देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः २४

देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम्

व्यास उवाच
देव्यास्तद्वचनं श्रुत्वा स दूतः प्राह विस्मितः ।
किं ब्रूषे रुचिरापाङ्‌गि स्त्रीस्वभावाद्धि साहसात् ॥ १ ॥
इन्द्राद्या निर्जिता येन देवा दैत्यास्तथापरे ।
तं कथं समरे देवि जेतुमिच्छसि भामिनि ॥ २ ॥
त्रैलोक्ये तादृशो नास्ति यः शुम्भं समरे जयेत् ।
का त्वं कमलपत्राक्षि तस्याग्रे युधि साम्प्रतम् ॥ ३ ॥
अविचार्य न वक्तव्यं वचनं चापि सुन्दरि ।
बलं स्वपरयोर्ज्ञात्वा वक्तव्यं समयोचितम् ॥ ४ ॥
त्रैलोक्याधिपतिः शुम्भस्तव रूपेण मोहितः ।
त्वाञ्च प्रार्थयते राजा कुरु तस्येप्सितं प्रिये ॥ ५ ॥
त्यक्त्वा मूर्खस्वभावं त्वं सम्मान्य वचनं मम ।
भज शुम्भं निशुम्भं वा हितमेतद्‌ ब्रवीमि ते ॥ ६ ॥
शृङ्गारः सर्वथा सर्वैः प्राणिभिः परया मुदा ।
सेवनीयो बुद्धिमद्‌भिर्नवानामुत्तमो यतः ॥ ७ ॥
नागमिष्यसि चेद्‌ बाले संक्रुद्धः पृथिवीपतिः ।
अन्यानाज्ञाकरान्प्रेष्य बलान्नेष्यति साम्प्रतम् ॥ ८ ॥
केशेष्वाकृष्य ते नूनं दानवा बलदर्पिताः ।
त्वां नयिष्यन्ति वामोरु तरसा शुम्भसन्तिधौ ॥ ९ ॥
स्वलज्जां रक्ष तन्वङ्‌गि साहसं सर्वथा त्यज ।
मानिता गच्छ तत्पार्श्वे मानपात्रं यतोऽसि वै ॥ १० ॥
क्व युद्धं निशितैर्बाणैः क्व सुखं रतिसङ्गजम् ।
सारासारं परिच्छेद्य कुरु मे वचनं पटु ॥ ११ ॥
भज शुम्भं निशुम्भं वा लब्धासि परमं सुखम् ।
देव्युवाच
सत्यं दूत महाभाग प्रवक्तुं निपुणो ह्यसि ॥ १२ ॥
निशुम्भशुम्भौ जानामि बलवन्ताविति ध्रुवम् ।
प्रतिज्ञा मे कृता बाल्यादन्यथा सा कथं भवेत् ॥ १३ ॥
तस्माद्‌ ब्रूहि निशुम्भञ्च शुम्भं वा बलवत्तरम् ।
विना युद्धं न मे भर्ता भविता कोऽपि सौष्ठवात् ॥ १४ ॥
जित्वा मां तरसा कामं करं गृह्णातु साम्प्रतम् ।
युद्धेच्छया समायातां विद्धि मामबलां नृप ॥ १५ ॥
युद्धं देहि समर्थोऽसि वीरधर्मं समाचर ।
बिभेषि मम शूलाच्चेत्पातालं गच्छ मा चिरम् ॥ १६ ॥
त्रिदिवं च धरां त्यक्त्वा जीवितेच्छा यदस्ति ते ।
इति दूत वदाशु त्वं गत्वा स्वपतिमादरात् ॥ १७ ॥
स विचार्य यथायुक्तं करिष्यति महाबलः ।
संसारे दूतधर्मोऽयं यत्सत्यं भाषणं किल ॥ १८ ॥
शत्रौ पत्यौ च धर्मज्ञ तथा त्वं कुरु मा चिरम् ।
व्यास उवाच
अथ तद्वचनं श्रुत्वा नीतिमद्‌बलसंयुतम् ॥ १९ ॥
