प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ०२

< देवीभागवतपुराणम्‎ | स्कन्धः ०५

महिषासुरोत्पत्तिः

राजोवाच
योगेश्वर्याः प्रभावोऽयं कथितश्चातिविस्तरात् ।
ब्रूहि तच्चरितं स्वामिञ्छ्रोतुं कौतूहलं मम ॥ १ ॥
महादेवीप्रभावं वै श्रोतुं को नाभिवाञ्छति ।
यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम् ॥ २ ॥
व्यास उवाच
शृणु राजन् प्रवक्ष्यामि विस्तरेण महामते ।
श्रद्दधानाय शान्ताय न ब्रूयात्स तु मन्दधीः ॥ ३ ॥
पुरा युद्धमभूद्‌ घोरं देवदानवसेनयोः ।
पृथिव्यां पृथिवीपाल महिषाख्ये महीपतौ ॥ ४ ॥
महिषो नाम राजेन्द्र चकार तप उत्तमम् ।
गत्वा हेमगिरौ चोग्रं देवविस्मयकारकम् ॥ ५ ॥
वर्षाणामयुतं पूर्णं चिन्तयन्हृदि देवताम् ।
तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः ॥ ६ ॥
तत्रागत्याब्रवीद्वाक्यं हंसारूढश्चतुर्मुखः ।
वरं वरय धर्मात्मन्ददामि तव वाच्छितम् ॥ ७ ॥
महिष उवाच
अमरत्वं देवदेव वाञ्छामि द्रुहिण प्रभो ।
यथा मृत्यु भयं न स्यात्तथा कुरु पितामह ॥ ८ ॥
ब्रह्मोवाच
उत्पन्नस्य ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।
सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल ॥ ९ ॥
नाशः कालेन सर्वेषां प्राणिनां दैत्यपुङ्गव ।
महामहीधराणां च समुद्राणां च सर्वथा ॥ १० ॥
एकं स्थानं परित्यज्य मरणस्य महीपते ।
प्रब्रूहि तं वरं साधो यस्ते मनसि वर्तते ॥ ११ ॥
महिष उवाच
न देवान्मानुषाद्दैत्यान्मरणं मे पितामह ।
पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति ॥ १२ ॥
तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज ।
अबला हन्त मां हन्तुं कथं शक्ता भविष्यति ॥ १३ ॥

