देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ०७

शङ्करशरणगमनवर्णनम्

व्यास उवाच
असुरान्महिषो दृष्ट्वा विषण्णमनसस्तदा ।
त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ ॥ १ ॥
कृत्वा नादं महाघोरं विस्तार्य च महासटाम् ।
पपात सुरसेनायां त्रासयन्नखदर्शनैः ॥ २ ॥
गरुडञ्च नखाघातैः कृत्वा रुधिरविप्लुतम् ।
जघान च भुजे विष्णुं नखाघातेन केसरी ॥ ३ ॥
वासुदेवोऽपि तं दृष्ट्वा चक्रमुद्यम्य वेगवान् ।
हन्तुकामो हरिः काममवापाशु क्रुधान्वितः ॥ ४ ॥
यावद्धयरिपुं वेगाच्चक्रेणाभिजघान तम् ।
तावत्सोऽतिबलः शृङ्गी शृङ्गाभ्यां न्यहनद्धरिम् ॥ ५ ॥
वासुदेवो विषाणाभ्यां ताडितोरसि विह्वलः ।
पलायनपरो वेगाज्जगाम भुवनं निजम् ॥ ६ ॥
गतं दृष्ट्वा हरिं कामं शङ्करोऽपि भयान्वितः ।
अवध्यं तं परं मत्वा ययौ कैलासपर्वतम् ॥ ७ ॥
ब्रह्मापि च निजं धाम त्वरितः प्रययौ भयात् ।
मघवा वज्रमालम्ब्य तस्थावाजौ महाबलः ॥ ८ ॥
वरुणः शक्तिमालम्ब्य धैर्यमालम्ब्य संस्थितः ।
यमोऽपि दण्डमादाय यत्तः समरतत्परः ॥ ९ ॥
ततो यक्षाधिपः कामं बभूव रणतत्परः ।
पावकः शक्तिमादाय तत्राभूद्युद्धमानसः ॥ १० ॥
नक्षत्राधिपतिः सूर्यः समवेतौ स्थितावुभौ ।
वीक्ष्य तं दानवश्रेष्ठं युद्धाय कृतनिश्चयौ ॥ ११ ॥
एतस्मिन्नन्तरे क्रुद्धं दैत्यसैन्यं समभ्यगात् ।
विसृजन्बाणजालानि क्रूराहिसदृशानि च ॥ १२ ॥
कृत्वा हि माहिषं रूपं भूपतिः संस्थितस्तदा ।
देवदानवयोधानां निनादस्तुमुलोऽभवत् ॥ १३ ॥
ज्याघातश्च तलाघातो मेघनादसमोऽभवत् ।
संग्रामे सुमहाघोरे देवदानवसेनयोः ॥ १४ ॥
शृङ्गाभ्यां पार्वताञ्छृङ्गांश्चिक्षेप च महाबलः ।
जघान सुरसङ्घांश्च दानवो मदगर्वितः ॥ १५ ॥
खुराघातैस्तथा देवान्पुच्छस्य भ्रमणेन च ।
स जघान रुषाविष्टो महिषः परमाद्‌भुतः ॥ १६ ॥
ततो देवाः सगन्धर्वा भयमाजग्मुरुद्यताः ।
मघवा महिषं दृष्ट्वा पलायनपरोऽभवत् ॥ १७ ॥
सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ ।
यमो धनाधिपः पाशी जग्मुः सर्वे भयातुराः ॥ १८ ॥
महिषोऽपि जयं मत्वा जगाम स्वगृहं ततः ।
ऐरावतं गजं प्राप्य त्यक्तमिन्द्रेण गच्छता ॥ १९ ॥
तथोच्चैःश्रवसं भानोः कामधेनुं पयस्विनीम् ।
स्वसैन्यसंवृतस्तूर्णं स्वर्गं गन्तुं मनो दधे ॥ २० ॥
तरसा देवसदनं गत्वा स महिषासुरः ।
जग्राह सुरराज्यं वै त्यक्तं देवैर्भयातुरैः ॥ २१ ॥
इन्द्रासने तथा रम्ये दानवः समुपाविशत् ।