हेतुयुक्तं प्रगल्पञ्च विस्मितः प्रययौ तदा ।
गत्वा दैत्यपतिं दूतो विचार्य च पुनः पुनः ॥ २० ॥
प्रणम्य पादयोः प्रह्वः प्रत्युवाच नृपञ्ज तम् ।
राजनीतिकरं वाक्यं मृदुपूर्वं प्रियं वचः ॥ २१ ॥
दूत उवाच
सत्यं प्रियं च वक्तव्यं तेन चिन्तापरो ह्यहम् ।
सत्यं प्रियं च राजेन्द्र वचनं दुर्लभं किल ॥ २२ ॥
अप्रियं वदतां कामं राजा कुप्यति सर्वथा ।
साक्षात्कुतः समायाता कस्य वा किंबलाबला ॥ २३ ॥
न ज्ञानगोचरं किञ्चित्किं ब्रवीमि विचेष्टितम् ।
युद्धकामा मया दृष्टा गर्विता कटुभाषिणी ॥ २४ ॥
तया यत्कथितं सम्यक् तच्छृणुष्व महामते ।
मया बाल्यात्प्रतिज्ञेयं कृता पूर्वं विनोदतः ॥ २५ ॥
सखीनां पुरतः कामं विवाहं प्रति सर्वथा ।
यो मां युद्धे जयेदद्धा दर्पञ्च विधुनोति वै ॥ २६ ॥
तं वरिष्याम्यहं कामं पतिं समबलं किल ।
न मे प्रतिज्ञा मिथ्या सा कर्तव्या नृपसत्तम ॥ २७ ॥
तस्माद्युध्यस्व धर्मज्ञ जित्वा मां स्ववशं कुरु ।
तयेति व्याहृतं वाक्यं श्रुत्वाहं समुपागतः ॥ २८ ॥
यथेच्छसि महाराज तथा कुरु तव प्रियम् ।
सा युद्धार्थं कृतमतिः सायुधा सिंहगामिनी ॥ २९ ॥
निश्चला वर्तते भूप यद्योग्यं तद्विधीयताम् ।
व्यास उवाच
इत्याकर्ण्य वचस्तस्य सुग्रीवस्य नराधिपः ॥ ३० ॥
पप्रच्छ भ्रातरंशूरं समीपस्थं महाबलम् ।
शुम्भ उवाच
भ्रातः किमत्र कर्तव्यं ब्रूहि सत्यं महामते ॥ ३१ ॥
नार्येका योद्धुकामास्ति समाह्वयति साम्प्रतम् ।
अहं गच्छामि संग्रामे त्वं वा गच्छ बलान्वितः ॥ ३२ ॥
यद्‌रोचते निशुम्भात्र तत्कर्तव्यं मया किल ।

निशुम्भ उवाच
न मया न त्वया वीर गन्तव्यं रणमूर्धनि ॥ ३३ ॥
प्रेषयस्व महाराज त्वरितं धूम्रलोचनम् ।
स गत्वा तां रणे जित्वा गृहीत्वा चारुलोचनाम् ॥ ३४ ॥
आगमिष्यति शुम्भात्र विवाहः संविधीयताम् ।
व्यास उवाच
तन्निशम्य वचस्तस्य शुम्भो भ्रातुः कनीयसः ॥ ३५
कोपात्सम्प्रेषयामास पार्श्वस्थं धूम्रलोचनम् ।
शुम्भ उवाच
धूम्रलोचन गच्छाशु सैन्येन महताऽऽवृतः ॥ ३६ ॥
गृहीत्वाऽऽनय तां मुग्धां स्ववीर्यमदमोहिताम् ।
देवो वा दानवो वापि मनुष्यो वा महाबलः ॥ ३७ ॥
तत्पार्ष्णिग्राहतां प्राप्तो हन्तव्यस्तरसा त्वया ।
तत्पार्श्ववर्तिनीं कालीं हत्वा संगृह्य तां पुनः ॥ ३८ ॥
शीघ्रमत्र समागच्छ कृत्वा कार्यमनुत्तमम् ।
रक्षणीया त्वया साध्वी मुञ्चन्ती मृदुमार्गणान् ॥ ३९ ॥
यत्‍नेन महता वीर मृदुदेहा कृशोदरी ।
