस्मात्त्वं देवदेवेश दुःखरूपार्णवस्य च ।
पारदो भव भारं मे हर पादौ नमामि ते ॥ १४ ॥
इंद्र उवाच
इले किं ते करोम्यद्य ब्रह्माणं शरणं व्रज ।
अहं तत्रागमिष्यामि स ते दुःखं हरिष्यति ॥ १५ ॥
तच्छ्रुत्वा त्वरिता पृथ्वी ब्रह्मलोकं गता तदा ।
शक्रोऽपि पृष्ठतः प्राप्तः सर्वदेवपुरःसरः ॥ १६ ॥
सुरभीमागतां तत्र दृष्ट्वोवाच प्रजापतिः ।
महीं ज्ञात्वा महाराज ध्यानेन समुपस्थिताम् ॥ १७ ॥
कस्माद्‌रुदसि कल्याणि किं ते दुःखं वदाधुना ।
पीडितासि च केन त्वं पापाचारेण भूर्वद ॥ १८ ॥
धरोवाच
कलिरायाति दुष्टोऽयं बिभेमि तद्‌भयादहम् ।
पापाचाराः प्रजास्तत्र भविष्यन्ति जगत्पते ॥ १९ ॥
राजानश्च दुराचाराः परस्परविरोधिनः ।
चौरकर्मरताः सर्वे राक्षसाः पूर्णवैरिणः ॥ २० ॥
तान्हत्वा नृपतीन्भारं हर मेऽद्य पितामह ।
पीडितास्मि महाराज सैन्यभारेण भूभृताम् ॥ २१ ॥
ब्रह्योवाच
नाहं शक्तस्तथा देवि भारावतरणे तव ।
गच्छावः सदनं विष्णोर्देवदेवस्य चक्रिणः ॥ २२ ॥
स ते भारापनोदं वै करिष्यति जनार्दनः ।
पूर्वं मयापि ते कार्यं चिन्तितं सुविचार्य च ॥ २३ ॥
तत्र गच्छ सुरश्रेष्ठ यत्र देवो जनार्दनः ।
व्यास उवाच
इत्युक्त्वा वेदकर्तासौ पुरस्कृत्य सुरांश्च गाम् ॥ २४ ॥
जगाम विष्णुसदनं हंसारूढश्चतुर्मुखः ।
तुष्टाव वेदवाक्यैश्च भक्तिप्रवणमानसः ॥ २५ ॥
ब्रह्मोवाच
सहस्रशीर्षास्त्वमसि सहस्राक्षः सहस्रपात् ।
त्वं वेदपुरुषः पूर्वं देवदेवः सनातनः ॥ २६ ॥
भूतपूर्वं भविष्यच्च वर्तमानं च यद्विभो ।
अमरत्वं त्वया दत्तमस्माकं च रमापते ॥ २७ ॥
एतावान्महिमा तेऽस्ति को न वेत्ति जगत्त्रये ।
त्वं कर्ताप्यविता हन्ता त्वं सर्वगतिरीश्वरः ॥ २८ ॥
व्यास उवाच
इतीडितः प्रभुर्विष्णुः प्रसन्नो गरुडध्वजः ।
दर्शनञ्च ददौ तेभ्यो ब्रह्मादिभ्योऽमलाशयः ॥ २९ ॥
पप्रच्छ स्वागतं देवान्प्रसन्नवदनो हरिः ।
ततस्त्वागमने तेषां कारणञ्च सविस्तरम् ॥ ३० ॥
तमुवाचाब्जजो नत्वा धरादुःखञ्च संस्मरन् ।
भारावतरणं विष्णो कर्तव्यं ते जनार्दन ॥ ३१ ॥
भुवि धृत्वावतारं त्वं द्वापरान्ते समागते ।
हत्वा दुष्टान्नृपानुर्व्या हर भारं दयानिधे ॥ ३२ ॥
विष्णुरुवाच
नाहं स्वतन्त्र एवात्र न ब्रह्मा न शिवस्तथा ।
नेन्द्रोऽग्निर्न यमस्त्वष्टा न सूर्यो वरुणस्तथा ॥ ३३ ॥
योगमायावशे सर्वमिदं स्थावरजङ्गमम् ।
ब्रह्मादिस्तम्बपर्यन्तं ग्रथितं गुणसूत्रतः ॥ ३४ ॥
यथा सा स्वेच्छया पूर्वं कर्तुमिच्छति सुव्रत ।
तथा करोति सुहिता वयं सर्वेऽपि तद्वशाः ॥ ३५ ॥
यद्यहं स्यां स्वतन्त्रो वै चिन्तयन्तु धिया किल ।
कुतोऽभवं मत्स्यवपुः कच्छपो वा महार्णवे ॥ ३६ ॥
तिर्यग्योनिषु को भोगः का कीर्तिः किं सुखं पुनः ।
किं पुण्यं किं फलं तत्र क्षुद्रयोनिगतस्य मे ॥ ३७ ॥
