देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः २२

हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम्

यशोवत्युवाच
प्रातरुत्थाय तन्वङ्गी चलिता च सखीयुता ।
चामरैर्वीज्यमाना सा रक्षिता बहुरक्षिभिः ॥ १ ॥
सायुधैश्चातिसन्नद्धैः सहिता वरवर्णिनी ।
क्रीडार्थमत्र राजेन्द्र सम्प्राप्ता नलिनीं शुभाम् ॥ २ ॥
अहमप्यनया सार्धं गङ्गातीरे समागता ।
अप्सरोभिः समेता च कमलैः क्रीडमानया ॥ ३ ॥
एकावली तथा चाहं जाते क्रीडापरे यदा ।
सहसैव तदायातो दानवो बलसंयुतः ॥ ४ ॥
कालकेतुरिति ख्यातो राक्षसैर्बहुभिर्युतः ।
परिघासिगदाचापबाणतोमरपाणिभिः ॥ ५ ॥
दृष्टा चैकावली तेन रूपयौवनशालिनी ।
द्वितीया कामपत्‍नीव क्रीडमाना सुपङ्कजैः ॥ ६ ॥
मयोक्तैकावली राजन् कोऽयं दैत्यः समागतः ।
गच्छावो रक्षपालानां मध्ये पङ्कजलोचने ॥ ७ ॥
विमृश्यैव सखी चाहं त्वरयैव गते भयात् ।
मध्ये वै सैनिकानां तु सायुधानां नृपात्मज ॥ ८ ॥
कालकेतुस्तु तां दृष्ट्वा मोहिनीं मदनातुरः ।
गदां गुर्वी गृहीत्वा तु धावमानः समागतः ॥ ९ ॥
रक्षकान्दूरतः कृत्वा जग्राहाम्बुजलोचनाम् ।
त्रस्तां वेपथुसंयुक्तां क्रन्दमानां कृशोदरीम् ॥ १० ॥
त्यजैनां मां गृहाणेति मया चोक्तोऽपि दानवः ।
न मां जग्राह कामार्तस्तां गृहीत्वा विनिःसृतः ॥ ११ ॥
तिष्ठ तिष्ठेति भाषन्तो रक्षकास्तं महाबलम् ।
प्रतिषिध्य तु संग्रामं चक्रुर्विस्मयकारकम् ॥ १२ ॥
तस्यापि राक्षसाः क्रूराः सर्वतः शस्त्रपाणयः ।
युयुधू रक्षकैः सार्धं स्वामिकार्ये कृतोद्यमाः ॥ १३ ॥
संग्रामस्तु तदा जातः कालकेतोस्तथा रणे ।
निहत्य रक्षकान्सर्वान्गृहीत्वैनां महाबलः ॥ १४ ॥
युक्तो राक्षससैन्येन निर्जगाम पुरं प्रति ।
वीक्ष्य तां रुदतीं बालां गृहीता दानवेन तु ॥ १५ ॥
पृष्ठतोऽहं गता तत्र यत्र नीता सखी मम ।
विक्रोशन्ती यथा सा मां पश्येदिति पदानुगा ॥ १६ ॥
सापि मामागतां वीक्ष्य किञ्चित्स्वस्थाभवत्तदा ।
गताहं तत्समीपे तु तामाभाष्य पुनः पुनः ॥ १७ ॥
सा मां प्राप्यातिदुःखार्ता स्तम्भस्वेदसमाकुला ।
कण्ठे गृहीत्वा मां भूप रुरोद भृशदुःखिता ॥ १८ ॥
स मामाह कालकेतुः प्रीतिपूर्वमिदं वचः ।
समाश्वासय भीतां त्वं सखीं चञ्चललोचनाम् ॥ १९ ॥
प्राप्तं ममाद्य नगरं देवलोकसमं प्रिये ।
दासोऽस्मि तव रत्या हि कस्मात्क्रन्दसि कातरा ॥ २० ॥
कथयैनां सखीं तेऽद्य स्वस्था भव सुलोचने ।
इत्युक्त्वा मां सखीपार्श्वे समारोप्य रथोत्तमे ॥ २१ ॥