तत्सहायाश्च हन्तव्या ये रणे शस्त्रपाणयः ॥ ४० ॥
सर्वथा सा न हन्तव्या रक्षणीया प्रयत्‍नतः ।
व्यास उवाच
इत्यादिष्टस्तदा राज्ञा तरसा धूम्रलोचनः ॥ ४१ ॥
प्रणम्य शुम्भं सैन्येन भूतः शीघ्रं ययौ रणे ।
असाधूनां सहस्राणां षष्ट्या तेषां वृतस्तथा ॥ ४२ ॥
स ददर्श ततो देवीं रम्योपवनसंस्थिताम् ।
दृष्ट्वा तां मृगशावाक्षीं विनयेन समन्वितः ॥ ४३ ॥
उवाच वचनं श्लक्ष्णं हेतुमद्‌रसभूषितम् ।
शृणु देवि महाभागे शुम्भस्त्वद्विरहातुरः ॥ ४४ ॥
दूतं प्रेषितवान्पार्श्वे तव नीतिविशारदः ।
रसभङ्गभयोद्विग्नः सामपूर्वं त्वयि स्वयम् ॥ ४५ ॥
तेनागत्य वचः प्रोक्तं विपरीतं वरानने ।
वचसा तेन मे भर्ता चिन्ताविष्टमना नृपः ॥ ४६ ॥
बभूव रसमार्गज्ञे शुम्भः कामविमोहितः ।
दूतेन तेन न ज्ञातं हेतुगर्भं वचस्तव ॥ ४७ ॥
यो मां जयति संग्रामे यदुक्तं कठिनं वचः ।
न ज्ञातस्तेन संग्रामो द्विविधः खलु मानिनि ॥ ४८ ॥
रतिजोऽथोत्साहजश्च पात्रभेदे विवक्षितः ।
रतिजस्त्वयि वामोरु शत्रोरुत्साहजः स्मृतः ॥ ४९ ॥
सुखदः प्रथमः कान्ते दुःखदश्चारिजः स्मृतः ।
जानाम्यहं वरारोहे भवत्या मानसं किल ॥ ५० ॥
रतिसंग्रामभावस्ते हृदये परिवर्तते ।
इति तज्ज्ञं विदित्वा मां त्वत्सकाशं नराधिपः ॥ ५१ ॥
प्रेषयामास शुम्भोऽद्य बलेन महताऽऽवृतम् ।
चतुरासि महाभागे शृणु मे वचनं मृदु ॥ ५२ ॥
भज शुम्भं त्रिलोकेशं देवदर्पनिबर्हणम् ।
पट्टराज्ञी प्रिया भूत्वा भुंक्ष्व भोगाननुत्तमान् ॥ ५३ ॥
जेष्यति त्वां महाबाहुः शुम्भः कामबलार्थवित् ।
विचित्रान्कुरु हावांस्त्वं सोऽपि भावान्करिष्यति ॥ ५४ ॥
भविष्यति कालिकेयं तत्र वै नर्मसाक्षिणी ।
एवं सङ्गरयोगेन पतिर्मे परमार्थवित् ॥ ५५ ॥
जित्वा त्वां सुखशय्यायां परिश्रान्तां करिष्यति ।
रक्तदेहां नखाघातैर्दन्तैश्च खण्डिताधराम् ॥ ५६ ॥
स्वेदक्लिन्नां प्रभग्नां त्वां संविधास्यति भूपतिः ।
भविता मानसः कामो रतिसंग्रामजस्तव ॥ ५७ ॥
दर्शनाद्वश एवास्ते शुम्भः सर्वात्मना प्रिये ।
वचनं कुरु मे पथ्यं हितकृच्चापि पेशलम् ॥ ५८ ॥
भज शुम्भं गणाध्यक्षं माननीयातिमानिनी ।
मन्दभाग्याश्च ते नूनं ह्यस्त्रयुद्धप्रियाश्च ये ॥ ५९ ॥
न तदर्हासि कान्ते त्वं सदा सुरतवल्लभे ।
अशोकं कुरु राजानं पादाघातविकासितम् ॥ ६० ॥
बकुलं सीधुसेकेन तथा कुरबकं कुरु ॥ ६१ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