प्रमुखा विकल्पसूचिः उद्घाट्यताम्

देवदानवानामंशावतरणवर्णनम्

जनमेजय उवाच
किं कृतं पातकं तेन बालकेन पितामह ।
यज्जातमात्रो निहतस्तथा तेन दुरात्मना ॥ १ ॥
नारदोऽपि मुनिश्रेष्ठो ज्ञानवान्धर्मतत्परः ।
कथमेवंविधं पापं कृतवान्ब्रह्मवित्तमः ॥ २ ॥
कर्ता कारयिता पापे तुल्यपापौ स्मृतौ बुधैः ।
स कथं प्रेरयामास मुनिः कंसं खलं तदा ॥ ३ ॥
संशयोऽयं महान्मेऽत्र ब्रूहि सर्वं सविस्तरम् ।
येन कर्मविपाकेन बालको निधनं गतः ॥ ४ ॥
व्यास उवाच
नारदः कौतुकप्रेक्षी सर्वदा कलहप्रियः ।
देवकार्यार्थमागत्य सर्वमेतच्चकार ह ॥ ५ ॥
न मिथ्याभाषणे बुद्धिर्मुनेस्तस्य कदाचन ।
सत्यवक्ता सुराणां स कर्तव्ये निरतः शुचिः ॥ ६ ॥
एवं षड् बालकास्तेन जाता जाता निपातिताः ।
षड् गर्भाः शापयोगेन सम्भूय मरणं गताः ॥ ७ ॥
शृणु राजन्प्रवक्ष्यामि तेषां शापस्य कारणम् ।
स्वायम्भुवेऽन्तरे पुत्रा मरीचेः षण्महाबलाः ॥ ८ ॥
ऊर्णायां चैव भार्यायामासन्धर्मविचक्षणाः ।
ब्रह्माणं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥ ९ ॥
शशाप तांस्तदा ब्रह्मा दैत्ययोनिं विशन्त्वधः ।
कालनेमिसुता जातास्ते षड्गर्भा विशाम्पते ॥ १० ॥
अवतारे परे ते तु हिरण्यकशिपोः सुताः ।
जातास्ते ज्ञानसंयुक्ताः पूर्वशापभयान्नृप ॥ ११ ॥
तस्मिञ्जन्मनि शान्ताश्च तपश्चक्रुः समाहिताः ।
तेषां प्रीतोऽभवद्‌ ब्रह्मा षड्गर्भाणां वरान्ददौ ॥ १२ ॥
ब्रह्मोवाच
शप्ता यूयं मया पूर्वं क्रोधयुक्तेन पुत्रकाः ।
तुष्टोऽस्मि वो महाभागा ब्रुवन्तु वाञ्छितं वरम् ॥ १३ ॥
व्यास उवाच
ते तु श्रुत्वा वचस्तस्य ब्रह्मणः प्रीतमानसाः ।
ब्रह्माणमब्रुवन्कामं सर्वे कार्यार्थतत्पराः ॥ १४ ॥
गर्भा ऊचुः
पितामहाद्य तुष्टोऽसि देहि नो वाञ्छितं वरम् ।
अवध्या दैवतैः सर्वैर्मानवैश्च महोरगैः ॥ १५ ॥
गन्धर्वसिद्धपतिभिर्वधो माभूत्पितामह ।
व्यास उवाच
तानुवाच ततो ब्रह्मा सर्वमेतद्‌भविष्यति ॥ १६ ॥
गच्छन्तु वो महाभागाः सत्यमेव न संशयः ।
दत्त्वा वरं गतो ब्रह्मा मुदितास्ते तदाभवन् ॥ १७ ॥
हिरण्यकशिपुः क्रुद्धस्तानुवाच कुरूद्वह ।
यस्माद्विहाय मां पुत्रास्तोषितो वै पितामहः ॥ १८ ॥
वरेण प्रार्थितोऽत्यर्थं बलवन्तो यतोऽभवन् ।
युष्माभिर्हापितः स्नेहस्ततो युष्मांस्त्यजाम्यहम् ॥ १९ ॥
यूयं व्रजन्तु पाताले षड्गर्भा विश्रुता भुवि ।
पाताले निद्रयाविष्टास्तिष्ठन्तु बहुवत्सरान् ॥ २० ॥
ततस्तु देवकीगर्भे वर्षे वर्षे पुनः पुनः ।
पिता वः कालनेमिस्तु तत्र कंसो भविष्यति ॥ २१ ॥
स एव जातमात्रान्वो वधिष्यति सुदारुणः ।
व्यास उवाच
एवं शप्तांस्तदा तेन गर्भे जातान्पुनः पुनः ॥ २२ ॥
जघान देवकीपुत्रान्षड्गर्भाञ्छापनोदितः ।
शेषांशः सप्तमस्तत्र देवकीगर्भसंस्थितः ॥ २३ ॥
विस्रंसितश्च गर्भोऽसौ योगेन योगमायया ।
नीतश्च रोहिणीगर्भे कृत्वा संकर्षणं बलात् ॥ २४ ॥
पतितः पञ्चमे मासि लोकख्यातिं गतस्तदा ।
कंसोऽपि ज्ञातवांस्तत्र देवकीगर्भपातनम् ॥ २५ ॥
मुदं प्राप स दुष्टात्मा श्रुत्वा वार्तां सुखावहाम् ।