जगाम तरसा दुष्टः पुरे स्वस्य मनोहरे ।
सैन्येन महता युक्तः प्रफुल्लवदनाम्बुजः ॥ २२ ॥
एकावली तथा मां च संस्थाप्य धवले गृहे ।
राक्षसान् गृहरक्षार्थं कल्पयामास कोटिशः ॥ २३ ॥
द्वितीये दिवसे सोऽथ मामुवाच रहो नृप ।
प्रबोधय सखीं बालां शोचन्तीं विरहातुराम् ॥ २४ ॥
पत्‍नी मे भव सुश्रोणि सुखं भुङ्क्षव यथेप्सितम् ।
राज्यं त्वदीयं चन्द्रास्ये सेवकोऽहं सदा तव ॥ २५ ॥
पुनरुक्तं मया वाक्यं श्रुत्वा तद्‌भाषितं खरम् ।
नाहं क्षमाप्रियं वक्तुं त्वमेनां कथय प्रभो ॥ २६ ॥
इत्युक्ते वचने दुष्टो मदनक्षतमानसः ।
उवाच विनयादेनां सखीं क्षामोदरीं प्रियाम् ॥ २७ ॥
कृशोदरि त्वया मन्त्रो निक्षिप्तोऽस्ति ममोपरि ।
तेन मे हृदयं कान्ते हृतं ते वशतां गतम् ॥ २८ ॥
तेनाहं तव दासोऽद्य कृतोऽस्मीति विनिश्चयः ।
भज मां कामबाणेन पीडितं विवशं भृशम् ॥ २९ ॥
यौवनं याति रम्भोरु चञ्चलं दुर्लभं तदा ।
सफलं कुरु कल्याणि पतिं मां परिरभ्य च ॥ ३० ॥
एकावल्युवाच
पित्राहं कल्पिता पूर्वं दातुं राजसुताय वै ।
हैहयस्तु महाभाग स मया मनसा वृतः ॥ ३१ ॥
कथमन्यं भजे कान्तं त्यक्त्वा धर्मं सनातनम् ।
कन्याधर्मं विहायाद्य वेत्सि शास्त्रविनिश्चयम् ॥ ३२ ॥
यस्मै दद्यात्पिता कामं कन्या तं पतिमाप्नुयात् ।
परतन्त्रा सदा कन्या न स्वातन्त्र्यं कदाचन ॥ ३३ ॥
इत्युक्तोऽपि तया पापी विरराम न मोहितः ।
न मुमोच विशालाक्षीं मां च पार्श्वस्थितां तथा ॥ ३४ ॥
पातालविवरे तस्य पुरं परमसङ्कटे ।
राक्षसै रक्षितं दुर्गं मण्डितं परिखावृतम् ॥ ३५ ॥
तत्र तिष्ठति दुःखार्ता सखी मे प्राणवल्लभा ।
तेनाहं विरहेणात्र रारटीमि सुदुःखिता ॥ ३६ ॥
एकवीर उवाच
कथं त्वमत्र सम्प्राप्ता पुरात्तस्य दुरात्मनः ।
विस्मयो मे महानत्र तत्त्वं ब्रूहि वरानने ॥ ३७ ॥
त्वया च कथितं वाक्यं सन्दिग्धं भाति भामिनि ।
हैहयार्थे कल्पिता सा पित्रेति मम साम्प्रतम् ॥ ३८ ॥
हैहयो नाम राजाहं नान्योऽस्ति पृथिवीपतिः ।
मदर्थे कथिता सा किं सखी तव सुलोचना ॥ ३९ ॥
एतन्मे संशयं सुभ्रु छेत्तुमर्हसि भामिनि ।
अहं तामानयिष्यामि तं हत्वा राक्षसाधमम् ॥ ४० ॥
स्थानं दर्शय मे तस्य यदि जानासि सुव्रते ।
राज्ञे निवेदितं किं वा तत्पित्रे चातिदुःखिता ॥ ४१ ॥
यस्यैषा वल्लभा पुत्री न किं जानाति तां हृताम् ।
नोद्यमः किं कृतस्तेन ततो मोचनहेतवे ॥ ४२ ॥
बन्दीकृतां सुतां ज्ञात्वा कथं तिष्ठति सुस्थिरः ।
असमर्थो नृपः किं वा कारणं ब्रूहि सत्वरम् ॥ ४३ ॥
