देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः २४

अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्

राजोवाच
भगवंस्त्वन्मुखाम्भोजाच्च्युतं दिव्यकथारसम् ।
न तृप्तिमधिगच्छामि पिबंस्तु सुधया समम् ॥ १ ॥
विचित्रमिदमाख्यानं कथितं भवता मम ।
हैहयानां समुत्पत्तिर्विस्तराद्विस्मयप्रदा ॥ २ ॥
परं कौतूहलं मेऽत्र यद्विष्णुः कमलापतिः ।
देवदेवो जगन्नाथः सृष्टिस्थित्यन्तकारकः ॥ ३ ॥
सोऽप्यश्वभावमापन्नो भगवान्हरिरच्युतः ।
परतन्त्रः कथं जातः स्वतन्त्रः पुरुषोत्तमः ॥ ४ ॥
एतन्मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् ।
सर्वज्ञस्त्वं मुनिश्रेष्ठ ब्रूहि वृत्तान्तमद्‌भुतम् ॥ ५ ॥
व्यास उवाच
शृणु राजन् प्रवक्ष्यामि सन्देहस्यास्य निर्णयम् ।
यथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात् ॥ ६ ॥
ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः ।
सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः ॥ ७ ॥
स चैकदा मुनिश्रेष्ठो विचरन्पृथिवीमिमाम् ।
वादयन्महतीं वीणां स्वरतानसमन्विताम् ॥ ८ ॥
बृहद्‌रथन्तरादीनां साम्नां भेदाननेकशः ।
गायन्गायत्रममृतं सम्प्राप्तोऽथ ममाश्रमम् ॥ ९ ॥
शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् ।
निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा ॥ १० ॥
तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् ।
अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम् ॥ ११ ॥
अर्घ्यपाद्यविधिं कृत्वा तस्यासनस्थितस्य च ।
उपविष्टः समीपेऽहं मुनेरमिततेजसः ॥ १२ ॥
दृष्ट्वा विश्रमिणं शान्तं नारदं ज्ञानपारदम् ।
तमपृच्छमहं राजन् यत्पृष्टोऽहं त्वयाधुना ॥ १३ ॥
असारेऽस्मिंस्तु संसारे प्राणिनां किं सुखं मुने ।
न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्‌क्वचित् ॥ १४ ॥
द्वीपे जातो जनन्याहं संत्यक्तस्तत्क्षणादपि ।
अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः ॥ १५ ॥
तपस्तप्तं मया चोग्रं पर्वते बहुवार्षिकम् ।
पुत्रकामेन देवर्षे शङ्करः समुपासितः ॥ १६ ॥
ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः ।
पाठितस्तु मया सम्यग्वेदानां सार आदितः ॥ १७ ॥
स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् ।
लोकाल्लोकान्तरं साधो वचनात्तव बोधितः ॥ १८ ॥
ततोऽहं पुत्रसन्तप्तस्त्यक्त्वा मेरुं महागिरिम् ।
मातरं मनसा कृत्वा सम्प्राप्तः कुरुजाङ्गलम् ॥ १९ ॥
पुत्रस्नेहादतितरां कृशाङ्गः शोकसंयुतः ।
जानन्मिथ्येति संसारं मायापाशनियन्त्रितः ॥ २० ॥
ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् ।
स्थितोऽत्रैवाश्रमं कृत्वा सरस्वत्यास्तटे शुभे ॥ २१ ॥
शन्तनुः स्वर्गतिं प्राप्तो विधुरा जननी स्थिता ।
पुत्रद्वययुता साध्वी भीष्मेण प्रतिपालिता ॥ २२ ॥
चित्राङ्गदः कृतो राजा गङ्गापुत्रेण धीमता ।
कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः ॥ २३ ॥
ततः सत्यवती माता निमग्ना शोकसागरे ।
चित्राङ्गदं मृतं पुत्रं रुरोद भृशमातुरा ॥ २४ ॥
सम्प्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् ।
आश्वासिता मयात्यर्थं भीष्मेण च महात्मना ॥ २५ ॥
विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः ।
कृतो भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह ॥ २६ ॥
काशिराजसुते रम्ये विजित्य पृथिवीपतीन् ।
भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते ॥ २७ ॥
सत्यवत्यै शुभे काले विवाहः परिकल्पितः ।
भ्रातुर्विचित्रवीर्यस्य तदाहं सुखितोऽभवम् ॥ २८ ॥
पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् ।
अनपत्यो युवा धन्वी माता मे दुःखिताभवत् ॥ २९ ॥