अष्टमे देवकीगर्भे भगवान्सात्वतां पतिः ॥ २६ ॥
उवास देवकार्यार्थं भारावतरणाय च ।
राजोवाच
वसुदेवः कश्यपांशः शेषांशश्च तदाभवत् ॥ २७ ॥
हरेरंशस्तथा प्रोक्तो भवता मुनिसत्तम ।
अन्ये च येंऽशा देवानां तत्र जातास्तु तान्वद ॥ २८ ॥
व्यास उवाच
सुराणामसुराणां च ये येंऽशा भुवि विश्रुताः ॥ २९ ॥
तानहं सम्प्रवक्ष्यामि संक्षेपेण शृणुष्व तान् ।
वसुदेवः कश्यपांशो देवकी च तथादितिः ॥ ३० ॥
बलदेवस्त्वनन्तांशो वर्तमानेषु तेषु च ।
योऽसौ धर्मसुतः श्रीमान्नारायण इति श्रुतः ॥ ३१ ॥
तस्यांशो वासुदेवस्तु विद्यमाने मुनौ तदा ।
नरस्तस्यानुजो यस्तु तस्यांशोऽर्जुन एव च ॥ ३२ ॥
युधिष्ठिरस्तु धर्मांशो वाय्वंशो भीम इत्युत ।
अश्विन्यंशौ ततः प्रोक्तौ माद्रीपुत्रौ महाबलौ ॥ ३३ ॥
सूर्यांशः कर्ण आख्यातो धर्माशो विदुरः स्मृतः ।
द्रोणो बृहस्पतेरंशस्तत्सतस्तु शिवांशजः ॥ ३४ ॥
समुद्रः शन्तनुः प्रोक्तो गङ्गा भार्या मता बुधैः ।
देवकस्तु समाख्यातो गन्धर्वपतिरागमे ॥ ३५ ॥
वसुर्भीष्मो विराटस्तु मरुद्‌गण इति स्मृतः ।
अरिष्टस्य सुतो हंसो धृतराष्ट्रः प्रकीर्तितः ॥ ३६ ॥
मरुद्‌गणः कृपः प्रोक्तः कृतवर्मा तथापरः ।
दुर्योधनः कलेरंशः शकुनिं विद्धि द्वापरम् ॥ ३७ ॥
सोमपुत्रः सुवर्चाख्यः सोमप्ररुरुदाहृतः ।
पावकांशो धृष्टद्युम्नः शिखण्डी राक्षसस्तथा ॥ ३८ ॥
सनत्कुमारस्यांशस्तु प्रद्युम्नः परिकीर्तितः ।
द्रुपदो वरुणस्यांशो द्रौपदी च रमांशजा ॥ ३९ ॥
द्रौपदीतनयाः पञ्च विश्वेदेवांशजाः स्मृताः ।
कुन्तिः सिद्धिर्धृतिर्माद्री मतिर्गान्धारराजजा ॥ ४० ॥
कृष्णपत्‍न्यस्तथा सर्वा देववाराङ्गनाः स्मृताः ।
राजानश्च तथा सर्वे असुराः शक्रनोदिताः ॥ ४१ ॥
हिरण्यकशिपोरंशः शिशुपाल उदाहृतः ।
विप्रचित्तिर्जरासन्धः शल्यः प्रह्लाद इत्यपि ॥ ४२ ॥
कालनेमिस्तथा कंसः केशी हयशिरास्तथा ।
अरिष्टो बलिपुत्रस्तु ककुद्मी गोकुले हतः ॥ ४३ ॥
अनुह्लादो धृष्टकेतुर्भगदत्तोऽथ बाष्कलः ।
लम्बः प्रलम्बः सञ्जातः खरोऽसौ धेनुकोऽभवत् ॥ ४४ ॥
वाराहश्च किशोरश्च दैत्यौ परमदारुणौ ।
मल्लौ तावेव सञ्जातौ ख्यातौ चाणूरमुष्टिकौ ॥ ४५ ॥
दितिपुत्रस्तथारिष्टो गजः कुवलयाभिधः ।
बलिपुत्री बकी ख्याता बकस्तदनुजः स्मृतः ॥ ४६ ॥
यमो रुद्रस्तथा कामः क्रोधश्चैव चतुर्थकः ।
तेषामंशैस्तु सञ्जातो द्रोणपुत्रो महाबलः ॥ ४७ ॥
अंशावतरणे पूर्वं दैतेया राक्षसास्तथा ।
जाताः सर्वे सुरांशास्ते क्षितिभारावतारणे ॥ ४८ ॥
एतेषां कथितं राजन्नंशावतरणं नृप ।
सुराणां चासुराणां च पुराणेषु प्रकीर्तितम् ॥ ४९ ॥
यदा ब्रह्मादयो देवाः प्रार्थनार्थं हरिं गताः ।
हरिणा च तदा दत्तौ केशौ खलु सितासितौ ॥ ५० ॥
श्यामवर्णस्ततः कृष्णः श्वेतः सङ्कर्षणस्तथा ।
भारावतारणार्थं तौ जातौ देवांशसम्भवौ ॥ ५१ ॥
अंशावतरणं चैतच्छृणोति भक्तिभावतः ।
सर्वपापविनिर्मुक्तो मोदते स्वजनैर्वृतः ॥ ५२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवदानवानामंशावतरणवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