प्रमुखा विकल्पसूचिः उद्घाट्यताम्

योगमायाप्रभाववर्णनम्

ऋषय ऊचुः
भवता कथितं सूत महदाख्यानमुत्तमम् ।
कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम् ॥ १ ॥
सन्देहोऽत्र महाभाग वासुदेवकथानके ।
जायते नः प्रोच्यमाने विस्तरेण महामते ॥ २ ॥
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् ।
विष्णोरंशावतारेण शिवस्याराधनं कृतम् ॥ ३ ॥
वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः ।
जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया ॥ ४ ॥
ईश्वरेणापि कृष्णेन कुतस्तौ सम्प्रपूजितौ ।
न्यूनता वा किमस्त्वस्य तदेवं संशयो मम ॥ ५ ॥
सूत उवाच
शृणुध्वं कारणं तत्र मया व्यासश्रुतञ्च यत् ।
प्रब्रवीमि महाभागाः कथां कृष्णगुणान्विताम् ॥ ६ ॥
वृत्तान्तं व्यासतः श्रुत्वा वैराटीसुतजस्तदा ।
पुनः पप्रच्छ मेधावी सन्देहं परमं गतः ॥ ७ ॥
जनमेजय उवाच
सम्यक्सत्यवतीसूनो श्रुतं परमकारणम् ।
तथापि मनसो वृत्तिः संशयं न विमुञ्चति ॥ ८ ॥
कृष्णेनाराधितः शम्भुस्तपस्तप्त्वातिदारुणम् ।
विस्मयोऽयं महाभाग देवदेवेन विष्णुना ॥ ९ ॥
यः सर्वात्मापि सर्वेशः सर्वसिद्धिप्रदः प्रभुः ।
स कथं कृतवान्घोरं तपः प्राकृतवद्धरिः ॥ १० ॥
जगत्कर्तुं क्षमः कृष्णस्तथा पालयितुं क्षमः ।
संहर्तुमपि कस्मात्स दारुणं तप आचरत् ॥ ११ ॥
व्यास उवाच
सत्यमुक्तं त्वया राजन् वासुदेवो जनार्दनः ।
क्षमः सर्वेषु कार्येषु देवानां दैत्यसूदनः ॥ १२ ॥
तथापि मानुषं देहमाश्रितः परमेश्वरः ।
कृतवान्मानुषान्भावान्वर्णाश्रमसमाश्रितान् ॥ १३ ॥
वृद्धानां पूजनं चैव गुरुपादाभिवन्दनम् ।
ब्राह्मणानां तथा सेवा देवताराधनं तथा ॥ १४ ॥
शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः ।
दैन्यं नानापवादाश्च स्त्रीषु कामोपसेवनम् ॥ १५ ॥
कामः क्रोधस्तथा लोभः काले काले भवन्ति हि ।
तथा गुणमये देहे निर्गुणत्वं कथं भवेत् ॥ १६ ॥
सौबलीशापजाद्दोषात्तथा ब्राह्मणशापजात् ।
निधनं यादवानां तु कृष्णदेहस्य मोचनम् ॥ १७ ॥
हरणं लुण्ठनं तद्वत्तत्पत्‍नीनां नराधिप ।
अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च ॥ १८ ॥
अज्ञत्वं हरणे गेहात्तत्प्रद्युम्नानिरुद्धयोः ।
एवं मानुषदेहेऽस्मिन्मानुषं खलु चेष्टितम् ॥ १९ ॥
विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा ।
अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने ॥ २० ॥
स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् ।
सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः ॥ २१ ॥
तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते ।
अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम् ॥ २२ ॥
मकारो भगवान् रुद्रोऽप्यर्धमात्रा महेश्वरी ।
उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः ॥ २३ ॥
अतः सर्वेषु शास्त्रेषु देवी सर्वोत्तमा स्मृता ।
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ॥ २४ ॥
विष्णोरप्यथिको रुद्रो विष्णुस्तु ब्रह्मणोऽधिकः ।
तस्मान्न संशयः कार्यः कृष्णेन शिवपूजने ॥ २५ ॥
इच्छया ब्रह्मणो वक्त्राद्वरदानार्थमुद्‌बभौ ।
मूलरुद्रस्यांशभूतो रुद्रनामा द्वितीयकः ॥ २६ ॥
सोऽपि पूज्योऽस्ति सर्वेषां मूलरुद्रस्य का कथा ।
देवीतत्त्वस्य सान्निध्यादुत्तमत्वं स्मृतं शिवे ॥ २७ ॥
अवतारा हरेरेवं प्रभवन्ति युगे युगे ।
योगमायाप्रभावेण नात्र कार्या विचारणा ॥ २८ ॥
