प्रमुखा विकल्पसूचिः उद्घाट्यताम्

भगवतीमाहात्म्ये दैत्यसैन्योद्योगः

व्यास उवाच
एवं स महिषो नाम दानवो वरदर्पितः ।
प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः ॥ १ ॥
पृथिवीं पालयामास सागरान्तां भुजार्जिताम् ।
एकच्छत्रां निरातङ्कां वैरिवर्गविवर्जिताम् ॥ २ ॥
सेनानीश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः ।
धनाध्यक्षस्तथा ताम्रः सेनायुतसमावृतः ॥ ३ ॥
असिलोमा तथोदर्को बिडालाख्यश्च बाष्कलः ।
त्रिनेत्रोऽथ तथा कालबन्धको बलदर्पितः ॥ ४ ॥
एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा ।
आवृत्य संस्थिताः काममृद्धां सागरमेखलाम् ॥ ५ ॥
करदाश्च कृताः सर्वे भूमिपालाः पुरातनाः ।
निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः ॥ ६ ॥
ब्राह्मणा वशगा जाता यज्ञभागसमर्पकाः ।
महिषस्य महाराज निखिले क्षितिमण्डले ॥ ७ ॥
एकातपत्रं तद्‌राज्यं कृत्वा स महिषासुरः ।
स्वर्गं जेतुं मनश्चक्रे वरदानेन गर्वितः ॥ ८ ॥
प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् ।
स सन्देशहरं शीघ्रमाहूयोवाच दैत्यराट् ॥ ९ ॥
गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ ।
ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ ॥ १० ॥
मुञ्च स्वर्गं सहस्राक्ष यथेष्टं गच्छ मा चिरम् ।
सेवां वा कुरु देवेश महिषस्य महात्मनः ॥ ११ ॥
स त्वां संरक्षयेन्नूनं राजा शरणमागतम् ।
तस्मात्त्वं शरणं याहि महिषस्य शचीपते ॥ १२ ॥
नोचेद्वज्रं गहाणाशु युद्धाय बलसूदन ।
पूर्वैर्जितोऽसि चास्माकं जानामि तव पौरुषम् ॥ १३ ॥
अहल्याजार विज्ञातं बलं ते सुरसङ्घप ।
युध्यस्व व्रज वा कामं यत्र ते रमते मनः ॥ १४ ॥
व्यास उवाच
तच्छुत्वा वचनं तस्य शक्रः क्रोधसमन्वितः ।
उवाच तं नृपश्रेष्ठ स्मितपूर्वं वचस्तदा ॥ १५ ॥
न जानेऽहं सुमन्दात्मन् यतस्त्वं मददर्पितः ।
चिकित्सां संकरिष्यामि रोगस्यास्य प्रभोस्तव ॥ १६ ॥
अतः परं करिष्यामि मूलस्यास्य निमूलनम् ।
गच्छ दूत तथा ब्रूहि तस्याग्रे मम भाषितम् ॥ १७ ॥
शिष्टैर्दूता न हन्तव्यास्तस्मात्त्वां विसृजाम्यहम् ।
युद्धेच्छा चेत्समागच्छ त्वरितो महिषीसुत ॥ १८ ॥
हयारे त्वद्‌बलं ज्ञातं तृणादस्त्वं जडाकृतिः ।
शृङ्गयोस्ते करिष्यामि सुदृढं च शरासनम् ॥ १९ ॥
दर्पः शृङ्गबलात्तेऽस्ति विदितं कारणं मया ।
विषाणे ते परिच्छिद्य संहरिष्यामि तद्‌ बलम् ॥ २० ॥
यद्‌ बलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः ।
कुशलस्त्वं तदाघाते न युद्धे महिषाधम ॥ २१ ॥
व्यास उवाच
इत्युक्तोऽसौ सुरेन्द्रेण स दूतस्त्वरितो गतः ।
जगाम महिषं मत्तं प्रणम्य प्रत्युवाच ह ॥ २२ ॥
दूत उवाच
राजन्देवाधिपः कामं न त्वां विगणयत्यसौ ।
मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः ॥ २३ ॥
यदुक्तं तेन मूर्खेण कथमन्यद्‌ ब्रवीम्यहम् ।
प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभोः ॥ २४ ॥
प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना ।
इति नीतिर्महाराज जागर्ति शुभकारिणी ॥ २५ ॥
केवलं चेत्प्रियं ब्रूयान्न ते कार्यं भविष्यति ।
परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ॥ २६
यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः ।
तथा भृत्यमुखान्नाथ निःसरन्ति कथं गिरः ॥ २७ ॥
यादृशानीह वाक्यानि तेनोक्तानि महीपते ।
तादृशानि न मे जिह्वा वक्तुमर्हति कर्हिचित् ॥ २८ ॥
व्यास उवाच
तच्छ्रुत्वा वचनं तस्य हेतुगर्भं तृणाशनः ।
भृशं कोपपरीतात्मा बभूव महिषासुरः ॥ २९ ॥
समाहूयाब्रवीद्दैत्यान्क्रोधसंरक्तलोचनः ।
लाङ्गूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन् ॥ ३० ॥
भो भो दैत्याः सुरेन्द्रोऽसौ युद्धकामोऽस्ति सर्वथा ।
बलोद्योगं कुरुध्वं वै जेतव्योऽसौ सुराधमः ॥ ३१ ॥
मदग्रे को भवेच्छूरः कोटिशश्चेत्तथाविधाः ।
न बिभेम्येकतः कामं हनिष्याम्यद्य सर्वथा ॥ ३२ ॥
शरः शान्तेष्वसौ नूनं तपस्विषु बलाधिकः ।
बलकर्ता हि कुहको लम्पटः परदारहृत् ॥ ३३ ॥
अप्सरोबलसम्मत्तस्तपोविघ्नकरः खलः ।
छिद्रप्रहरणः पापो नित्यं विश्वासघातकः ॥ ३४ ॥
नमुचिर्निहतो येन कृत्वा सन्धिं दुरात्मना ।
शपथान्विविधानादौ कृत्वा भीतेन छद्मना ॥ ३५ ॥
विष्णुस्तु कपटाचार्यः कुहकः शपथाकरः ।
नानारूपधरः कामं बलकृद्दम्भपण्डितः ॥ ३६ ॥
कृत्वा कोलाकृतिं येन हिरण्याक्षो निपातितः ।
हिरण्यकशिपुर्येन नृसिंहेन च घातितः ॥ ३७ ॥
नाहं तद्वशगो नूनं भवेयं दनुनन्दनाः ।
विश्वासं नैव गच्छामि देवानां कुत्र कर्हिचित् ॥ ३८ ॥
किं करिष्यति मे विष्णुरिन्द्रो वा बलवत्तरः ।
रुद्रो वापि न मे शक्तः प्रतिकर्तुं रणाङ्गणे ॥ ३९ ॥
त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् ।
धनदं पावकं चैव चन्द्रसूर्यौ विजित्य च ॥ ४० ॥
यज्ञभागभुजः सर्वे भविष्यामोऽद्य सोमपाः ।
जित्वा देवसमूहञ्च विहरिष्यामि दानवैः ॥ ४१ ॥
न मे भयं सुरेभ्यश्च वरदानेन दानवाः ।
मरणं न नरेभ्यश्च नारी किं मे करिष्यति ॥ ४२ ॥
पातालपर्वतेभ्यश्च समाहूय वरान्वरान् ।
दानवान्मम सैन्येशान्कुर्वन्तु त्वरिताश्चराः ॥ ४३ ॥
एकोऽहं सर्वदेवेशान्विजेतुं दानवाः क्षमः ।
शोभार्थं वः समाहूय नयामि सुरसङ्गमे ॥ ४४ ॥
शृङ्गाभ्यां च खुराभ्यां च हनिष्येऽहं सुरान्किल ।
न मे भयं सुरेभ्यश्च वरदानप्रभावतः ॥ ४५ ॥
अवध्योऽहं सुरगणैरसुरैर्मानवैस्तथा ।
तस्मात्सज्जा भवन्त्वद्य देवलोकजयाय वै ॥ ४६ ॥
जित्वा सुरालयं दैत्या विहरिष्यामि नन्दने ।
मन्दारकुसुमापीडा देवयोषित्समन्विताः ॥ ४७ ॥
कामधेनुपयोत्सिक्ताः सुधापानप्रमोदिताः ।
देवगन्धर्वगीतादिनृत्यलास्यसमन्विताः ॥ ४८ ॥
उर्वशी मेनका रम्भा घृताची च तिलोत्तमा ।
प्रमद्वरा महासेना मिश्रकेशी मदोत्कटा ॥ ४९ ॥
विप्रचित्तिप्रभृतयो नृत्यगीतविशारदाः ।
रञ्जयिष्यन्ति वः सर्वान्नानासवनिषेवणैः ॥ ५० ॥
सर्वे सज्जा भवन्त्वद्य रोचतां गमनं दिवि ।
संग्रामार्थं सुरैः सार्धं कृत्वा मङ्गलमुत्तमम् ॥ ५१ ॥
रक्षणार्थं च सर्वेषां भार्गवं मुनिसत्तमम् ।
समाहूय च संपूज्य स्थाप्य यज्ञे गुरुं परम् ॥ ५२ ॥
व्यास उवाच
इति सन्दिश्य दैत्येन्द्रान्महिषः पापधीस्तदा ।
जगाम त्वरितो राजन्भवनं स्वं मुदान्वितः ॥ ५३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भगवतीमाहाम्ये दैत्यसैन्योद्योगो नाम तृतीयोऽध्यायः ॥ ३ ॥