काशिराजसुते द्वे तु मृतं दृष्ट्वा पतिं तदा ।
पतिव्रताधर्मपरे भगिन्यौ सम्बभूवतुः ॥ ३० ॥
ते ऊचतुः सतीं श्वश्रूं रुदतीं भृशदुःखिताम् ।
पतिना सहगामिन्यौ भविष्यावो हुताशने ॥ ३१ ॥
पुत्रेण सह ते श्वश्रु स्वर्गे गत्वाथ नन्दने ।
सुखेन विहरिष्यावः पतिना सह संयुते ॥ ३२ ॥
निवारिते तदा मात्रा वध्वौ तस्मान्महोद्यमात् ।
स्नेहभावं समाश्रित्य भीष्मस्य वचनात्तदा ॥ ३३ ॥
गाङ्गेयेन च मात्रा मे सम्मन्त्र्य च परस्परम् ।
कृत्वौर्ध्वदैहिकं सर्वं संस्मृतोऽहं गजाह्वये ॥ ३४ ॥
स्मृतमात्रस्तु मात्रा वै ज्ञात्वा भावं मनोगतम् ।
तरसैवागतश्चाहं नगरं नागसाह्वयम् ॥ ३५ ॥
प्रणम्य मातरं मूर्ध्ना संस्थितोऽथ कृताञ्जलिः ।
तामब्रवं सुतप्ताङ्गीं पुत्रशोकेन कर्शिताम् ॥ ३६ ॥
मातस्त्वया किमाहूतो मनसाहं तपस्विनि ।
आज्ञापय महत्कार्ये दासोऽस्मि करवाणि किम् ॥ ३७ ॥
त्वं मे तीर्थं परं मातर्देवश्च प्रथितः परः ।
आगतश्चिन्तितश्चात्र ब्रूहि कृत्यं तव प्रियम् ॥ ३८ ॥
व्यास उवाच
इत्युक्त्वाहं स्थितस्तत्र मातुरग्रे यदा मुने ।
तदा सा मामुवाचेदं पश्यन्ती भीष्ममन्तिके ॥ ३९ ॥
पुत्र तेऽद्य मृतो भ्राता पीडितो राजयक्ष्मणा ।
तेनाहं दुःखिता जाता वंशच्छेदभयादिह ॥ ४० ॥
तस्मात्त्वमद्य मेधाविन् मयाहूतः समाधिना ।
गाङ्गेयस्य मतेनात्र पाराशर्यार्थसिद्धये ॥ ४१ ॥
कुलं स्थापय नष्टं त्वं शन्तनोर्नामकारणात् ।
रक्ष मां दुःखतः कृष्ण वंशच्छेदोद्‌भवाद्‌द्रुतम् ॥ ४२ ॥
काशिराजसुते भार्ये भ्रातुस्तव यवीयसः ।
साधोर्विचित्रवीर्यस्य रूपयौवनभूषिते ॥ ४३ ॥
ताभ्यां सङ्गम्य मेधाविन् पुत्रोत्पादनकं कुरु ।
रक्षस्व भारतं वंशं नात्र दोषोऽस्ति कर्हिचित् ॥ ४४ ॥
व्यास उवाच
इति मातुर्वचः श्रुत्वा जातश्चिन्तातुरो ह्यहम् ।
लज्जयाऽऽकुलचित्तस्तामब्रवं विनयानतः ॥ ४५ ॥
मातः पापाधिकं कर्म परदाराभिमर्शनम् ।
ज्ञात्वा धर्मपथं सम्यक्करोमि कथमादरात् ॥ ४६ ॥
तथा यवीयसो भ्रातुर्वधूः कन्या प्रकीर्तिता ।
व्यभिचारं कथं कुर्यामधीत्य निगमानहम् ॥ ४७ ॥
अन्यायेन न कर्तव्यं सर्वथा कुलरक्षणम् ।
न तरन्ति हि संसारात्पितरः पापकारिणः ॥ ४८ ॥
लोकानामुपदेष्टा यः पुराणानां प्रवर्तकः ।
स कथं कुत्सितं कर्म ज्ञात्वा कुर्यान्महाद्‌भुतम् ॥ ४९ ॥
पुनरुक्तो ह्यहं मात्रा रुदत्या भृशमन्तिके ।
पुत्रशोकातितप्ता या वंशरक्षणकाम्यया ॥ ५० ॥
पाराशर्य न ते दोषो वचनान्मम पुत्रक ।
गुरूणां वचनं तथ्यं सदोषमपि मानवैः ॥ ५१ ॥
कर्तव्यमविचार्यैव शिष्टाचारप्रमाणतः ।
वचनं कुरु मे पुत्र न ते दोषोऽस्ति मानद ॥ ५२ ॥
पुत्रस्य जननं कृत्वा सुखिनी कुरु मातरम् ।
विशेषेण तु सन्तप्तां मग्नां शोकार्णवे सुत ॥ ५३ ॥
इति तां ब्रुवतीं श्रुत्वा तदा सुरनदीसुतः ।
मामुवाच विशेषज्ञः सूक्ष्मधर्मस्य निर्णये ॥ ५४ ॥
द्वैपायन विचारोऽत्र न कर्तव्यस्त्वयानघ ।
मातुर्वचनमादाय विहरस्व यथासुखम् ॥ ५५ ॥

व्यास उवाच
इति तस्य वचः श्रुत्वा मातुश्च प्रार्थनं तथा ।
निःशङ्कोऽहं तदा जातः कार्ये तस्मिञ्जुगुप्सिते ॥ ५६ ॥
अम्बिकायां प्रवृत्तोऽहमृतुमत्यां मुदा निशि ।
मयि विमनसायां तु तापसे कुत्सिते भृशम् ॥ ५७ ॥
शप्ता मया सा सुश्रोणी प्रसङ्गे प्रथमे तदा ।
अन्धस्ते भविता पुत्रो यतो नेत्रे निमीलिते ॥ ५८ ॥
द्वितीयेऽह्नि मुनिश्रेष्ठ पृष्टो मात्रा रहः पुनः ।
भविष्यति सुतः पुत्र काशिराजसुतोदरे ॥ ५९ ॥
मयोक्ता जननी तत्र व्रीडानम्रमुखेन ह ।
विनेत्रो भविता पुत्रो मातः शापान्ममैव हि ॥ ६० ॥
तया निर्भर्त्सितस्तत्र कठोरवचसा मुने ।
कथं पुत्र त्वया शप्ता पुत्रस्तेऽन्धो भविष्यति ॥ ६१ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे
अम्बिकायां नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