या नेत्रपक्ष्मपरिसञ्चलनेन सम्य-
     ग्‌विश्वं सृजत्यवति हन्ति निगूढभावा ।
सैषा करोति सततं द्रुहिणाच्युतेशान्
     नानावतारकलने परिभूयमानान् ॥ २९ ॥
सूतीगृहाद्‌व्रजनमप्यनया नियुक्तं
     संगोपितश्च भवने पशुपालराज्ञः ।
सम्प्रापितश्च मधुरां विनियोजितश्च
     श्रीद्वारकाप्रणयने ननु भीतचित्तः ॥ ३० ॥
निर्माय षोडशसहस्रशतार्धकास्ता
     नार्योऽष्टसम्मततराः स्वकलासमुत्थाः ।
तासां विलासवशगं तु विधाय कामं
     दासीकृतो हि भगवाननयाप्यनन्तः ॥ ३१ ॥
एकापि बन्धनविधौ युवती समर्था
     पुंसो यथा सुदृढलोहमयं तु दाम ।
किं नाम षोडशसहस्रशतार्धकाश्च
     तं स्वीकृतं शुकमिवातिनिबन्धयन्ति ॥ ३२ ॥
सात्राजितीवशगतेन मुदान्वितेन
     प्राप्तं सुरेन्द्रभवनं हरिणा तदानीम् ।
कृत्वा मृधं मघवता विहृतस्तरूणा-
     मीशः प्रियासदनभूषणतां य आप ॥ ३३ ॥
यो भीमजां हि हृतवाञ्छिशुपालकादी-
     ञ्जित्वा विधिं निखिलधर्मकृतो विधित्सुः ।
जग्राह तां निजबलेन च धर्मपत्‍नीं
     कोऽसौ विधिः परकलत्रहृतौ विजातः ॥ ३४ ॥
अहङ्कारवशः प्राणी करोति च शुभाशुभम् ।
विमूढो मोहजालेन तत्कृतेनातिपातिना ॥ ३५ ॥
अहङ्काराद्धि सञ्जातमिदं स्थावरजङ्गमम् ।
मूलाद्धरिहरादीनामुग्रात्प्रकृतिसम्भवात् ॥ ३६ ॥
अहङ्कारपरित्यक्तो यदा भवति पद्मजः ।
तदा विमुक्तो भवति नोचेत्संसारकर्मकृत् ॥ ३७ ॥
तन्मुक्तस्तु विमुक्तो हि बद्धस्तद्वशतां गतः ।
न नारी न धनं गेहं न पुत्रा न सहोदराः ॥ ३८ ॥
बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः ।
अहं कर्ता मया चेदं कृतं कार्यं बलीयसा ॥ ३९ ॥
करिष्यामि करोम्येवं स्वयं बध्नाति प्राणभृत् ।
कारणेन विना कार्यं न सम्भवति कर्हिचित् ॥ ४० ॥
यथा न दृश्यते जातो मृत्पिण्डेन विना घटः ।
विष्णुः पालयिता विश्वस्याहङ्कारसमन्वितः ॥ ४१ ॥
अन्यथा सर्वदा चिन्ताम्बुधौ मग्नः कथं भवेत् ।
अहङ्कारविमुक्तस्तु यदा भवति मानवः ॥ ४२ ॥
अवतारप्रवाहेषु कथं मज्जेच्छुभाशयः ।
मोहमूलमहङ्कारः संसारस्तत्समुद्‌भवः ॥ ४३ ॥
अहङ्कारविहीनानां न मोहो न च संसृतिः ।
त्रिविधः पुरुषः प्रोक्तः सात्त्विको राजसस्तथा ॥ ४४ ॥
तामसस्तु महाराज ब्रह्मविष्णुशिवादिषु ।
त्रिविधस्त्रिषु राजेन्द्र काजेशादिषु सर्वदा ॥ ४५ ॥
अहङ्कारः सदा प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः ।
अहङ्कारेण तेनैव बद्धा एते न संशयः ॥ ४६ ॥
मायाविमोहिता मन्दाः प्रवदन्ति मनीषिणः ।
करोति स्वेच्छया विष्णुरवताराननेकशः ॥ ४७ ॥
मन्दोऽपि दुःखगहने गर्भवासेऽतिसङ्कटे ।
न करोति मतिं विद्वान्कथं कुर्यात्स चक्रभृत् ॥ ४८ ॥
कौसल्यादेवकीगर्भे विष्ठामलसमाकुले ।
स्वेच्छया प्रवदन्त्यद्धा गतो हि मधुसूदनः ॥ ४९ ॥
वैकुण्ठसदनं त्यक्त्वा गर्भवासे सुखं नु किम् ।
चिन्ताकोटिसमुत्थाने दुःखदे विषसम्मिते ॥ ५० ॥
तपस्तप्त्वा क्रतून्कृत्वा दत्त्वा दानान्यनेकशः ।
न वाञ्छन्ति यतो लोका गर्भवासं सुदुःखदम् ॥ ५१ ॥
स कथं भगवान्विष्णुः स्ववशश्चेज्जनार्दनः ।
गर्भवासरुचिर्भूयाद्‌भवेत्स्ववशता यदि ॥ ५२ ॥
जानीहि त्वं महाराज योगमायावशे जगत् ।
ब्रह्मादिस्तम्बपर्यन्तं देवमानुषतिर्यगम् ॥ ५३ ॥
मायातन्त्रीनिबद्धा ये ब्रह्मविष्णुहरादयः ।
भ्रमन्ति बन्धमायान्ति लीलया चोर्णनाभवत् ॥ ५४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे योगमायाप्रभाववर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