प्रमुखा विकल्पसूचिः उद्घाट्यताम्

देवीसान्त्वनम्

व्यास उवाच
अथ प्रमुदिताः सर्वे देवा इन्द्रपुरोगमाः ।
महिषं निहतं दृष्ट्वा तुष्टुवुर्जगदम्बिकाम् ॥ १ ॥
देवा ऊचुः
ब्रह्मा सृजत्यवति विष्णुरिदं महेशः
     शक्त्या तवैव हरते ननु चान्तकाले ॥
ईशा न तेऽपि च भवन्ति तया विहीना-
     स्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री ॥ २ ॥
कीर्तिर्मतिः स्मृतिगती करुणा दया त्वं
     श्रद्धा धृतिश्च वसुधा कमलाजपा च ।
पुष्टिः कलाथ विजया गिरिजा जया त्वं
     तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च ॥ ३ ॥
विद्या क्षमा जगति कान्तिरपीह मेधा
     सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् ।
आभिर्विना तव तु शक्तिभिराशु कर्तुं
     को वा क्षमः सकललोकनिवासभूमे ॥ ४ ॥
त्वं धारणा ननु न चेदसि कूर्मनागौ
     धर्तुं क्षमौ कथमिलामपि तौ भवेताम् ।
पृथ्वी न चेत्त्वमसि वा गगने कथं स्था-
     स्यत्येतदम्ब निखिलं बहुभारयुक्तम् ॥ ५ ॥
ये वा स्तुवन्ति मनुजा अमरान्विमूढा
     मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् ।
शुभ्रांशुवह्नियमवायुगणेशमुख्यान्
     किं त्वामृते जननि ते प्रभवन्ति कार्ये ॥ ६ ॥
ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञे
     वह्नौ सुरान्समधिकृत्य हविः समृद्धम् ।
स्वाहा न चेत्त्वमसि ते कथमापुरद्धा
     त्वामेव किं न हि यजन्ति ततो हि मूढाः ॥ ७ ॥
भोगप्रदासि भवतीह चराचराणां
     स्वांशैर्ददासि खलु जीवनमेव नित्यम् ।
स्वीयान्सुराञ्जननि पोषयसीह यद्व-
     त्तद्वत्परानपि च पालयसीति हेतोः ॥ ८ ॥
मातः स्वयंविरचितान्विपिने विनोदा-
     द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् ।
नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि-
     त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान् ॥ ९ ॥
यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती-
     न्देवाङ्गनासुरतकेलिमतीन्विदित्वा ।
देहान्तरेऽपि करुणारसमाददाना
     तत्ते चरित्रमिदमीप्सितपूरणाय ॥ १० ॥
चित्रं त्वमी यदसुभी रहिता न सन्ति
     त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः ।
येषां कृते जननि देहनिबन्धनं ते
     क्रीडारसस्तव न चान्यतरोऽत्र हेतुः ॥ ११ ॥
प्राप्ते कलावहह दुष्टतरे च काले
     न त्वां भजन्ति मनुजा ननु वञ्चितास्ते ।
धूर्तैः पुराणचतुरैर्हरिशङ्कराणां
     सेवापराश्च विहितास्तव निर्मितानाम् ॥ १२ ॥
ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च
     ये वै भजन्ति भुवि भावयुता विभग्नान् ।
धृत्वा करे सुविमलं खलु दीपकं ते
     कूपे पतन्ति मनुजा विजलेऽतिघोरे ॥ १३ ॥
विद्या त्वमेव सुखदासुखदाप्यविद्या
     मातस्त्वमेव जननार्तिहरा नराणाम् ।
मोक्षार्थिभिस्तु कलिता किल मन्दधीभि-
     र्नाराधिता जननि भोगपरैस्तथाज्ञैः ॥ १४ ॥
ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं
     पादाम्बुजं तव भजन्ति सुरास्तथान्ये ।
तद्वै न येऽल्पमतयो मनसा भजन्ति
     भ्रान्ताः पतन्ति सततं भवसागरे ते ॥ १५ ॥
चण्डि त्वदङ्‌घ्रिजलजोत्थरजःप्रसादै-
     र्ब्रह्मा करोति सकलं भुवनं भवादौ ।
शौरिश्च पाति खलु संहरते हरस्तु
     त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ ॥ १६ ॥
वाग्देवता त्वमसि देवि सुरासुराणां
     वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः ।
त्वं चेन्मुखे वससि नैव यदैव तेषां
     यस्माद्‌भवन्ति मनुजा न हि तद्विहीनाः ॥ १७ ॥
शप्तो हरिस्तु भृगुणा कुपितेन कामं
     मीनो बभूव कमठः खलु सूकरस्तु ।
पश्चान्नृसिंह इति यश्छलकृद्धरायां
     तान्सेवतां जननि मृत्युभयं न किं स्यात् ॥ १८ ॥
शम्भोः पपात भुवि लिङ्गमिदं प्रसिद्धं
     शापेन तेन च भृगोर्विपिने गतस्य ।
तं ये नरा भुवि भजन्ति कपालिनं तु
     तेषां सुखं कथमिहापि परत्र मातः ॥ १९ ॥
योऽभूद्‌ गजाननगणाधिपतिर्महेशा-
     त्तं ये भजन्ति मनुजा वितथप्रपन्नाः ।
जानन्ति ते न सकलार्थफलप्रदात्रीं
     त्वां देवि विश्वजननीं सुखसेवनीयाम् ॥ २० ॥
चित्रं त्वयारिजनतापि दयार्द्रभावा-