दानवान्स्थापयामास देवानां स्थानकेषु सः ॥ २२ ॥
एवं वर्षशतं पूर्णं कृत्वा युद्धं सुदारुणम् ।
अवापैन्द्रपदं कामं दानवो मदगर्वितः ॥ २३ ॥
निर्जरा निर्गता नाकात्तेन सर्वेऽतिपीडिताः ।
एवं बहूनि वर्षाणि बभ्रमुर्गिरिगह्वरे ॥ २४ ॥
श्रान्ताः सर्वे तदा राजन् ब्रह्माणं शरणं ययुः ।
प्रजापतिं जगन्नाथं रजोरूपं चतुर्मुखम् ॥ २५ ॥
पद्मासनं वेदगर्भं सेवितं मुनिभिः स्वजैः ।
मरीचिप्रमुखैः शान्तैर्वेदवेदाङ्गपारगैः ॥ २६ ॥
किन्नरैः सिद्धगन्धर्वैश्चारणोरगपन्नगैः ।
तुष्टुवुर्भयभीतास्ते देवदेवं जगद्‌गुरुम् ॥ २७ ॥
देवा ऊचुः
धातः किमेतदखिलार्तिहराम्बुजन्म
     जन्माभिवीक्ष्य न दयां कुरुषे सुरान् यत् ।
सम्पीडितान् रणजितानसुराधिपेन
     स्थानच्युतान् गिरिगुहाकृतसन्निवासान् ॥ २८ ॥
पुत्रान्पिता किमपराधशतैः समेता-
     न्सन्त्यज्य लोभरहितः कुरुतेऽतिदुःस्थान् ।
यस्त्वं सुरांस्तव पदाम्बुजभक्तियुक्ता-
     न्दैत्यार्दितांश्च कृपणान् यदुपेक्षसेऽद्य ॥ २९ ॥
अमरभुवनराज्यं तेन भुक्तं नितान्तं
     मखहविरपि योग्यं ब्राह्मणैराददाति ।
सुरतरुवरपुष्पं सेवतेऽसौ दुरात्मा
     जलनिधिनिधिभूतां गामसौ सेवते ताम् ॥ ३० ॥
किं वा गृणीमः सुरकार्यमद्‌भुतं
     जानासि देवेश सुरारिचेष्टितम् ।
ज्ञानेन सर्वं त्वमशेषकार्यवि-
     त्तस्मात्प्रभो ते प्रणताः स्म पादयोः ॥ ३१ ॥
यत्रापि कुत्रापि गतान्सुरानसौ
     नानाचरित्रः खलु पापमानसः ।
पीडां करोत्येव स दुष्टचेष्टित-
     स्त्रातासि देवेश विधेहि शं विभो ॥ ३२ ॥
नो चेद्वयं दावमहाग्निपीडिताः
     कं शान्तिकर्तारमनन्ततेजसम् ।
यामः प्रजेशं शरणं सुरेष्टं
     धातारमाद्यं परिमुच्य कं शिवम् ॥ ३३ ॥
व्यास उवाच
इति स्तुत्वा सुराः सर्वे प्रणेमुस्तं प्रजापतिम् ।
बद्धाञ्जलिपुटाः सर्वे विषण्णवदना भृशम् ॥ ३४ ॥
तांस्तथा पीडितान्दृष्ट्वा तदा लोकपितामहः ।
उवाच श्लक्ष्णया वाचा सुखं सञ्जनयन्निव ॥ ३५ ॥
ब्रह्मोवाच
किं करोमि सुराः कामं दानवो वरदर्पितः ।
स्त्रीवध्योऽसौ न पुंवध्यो विधेयं तत्र किं पुनः ॥ ३६ ॥
व्रजामोऽद्य सुराः सर्वे कैलासं पर्वतोत्तमम् ।
शङ्करं पुरतः कृत्वा सर्वकार्यविशारदम् ॥ ३७ ॥
ततो व्रजाम वैकुण्ठं यत्र देवो जनार्दनः ।
मिलित्वा देवकार्यञ्च विमृशामो विशेषतः ॥ ३८ ॥
इत्युक्त्वा हंसमारुह्य ब्रह्मा कार्यसमुच्चये ।
देवांश्च पृष्ठतः कृत्वा कैलासाभिमुखो ययौ ॥ ३९ ॥
