प्रमुखा विकल्पसूचिः उद्घाट्यताम्

देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ०५

< देवीभागवतपुराणम्‎ | स्कन्धः ०५

दैत्यसैन्यपराजयः

व्यास उवाच
इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् ।
युद्धोद्योगं करिष्यामि हयारेर्नाशनाय वै ॥ १ ॥
नोद्यमेन विना राज्यं न सुखं न च वै यशः ।
निरुद्यमं न शंसन्ति कातरा न च सोद्यमाः ॥ २ ॥
यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् ।
उद्यमः शत्रुहननं भूषणं भूतिमिच्छताम् ॥ ३ ॥
उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च ।
तथैनं निहनिष्यामि महिषं मुनिसत्तम ॥ ४ ॥
बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् ।
सहायस्तु हरिर्नूनं तथोमापतिरव्ययः ॥ ५ ॥
रक्षोघ्नान्पठ मे साधो करोम्यद्य समुद्यमम् ।
स्वसैन्याभिनिवेशञ्च महिषं प्रति मानद ॥ ६ ॥
व्यास उवाच
इत्युक्तो देवराजेन वाचस्पतिरुवाच ह ।
सुरेन्द्रं युद्धसंरक्तं स्मितपूर्वं वचस्तदा ॥ ७ ॥
बृहस्पतिरुवाच
प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् ।
सन्दिग्धेऽत्र जये कामं युध्यतश्च पराजये ॥ ८ ॥
न तेऽत्र दूषणं किञ्चिद्‌भवितव्ये शचीपते ।
सुखं वा यदि वा दुःखं विहितं च भविष्यति ॥ ९ ॥
न मया तत्परिज्ञातं भावि दुःखं सुखं तथा ।
यद्‌भार्याहरणे प्राप्तं पुरा वासव वेत्सि हि ॥ १० ॥
शशिना मे हृता भार्या मित्रेणामित्रकर्शन ।
स्वाश्रमस्थेन सम्प्राप्तं दुःखं सर्वसुखापहम् ॥ ११ ॥
बुद्धिमान्सर्वलोकेषु विदितोऽहं सुराधिप ।
क्व मे गता तदा वुद्धिर्यदा भार्या हृता बलात् ॥ १२ ॥
तस्मादुपायः कर्तव्यो बुद्धिमद्‌भिः सदा नरैः ।
कार्यसिद्धिः सदा नूनं दैवाधीना सुराधिप ॥ १३ ॥
व्यास उवाच
तच्छ्रुत्वा वचनं सत्यं गुरोः सार्थं शचीपतिः ।
ब्रह्माणं शरणं गत्वा नत्वा वचनमब्रवीत् ॥ १४ ॥
पितामह सुराध्यक्ष दैत्यो महिषसंज्ञकः ।
ग्रहीतुकामः स्वर्गं मे बलोद्योगं करोत्यलम् ॥ १५ ॥
अन्ये च दानवाः सर्वे तत्सैन्यं समुपस्थिताः ।
योद्धुकामा महावीर्याः सर्वे युद्धविशारदाः ॥ १६ ॥
तेनाहं भीतभीतोऽस्मि त्वत्सकाशमिहागतः ।
सर्वज्ञोऽसि महाप्राज्ञ साहाय्यं कर्तुमर्हसि ॥ १७ ॥
ब्रह्मोवाच
गच्छामः सर्व एवाद्य कैलासं त्वरिता वयम् ।
शङ्करं पुरतः कृत्वा विष्णुं च बलिनां वरम् ॥ १८ ॥
ततो युद्धं प्रकर्तव्यं सर्वैः सुरगणैः सह ।
मिलित्वा मन्त्रमाधाय देशं कालं विचिन्त्य च ॥ १९ ॥
बलाबलमविज्ञाय विवेकमपहाय च ।
साहसं तु प्रकुर्वाणो नरः पतनमृच्छति ॥ २० ॥
व्यास उवाच
तन्निशम्य सहस्राक्षः कैलासं निर्जगाम ह ।
ब्रह्माणं पुरतः कृत्वा लोकपालसमन्वितः ॥ २१ ॥
तुष्टाव शङ्करं गत्वा वेदमन्त्रैर्महेश्वरम् ।
प्रसन्नं पुरतः कृत्वा ययौ विष्णुपुरं प्रति ॥ २२ ॥
स्तुत्वा तं देवदेवेशं कार्यं प्रोवाच चात्मनः ।
महिषात्तद्‌भयं चोग्रं वरदानमदोद्धतात् ॥ २३ ॥
तदाकर्ण्य भयं तस्य विष्णुर्देवानुवाच ह ।
करिष्यामो वयं युद्धं हनिष्यामस्तु दुर्जयम् ॥ २४ ॥
व्यास उवाच
इति ते निश्चयं कृत्वा ब्रह्मविष्णुहरीश्वराः ।
स्वानि स्वानि समारुह्य वाहनानि ययुः सुराः ॥ २५ ॥
ब्रह्मा हंससमारूढो विष्णर्गरुडवाहनः ।
शङ्करो वृषभारूढो वृत्रहा गजसंस्थितः ॥ २६ ॥
मयूरवाहनः स्कन्दो यमो महिषवाहनः ।
कृत्वा सैन्यसमायोगं यावत्ते निर्ययुः सुराः ॥ २७ ॥
तावद्दैत्यबलं प्राप्तं दृप्तं महिषपालितम् ।
तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥ २८ ॥