     द्धत्वा रणे शितशरैर्गमिता द्युलोकम् ।
नोचेत्स्वकर्मनिचिते निरये नितान्तं
     दुःखातिदुःखगतिमापदमापतेत्सा ॥ २१ ॥
ब्रह्मा हरश्च हरिरप्युत गर्वभावा-
     ज्जानन्ति तेऽपि विबुधा न तव प्रभावम् ।
केऽन्ये भवन्ति मनुजा विदितुं समर्थाः
     सम्मोहितास्तव गुणैरमितप्रभावैः ॥ २२ ॥
क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं
     पादाम्बुजं न हि भजन्ति विमूढचित्ताः ।
सूर्याग्निसेवनपराः परमार्थतत्त्वं
     ज्ञातं न तैः श्रुतिशतैरपि वेदसारम् ॥ २३ ॥
मन्ये गुणास्तव भुवि प्रथितप्रभावाः
     कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात् ।
लोकान्स्वबुद्धिरचितैर्विविधागमैश्च
     विष्ण्वीशभास्करगणेशपरान्विधाय ॥ २४ ॥
कुर्वन्ति ये तव पदाद्विमुखान्नराग्र्या-
     न्स्वोक्तागमैर्हरिहरार्चनभक्तियोगैः ।
तेषां न कुप्यसि दयां कुरुषेऽम्बिके त्वं
     तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च ॥ २५ ॥
तुर्ये युगे भवति चातिबलं गुणस्य
     तुर्यस्य तेन मथितान्यसदागमानि ।
त्वां गोपयन्ति निपुणाः कवयः कलौ वै
     त्वत्कल्पितान्सुरगणानपि संस्तुवन्ति ॥ २६ ॥
ध्यायन्ति मुक्तिफलदां भुवि योगसिद्धां
     विद्यां पराञ्च मुनयोऽतिविशुद्धसत्त्वाः ।
ते नाप्नुवन्ति जननीजठरे तु दुःखं
     धन्यास्त एव मनुजास्त्वयि ये विलीनाः ॥ २७ ॥
चिच्छक्तिरस्ति परमात्मनि येन सोऽपि
     व्यक्तो जगत्सु विदितो भवकृत्यकर्ता ।
कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन्
     कर्तुं विहर्तुमपि सञ्चलितुं स्वशक्त्या ॥ २८ ॥
तत्त्वानि चिद्विरहितानि जगद्विधातुं
     किं वा क्षमाणि जगदम्ब यतो जडानि ।
किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति
     देवि त्वया विरहितानि फलं प्रदातुम् ॥ २९ ॥
देवा मखेष्वपि हुतं मुनिभिः स्वभागं
     गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् ।
स्वाहा न चेत्त्वमसि तत्र निमित्तभूता
     तस्मात्त्वमेव ननु पालयसीव विश्वम् ॥ ३० ॥
सर्वं त्वयेदमखिलं विहितं भवादौ
     त्वं पासि वै हरिहरप्रमुखान्दिगीशान् ।
कालेऽत्सि विश्वमपि ते चरितं भवाद्यं
     जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः ॥ ३१ ॥
हत्वासुरं महिषरूपधरं महोग्रं
     मातस्त्वया सुरगणः किल रक्षितोऽयम् ।
कां ते स्तुतिं जननि मन्दधियो विदामो
     वेदा गतिं तव यथार्थतया न जग्मुः ॥ ३२ ॥
कार्यं कृतं जगति नो यदसौ दुरात्मा
     वैरी हतो भुवनकण्टकदुर्विभाव्यः ।
कीर्तिः कृता ननु जगत्सु कृपा विधेया-
     प्यस्मांश्च पाहि जननि प्रथितप्रभावे ॥ ३३ ॥
व्यास उवाच
एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा ।
अन्यत्कार्यं च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः ॥ ३४ ॥
यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम् ।
स्मर्तव्याहं तदा शीघ्रं नाशयिष्यामि चापदम् ॥ ३५ ॥
देवा ऊचुः
सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् ।
यदयं निहतः शत्रुरस्माकं महिषासुरः ॥ ३६ ॥
स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम् ।
तथा कुरु जगन्मातर्भक्तिं त्वय्यप्यचञ्चलाम् ॥ ३७ ॥
अपराधसहस्राणि मातैव सहते सदा ।
इति ज्ञात्वा जगद्योनिं न भजन्ते कुतो जनाः ॥ ३८ ॥
द्वौ सुपर्णो तु देहेऽस्मिंस्तयोः सख्यं निरन्तरम् ।
नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि ॥ ३९ ॥
तस्माज्जीवः सखायं त्वां हित्वा किं नु करिष्यति ।
पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु ॥ ४० ॥
प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः ।
मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः ॥ ४१ ॥
सुखे वाप्यथवा दुःखे त्वं नः शरणमद्‌भुतम् ।
पाहि नः सततं देवि सर्वैस्तव वरायुधैः ॥ ४२ ॥
अन्यथा शरणं नास्ति त्वत्पादाम्बुजरेणुतः ।
व्यास उवाच
एवं स्तुता सुरैर्देवी तत्रैवान्तरधीयत ।
विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम् ॥ ४३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीसान्त्वनं नामैकोनविंशोऽध्यायः ॥ १९ ॥