कोलो वाथ नृसिंहो वा वामनो वाभवं कुतः ।
जमदग्निसुतः कस्मात्सम्भवेयं पितामह ॥ ३८ ॥
नृशंसं वा कथं कर्म कृतवानस्मि भूतले ।
क्षतजैस्तु ह्रदान्सर्वान्पूरयेयं कथं पुनः ॥ ३९ ॥
तत्कथं जमदग्नेश्च पुत्रो भूत्वा द्विजोत्तमः ।
क्षत्रियान्हतवानाजौ निर्दयो गर्भगानपि ॥ ४० ॥
रामो भूत्वाथ देवेन्द्र प्राविशद्दण्डकं वनम् ।
पदातिश्चीरवासाश्च जटावल्कलवान्पुनः ॥ ४१ ॥
असहायो ह्यपाथेयो भीषणे निर्जने वने ।
कुर्वन्नाखेटकं तत्र व्यचरं विगतत्रपः ॥ ४२ ॥
न ज्ञातवान्मृगं हैमं मायया पिहितस्तदा ।
उटजे जानकीं त्यक्त्वा निर्गतस्तत्पदानुगः ॥ ४३ ॥
लक्ष्मणोऽपि च तां त्यक्त्वा निर्गतो मत्पदानुगः ।
वारितोऽपि मयात्यर्थं मोहितः प्राकृतैर्गुणैः ॥ ४४ ॥
भिक्षुरूपं ततः कृत्वा रावणः कपटाकृतिः ।
जहार तरसा रक्षो जानकीं शोककर्शिताम् ॥ ४५ ॥
दुःखार्तेन मया तत्र रुदितञ्च वने वने ।
सुग्रीवेण च मित्रत्वं कृतं कार्यवशान्मया ॥ ४६ ॥
अन्यायेन हतो वाली शापाच्चैव निवारितः ।
सहायान्वानरान् कृत्वा लङ्कायां चलितः पुनः ॥ ४७ ॥
बद्धोऽहं नागपाशैश्च लक्ष्मणश्च ममानुजः ।
विसंज्ञौ पतितौ दृष्ट्वा वानरा विस्मयं गताः ॥ ४८ ॥
गरुडेन तदाऽऽगत्य मोचितौ भ्रातरौ किल ।
चिन्ता मे महती जाता दैवं किं वा करिष्यति ॥ ४९ ॥
हृतं राज्यं वने वासो मृतस्तातः प्रिया हृता ।
युद्धं कष्टं ददात्येवमग्रे किं वा करिष्यति ॥ ५० ॥
प्रथमं तु महद्दुःखमराज्यस्य वनाश्रयम् ।
राजपुत्र्यान्वितस्यैव धनहीनस्य मे सुराः ॥ ५१ ॥
वराटिकापि पित्रा मे न दत्ता वननिर्गमे ।
पदातिरसहायोऽहं धनहीनश्च निर्गतः ॥ ५२ ॥
चतुर्दशैव वर्षाणि नीतानि च तदा मया ।
क्षात्रं धर्मं परित्यज्य व्याधवृत्त्या महावने ॥ ५३ ॥
दैवाद्युद्धे जयः प्राप्तो निहतोऽसौ महासुरः ।
आनीता च पुनः सीता प्राप्तायोध्या मया तथा ॥ ५४ ॥
वर्षाणि कतिचित्तत्र सुखं संसारसम्भवम् ।
प्राप्तं राज्यञ्च सम्पूर्णं कोसलानधितिष्ठता ॥ ५५ ॥
पुरैवं वर्तमानेन प्राप्तराज्येन वै तदा ।
लोकापवादभीतेन त्यक्ता सीता वने मया ॥ ५६ ॥
कान्ताविरहजं दुःखं पुनः प्राप्तं दुरासदम् ।
पातालं सा गता पश्चाद्धरां भित्त्वा धरात्मजा ॥ ५७ ॥
एवं रामावतारेऽपि दुःखं प्राप्तं निरन्तरम् ।
परतन्त्रेण मे नूनं स्वतन्त्रः को भवेत्तदा ॥ ५८ ॥
पश्चात्कालवशात्प्राप्तः स्वर्गो मे भ्रातृभिः सह ।
परतन्त्रस्य का वार्ता वक्तव्या विबुधेन वै ॥ ५९ ॥
परतन्त्रोऽत्म्यहं नूनं पद्मयोने निशामय ।
तथा त्वमपि रुद्रश्च सर्वे चान्ये सुरोत्तमाः ॥ ६० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां चतुर्थस्कन्धे ब्रह्माणं प्रति विष्णुवाक्यं नामाष्टादशोऽध्यायः ॥ १८ ॥