तावच्छिवोऽपि तरसा ज्ञात्वा ध्यानेन पद्मजम् ।
आगच्छन्तं सुरैः सार्धं निर्गतः स्वगृहाद्‌बहिः ॥ ४० ॥
दृष्ट्वा परस्परं तौ तु कृताभिवादनौ भृशम् ।
प्रणतौ च सुरैः सर्वैः सन्तुष्टौ सम्बभूवतुः ॥ ४१ ॥
आसनानि पृथग्दत्त्वा देवेभ्यो गिरिजापतिः ।
उपविष्टेषु तेष्वेव निषसादासने स्वके ॥ ४२ ॥
कृत्वा तु कुशलप्रश्नं ब्रह्माणं वृषभध्वजः ।
पप्रच्छ कारणं देवान्कैलासागमने विभुः ॥ ४३ ॥
शिव उवाच
किमत्रागमनं ब्रह्मन् कृतं देवैः सवासवैः ।
भवता च महाभाग ब्रूहि तत्कारणं किल ॥ ४४ ॥
ब्रह्मोवाच
महिषेण सुरेशान पीडिताः स्वर्निवासिनः ।
भ्रमन्ति गिरिदुर्गेषु भयत्रस्ताः सवासवाः ॥ ४५ ॥
यज्ञभुग्महिषो जातस्तथान्ये सुरशत्रवः ।
पीडिता लोकपालाश्च त्वामद्य शरणं गताः ॥ ४६ ॥
मया ते भवनं शम्भो प्रापिताः कार्यगौरवात् ।
यद्युक्तं तद्विधत्स्वाद्य सुरकार्यं सुरेश्वर ॥ ४७ ॥
त्वयि भारोऽस्ति सर्वेषां देवानां भूतभावन ।
व्यास उवाच
इति तद्वचनं श्रुत्वा शङ्करः प्रहसन्निव ॥ ४८ ॥
वचनं श्लक्ष्णया वाचा प्रोवाच पद्मजं प्रति ।
शिव उवाच
भवतैव कृतं कार्यं वरदानात्पुरा विभो ॥ ४९ ॥
अनर्थदञ्च देवानां किं कर्तव्यमतः परम् ।
ईदृशो बलवाञ्छूरः सर्वदेवभयप्रदः ॥ ५० ॥
का समर्था वरा नारी तं हन्तुं मददर्पितम् ।
न मे भार्या न ते भार्या संग्रामं गन्तुमर्हति ॥ ५१ ॥
गत्वैव ते महाभागे युयुधाते कथं पुनः ।
इन्द्राणी च महाभागा न युद्धकुशलास्ति हि ॥ ५२ ॥
कान्या हन्तुं समर्थास्ति तं पापं मददर्पितम् ।
ममेदं मतमद्यैव गत्वा देवं जनार्दनम् ॥ ५३ ॥
स्तुत्वा तं देवकार्याय प्रेरयामः सुसत्वरम् ।
सोऽतिबुद्धिमतां श्रेष्ठो विष्णुः सर्वार्थसाधने ॥ ५४ ॥
मिलित्वा वासुदेवं वै कर्तव्यं कार्यचिन्तनम् ।
प्रपञ्चेन च बुद्ध्या स संविधास्यति साधनम् ॥ ५५ ॥
व्यास उवाच
इति रुद्रवचः श्रुत्वा ब्रह्माद्याः सुरसत्तमाः ।
उत्थितास्ते तथेत्युक्त्वा शिवेन सह सत्वराः ॥ ५६ ॥
स्वकीयैर्वाहनैः सर्वे ययुविष्णपुरं प्रति ।
मुदिताः शकुनान्दृष्ट्वा कार्यसिद्धिकराञ्छुभान्॥ ५७ ॥
ववुर्वाताः शुभाः शान्ताः सुगन्धाः शुभशंसिनः ।
पक्षिणश्च शिवा वाचस्तत्रोचुः पथि सर्वशः ॥ ५८ ॥
निर्मलं चाभवद्व्योम दिशश्च विमलास्तथा ।
गमने तत्र देवानां सर्वं शुभमिवाभवत् ॥ ५९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे पराजितदेवतानां शङ्करशरणगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