बाणैः खड्गैस्तथा प्रासैर्मुसलैश्च परश्वधैः ।
गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥ २९ ॥
मुद्‌गरैर्भिन्दिपालैश्च हलैश्चैवातिदारुणैः ।
अन्यैश्च विविधैरस्त्रैर्निजघ्नुस्ते परस्परम् ॥ ३० ॥
सेनानीश्चिक्षुरस्तस्य गजारूढो महाबलः ।
मघवन्तं पञ्चभिस्तैः सायकैः समताडयत् ॥ ३१ ॥
तुराषाडपि तांश्छित्त्वा बाणैर्बाणांस्त्वरान्वितः ।
हृदये चार्धचन्द्रेण ताडयामास तं कृती ॥ ३२ ॥
बाणाहतस्तु सेनानीः प्राप मूर्च्छां गजोपरि ।
करिणं वज्रघातेन स जघान करे ततः ॥ ३३ ॥
तद्वज्राभिहतो नागो भग्नः सैन्यं जगाम ह ।
दृष्ट्वा तं दैत्यराट् कुद्धो बिडालाख्यमथाब्रवीत् ॥ ३४ ॥
गच्छ वीर महाबाहो जहीन्द्रं मदगर्वितम् ।
वरुणादीन्परान्देवान्हत्वाऽऽगच्छ ममान्तिकम् ॥ ३५ ॥
व्यास उवाच
तच्छ्रुत्वा वचनं तस्य बिडालाख्यो महाबलः ।
आरुह्य वारणं मत्तं जगाम त्रिदशाधिपम् ॥ ३६ ॥
वासवस्तं समायान्तं दृष्ट्वा क्रोधसमन्वितः ।
जघान विशिखैस्तीक्षौराशीविषसमप्रभैः ॥ ३७ ॥
स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः ।
पञ्चाशद्‌भिर्जघानाशु वासवञ्च शिलीमुखैः ॥ ३८ ॥
तथेन्द्रोऽपि च तान्बाणांश्छित्त्वा कोपसमन्वितः ।
जघान विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ ३९ ॥
स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः ।
गदया ताडयामास गजं तस्य करोपरि ॥ ४० ॥
स्वकरे निहतो नागश्चकारार्तस्वरं मुहुः ।
परिवृत्य जघानाशु दैत्यसैन्यं भयातुरम् ॥ ४१ ॥
दानवस्तु गजं वीक्ष्य परावृत्य गतं रणात् ।
समाविश्य रथे रम्ये जगामाशु सुरान् रणे ॥ ४२ ॥
तुराषाडपि तं वीक्ष्य रथस्थं पुनरागतम् ।
अहनद्विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ ४३ ॥
सोऽपि क्रुद्धश्चकारोग्रां बाणवृष्टिं महाबलः ।
बभूव तुमुलं युद्धं तयोस्तत्र जयैषिणोः ॥ ४४ ॥
इन्द्रस्तु बलिनं दृष्ट्वा कोपेनाकुलितेन्द्रियः ।
जयन्तमग्रतः कृत्वा युयुधे तेन संयुतः ॥ ४५ ॥
जयन्तस्तु शितैर्बाणैस्तं जघान स्तनान्तरे ।
पञ्चभिः प्रबलाकृष्टैरसुरं मदगर्वितम् ॥ ४६ ॥
स बाणाभिहतस्तावन्निपपात रथोपरि ।
अतिवाह्य रथं सूतो निर्जगाम रणाजिरात् ॥ ४७ ॥
तस्मिन्विनिर्गते दैत्ये बिडालाख्येऽथ मूर्च्छिते ।
जयशब्दो महानासीदुन्दुभीनां च निःस्वनः ॥ ४८ ॥
सुराः प्रमुदिताः सर्वे तुष्टुवुस्तं शचीपतिम् ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४९ ॥
चुकोप महिषः श्रुत्वा जयशब्दं सुरैः कृतम् ।
प्रेषयामास तत्रैव ताम्रं परमदापहम् ॥ ५० ॥
ताम्रस्तु बहुभिः सार्धं समागम्य रणाजिरे ।
शरवृष्टिं चकाराशु तडित्वानिव सागरे ॥ ५१ ॥
वरुणः पाशमुद्यम्य जगाम त्वरितस्तदा ।
यमश्च महिषारूढो दण्डमादाय निर्ययौ ॥ ५२ ॥
तत्र युद्धमभूद्‌ घोरं देवदानवयोर्मिथः ।
बाणैः खड्गैश्च मुसलैः शक्तिभिश्च परश्वधैः ॥ ५३ ॥
दण्डेन निहतस्ताम्रो यमहस्तोद्यतेन च ।
न चचाल महाबाहुः संग्रामाङ्गणतस्तदा ॥ ५४ ॥
चापमाकृष्य वेगेन मुक्त्वा तीव्राञ्छिलीमुखान्।
इन्द्रादीनहनत्तूर्णं ताम्रस्तस्मिन् रणाजिरे ॥ ५५ ॥
तेऽपि देवाः शरैर्दिव्यैर्निशितैश्च शिलाशितैः ।
निजघ्नुर्दानवान्क्रुद्धास्तिष्ठ तिष्ठेति चुकुशुः ॥ ५६ ॥
निहतस्तैः सुरैर्दैत्यो मूर्च्छामाप रणाङ्गणे ।
हाहाकारो महानासीद्दैत्यसैन्ये भयातुरे ॥ ५७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे दैत्यसैन्यपराजयो नाम पञ्चमोऽध्यायः ॥ ५ ॥