त्वया मेऽपहृतं चेतो गुणानुक्त्वा ह्यमानुषान् ।
सख्याः पङ्कजपत्राक्षि कृतः कामवशो भृशम् ॥ ४४ ॥
कदा पश्यामि तां कान्तां मोचयित्वातिसङ्कटात् ।
इति मे हृदयं चाद्य करोत्यतिमनोरथम् ॥ ४५ ॥
ब्रूहि मे गमनोपायं पुरे तस्यातिदुर्गमे ।
कथं त्वमागता तस्मात्सङ्कटादत्र तद्वद ॥ ४६ ॥
यशोवत्युवाच
बालभावान्मया मन्त्रो भगवत्या विशांपते ।
प्राप्तोऽस्ति ब्राह्मणात्सिद्धात्सबीजध्यानपूर्वकः ॥ ४७ ॥
तत्रावस्थितया राजन् मया चित्ते विचारितम् ।
आराधयामि सततं चण्डिकां चण्डविक्रमाम् ॥ ४८ ॥
सा देवी सेविता कामं बन्धमोक्षं करिष्यति ।
भक्तानुकम्पिनी शक्तिः समर्था सर्वसाधने ॥ ४९ ॥
या विश्वं सृजते शक्त्या पालयत्येव सा पुनः ।
कल्पान्ते संहरत्येव निराकारा निराश्रया ॥ ५० ॥
इति सञ्चिन्त्य मनसा देवीं विश्वेश्वरीं शिवाम् ।
ध्यात्वा रक्ताम्बरां सौम्यां सुरक्तनयनां हृदि ॥ ५१ ॥
संस्मृत्य मनसा रूपं मन्त्रजाप्यपराभवम् ।
उपासिता मया देवी मासमेकं समाधिना ॥ ५२ ॥
स्वप्ने मम समायाता भक्तिभावेन तोषिता ।
मामाहामृतया वाचा किं सुप्तासीति चण्डिका ॥ ५३ ॥
उत्तिष्ठ याहि तरसा गङ्गातीरं मनोहरम् ।
आगमिष्यति तत्रासौ हैहयो नृपपुङ्गवः ॥ ५४ ॥
एकवीरो महाबाहुः सर्वशत्रुविमर्दनः ।
दत्तात्रेयेण मन्मन्त्रो महाविद्याभिधः परः ॥ ५५ ॥
दत्तोऽस्मै सोऽपि सततं मामुपास्तेऽतिभक्तितः ।
मय्यासक्तमतिर्नित्यं मम पूजापरायणः ॥ ५६ ॥
मामेव सर्वभूतेषु ध्यायन्नास्ते च मत्परः ।
स ते दुःखविनाशं वै करिष्यति महामतिः ॥ ५७ ॥
मासुतो विहरंस्तत्र तव त्राता भविष्यति ।
हत्वा तं राक्षसं घोरं मोचयिष्यति मानिनीम् ॥ ५८ ॥
एकावलीमेकवीरः सर्वशास्त्रविशारदः ।
पश्चात्सैव पतिः कार्यस्त्वया राजसुतः शुभः ॥ ५९ ॥
इत्युक्त्वान्तर्दधे देवी प्रबुद्धाहं तदैव हि ।
कथितं स्वप्नवृत्तान्तं देव्याश्चाराधनं तथा ॥ ६० ॥
प्रसन्नवदना जाता श्रुत्वा सा कमलेक्षणा ।
विशेषेण च सन्तुष्टा मामुवाच शुचिस्मिता ॥ ६१ ॥
गच्छ तत्र त्वरायुक्ता कुरु कार्यं मम प्रिये ।
सत्यवाक्या भगवती सावां मोक्षं विधास्यति ॥ ६२ ॥
इत्याज्ञप्ता तया चाहं सख्या वै प्रेमयुक्तया ।
मत्वोपसरणं युक्तं तस्मात्स्थानात्तदा नृप ॥ ६३ ॥
चालिताहं ततः शीघ्रं महादेवीप्रसादतः ।
मार्गज्ञानं शीघ्रगतिर्मया प्राप्ता नृपात्मज ॥ ६४ ॥
इत्येतत्कथितं सर्वं कारणं मम दुःखजम् ।
कस्त्वं कस्य सुतश्चेति वद वीर यथा तथा ॥ ६५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