ब्रह्मोवाच
यदा कदापि दैत्येन्द्र नार्यास्ते मरणं धुवम् ।
न नरेभ्यो महाभाग मृतिस्ते महिषासुर ॥ १४ ॥
व्यास उवाच
एवं दत्त्वा वरं तस्मै ययौ ब्रह्मा निजालयम् ।
सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्वितः ॥ १५ ॥
राजोवाच
महिषः कस्य पुत्रोऽसौ कथं जातो महाबली ।
कथं च माहिषं रूपं प्राप्तं तेन महात्मना ॥ १६ ॥
व्यास उवाच
दनोः पुत्रौ महाराज विख्यातौ क्षितिमण्डले ।
रम्भश्चैव करम्भश्च द्वावास्तां दानवोत्तमौ ॥ १७ ॥
तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः ।
बहून्वर्षगणान्कामं पुण्ये पञ्चनदे जले ॥ १८ ॥
करम्भस्तु जले मग्नश्चकार परमं तपः ।
वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत ॥ १९ ॥
पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् ।
ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥ २० ॥
गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह ।
वासवस्तु करम्भं तं तदा जग्राह पादयोः ॥ २१ ॥
निजघान च तं दुष्टं करम्भं वृत्रसूदनः ।
भ्रातरं निहतं श्रुत्वा रम्भः कोपं परं गतः ॥ २२ ॥
स्वशीर्षं पावके होतुमैच्छच्छित्त्वा करेण ह ।
केशपाशे गहीत्वाशु वामेन क्रोधसंयुतः ॥ २३ ॥
दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् ।
छिनत्ति शीर्षं तत्तावद्वह्निना प्रतिबोधितः ॥ २४ ॥
उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि ।
आत्महत्यातिदुःसाध्या कथं त्वं कर्तुमुद्यतः ॥ २५ ॥
वरं वरय भद्रं ते यस्ते मनसि वर्तते ।
मा म्रियस्व मृतेनाद्य किं ते कार्यं भविष्यति ॥ २६ ॥
व्यास उवाच
तच्छुत्वा वचनं रम्भः पावकस्य सुभाषितम् ।
ततोऽब्रवीद्वचो रम्भस्त्यक्त्वा केशकलापकम् ॥ २७ ॥
यदि तुष्टोऽसि देवेश देहि मे वाञ्छितं वरम् ।
त्रैलोक्यविजयी पुत्रः स्यान्नः परबलार्दनः ॥ २८ ॥
अजेयः सर्वथा स स्याद्देवदानवमानवैः ।
कामरूपी महावीर्यः सर्वलोकाभिवन्दितः ॥ २९ ॥
पावकस्तं तथेत्याह भविष्यति तवेप्सितम् ।
पुत्रस्तव महाभाग मरणाद्विरमाधुना ॥ ३० ॥
यस्यां चित्तं तु रम्भ त्वं प्रमदायां करिष्यसि ।
तस्यां पुत्रो महाभाग भविष्यति बलाधिकः ॥ ३१ ॥
व्यास उवाच
इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् ।
श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः ॥ ३२ ॥
यक्षैः परिवृतं स्थानं रमणीयं श्रियान्वितम् ।
दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः ॥ ३३ ॥
मत्तायां रूपपूर्णायां विहायान्याञ्च योषितम् ।
सा समागाच्च तरसा कामयन्ती मुदान्विता ॥ ३४ ॥
रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः ।
सा तु गर्भवती जाता महिषी तस्य वीर्यतः ॥ ३५ ॥
तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् ।
महिषेभ्यश्च तां रक्षन्प्रियामनुमतां किल ॥ ३६ ॥
कदाचिन्महिषश्चान्यः कामार्तस्तामुपाद्रवत् ।
स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत् ॥ ३७ ॥
स्वरक्षार्थं समागत्य महिषं समताडयत् ।
सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः ॥ ३८ ॥
ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् ।
भूमौ पपात तरसा ममार च विमूर्च्छितः ॥ ३९ ॥
मृते भर्तरि सा दीना भयार्ता विद्रुता भृशम् ।
सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता ॥ ४० ॥
पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः ।
कामयानस्तु तां कामी बलवीर्यमदोद्धतः ॥ ४१ ॥
रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा ।
धावमानं च तं वीक्ष्य यक्षास्त्रातुं समाययुः ॥ ४२ ॥
युद्धं समभवद्‌ घोरं यक्षाणां च हयारिणा ।
शरेण ताडितस्तूर्णं पपात धरणीतले ॥ ४३ ॥
मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् ।
चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥ ४४ ॥
महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा ।
प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥ ४५ ॥
वार्यमाणापि यक्षैः सा प्रविवेश हुताशनम् ।
ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥ ४६ ॥
महिषस्तु चितामध्यात्समुत्तस्थौ महाबलः ।
रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्रवत्सलः ॥ ४७ ॥
रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः ।
अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥ ४८ ॥
एवं स महिषो जातो रक्तबीजश्च वीर्यवान् ।
अवध्यस्तु सुरैर्दैत्यैर्मानवैश्च नृपोत्तम ॥ ४९ ॥
इत्येतत्कथितं राजन् जन्म तस्य महात्मनः ।
वरप्रदानञ्च तथा प्रोक्तं सर्वं सविस्तरम् ॥ ५० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरोत्पत्तिर्नाम द्वितीयोऽध्यायः ॥ २ ॥