देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ०८

इक्ष्वाकुवंशवर्णनम्

जनमेजय उवाच -
संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे ।
ब्रह्मलोकं गतो राजा रेवतीसंयुतः स्वयम् ॥ १ ॥
मया पूर्वं श्रुतं कृत्स्नं ब्राह्मणेभ्यः कथान्तरे ।
ब्राह्मणो ब्रह्मविच्छान्तो ब्रह्मलोकमवाप्नुयात् ॥ २ ॥
राजा कथं गतस्तत्र रेवतीसंयुतः स्वयम् ।
सत्यलोकेऽतिदुष्प्रापे भूर्लोकादिति संशयः ॥ ३ ॥
मृतः स्वर्गमवाप्नोति सर्वशास्त्रेषु निर्णयः ।
(मानुषेण तु देहेन ब्रह्मलोके गतिः कथम् । )
स्वर्गात्पुनः कथं लोके मानुषे जायते गतिः ॥ ४ ॥
एतन्मे संस्ययं विद्वंश्छेत्तुमर्हसि साम्प्रतम् ।
यथा राजा गतस्तत्र प्रष्टुकामः प्रजापतिम् ॥ ५ ॥
व्यास उवाच -
मेरोस्तु शिखरे राजन् सर्वे लोकाः प्रतिष्ठिताः ।
इन्द्रलोको वह्निलोको या च संयमिनी पुरी ॥ ६ ॥
तथैव सत्यलोकश्च कैलासश्च तथा पुनः ।
वैकुण्ठश्च पुनस्तत्र वैष्णवं पदमुच्यते ॥ ७ ॥
यथार्जुनः शक्रलोके गतः पार्थो धनुर्धरः ।
पञ्चवर्षाणि कौन्तेयः स्थितस्तत्र सुरालये ॥ ८ ॥
मानुषेणैव देहेन वासवस्य च सन्निधौ ।
तथैवान्येऽपि भूपालाः ककुत्स्थप्रमुखाः किल ॥ ९ ॥
स्वर्लोकगतयः पश्चाद्दैत्याश्चापि महाबलाः ।
जित्वेन्द्रसदनं प्राप्य संस्थितास्तत्र कामतः ॥ १० ॥
महाभिषः पुरा राजा ब्रह्मलोकं गतः स्वराट् ।
आगच्छन्तीं नृपो गङ्गामपश्यच्चातिसुन्दरीम् ॥ ११ ॥
वायुनाम्बरमस्यास्तु दैवादपहृतं नृप ।
किञ्चिन्नग्ना नृपेणाथ दृष्टा सा सुन्दरी तथा ॥ १२ ॥
स्मितं चकार कामार्तः सा च किञ्चिज्जहास वै ।
ब्रह्मणा तौ तदा दृष्टौ शप्तौ जातौ वसुन्धराम् ॥ १३ ॥
वैकुण्ठेऽपि सुराः सर्वे पीडिता दैत्यदानवैः ।
गत्वा हरिं जगन्नाथमस्तुवन्कमलापतिम् ॥ १४ ॥
सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तम ।
गम्याः सर्वेऽपि लोकाः स्युर्मानवानां नराधिप ॥ १५ ॥
अवश्यं कृतपुण्यानां तापसानां नराधिप ।
पुण्यसद्‌भाव एवात्र गमने कारणं नृप ॥ १६ ॥
तथैव यजमानानां यज्ञेन भावितात्मनाम् ।
जनमेजय उवाच -
रेवतो रेवतीं कन्यां गृहीत्वा चारुलोचनाम् ॥ १७ ॥
ब्रह्मलोकं गतः पश्चात्किं कृतं तेने भूभुजा ।
ब्रह्मणा किं समादिष्टं कस्मै दत्ता सुता पुनः ॥ १८ ॥
तत्सर्वं विस्तराद्‌बह्मन् कथय त्वं ममाधुना ।
व्यास उवाच -
निशामय महीपाल राजा रेवतकः किल ॥ १९ ॥
पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं गतो यदा ।
आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम् ॥ २० ॥
शृण्वन्नतृप्यद्‌धृष्टात्मा सभायां तु सकन्यकः ।
समाप्ते तत्र गान्धर्वे प्रणम्य परमेश्वरम् ॥ २१ ॥
दर्शयित्वा सुतां तस्मै स्वाभिप्रायं न्यवेदयत् ।
राजोवाच -
वरं कथय देवेश कन्येयं मम पुत्रिका ॥ २२ ॥
देया कस्मै मया ब्रह्मन् प्रष्टुं त्वां समुपागतः ।
बहवो राजपुत्रा मे वीक्षिताः कुलसम्भवाः ॥ २३ ॥
कस्मिंश्चिन्मे मनः कामं नोपतिष्ठति चञ्चलम् ।
तस्मात्त्वां देवदेवेश प्रष्टुमत्रागतोऽस्म्यहम् ॥ २३ ॥
तदाज्ञापय सर्वज्ञ योग्यं राजसुतं वरम् ।
कुलीनं बलवन्तं च सर्वलक्षणसंयुतम् ॥ २५ ॥
दातारं धर्मशीलं च राजपुत्रं समादिश ।
व्यास उवाच -
तदाकर्ण्य जगत्कर्ता वचनं नृपतेस्तदा ॥ २६ ॥
तमुवाच हसन्वाक्यं दृष्ट्वा कालस्य पर्ययम् ।
ब्रह्मोवाच -
राजपुत्रास्त्वया राजन् वरा ये हृदये कृताः ॥ २७ ॥
ग्रस्ताः कालेन ते सर्वे सपितृपौत्रबान्धवाः ।
सप्तविंशतिमोऽद्यैव द्वापरस्तु प्रवर्तते ॥ २८ ॥
वंशजास्ते मृताः सर्वे पुरी दैत्यैर्विलुण्ठिता ।
सोमवंशोद्‌भवस्तत्र राजा राज्यं प्रशास्ति हि ॥ २९ ॥
उग्रसेन इति ख्यातो मथुराधिपतिः किल ।
ययातिवंशसम्भूतो राजा माथुरमण्डले ॥ ३० ॥
उग्रसेनात्मजः कंसः सुरद्वेषी महाबलः ।
दैत्यांशः पितरं सोऽपि कारागारं न्यवेशयत् ॥ ३१ ॥
स्वयं राज्यं चकारासौ नृपाणां मदगर्वितः ।
मेदिनी चातिभारार्ता ब्रह्माणं शरणं गता ॥ ३२ ॥
दुष्टराजन्यसैन्यायां भारेणातिसमाकुला ।
अंशावतरणं तत्र गदितं सुरसत्तमैः ॥ ३३ ॥
वासुदेवः समुत्पन्नः कृष्णः कमललोचनः ।
देवक्यां देवरूपिण्यां योऽसौ नारायणो मुनिः ॥ ३४ ॥
तपश्चचार दुःसाध्यं धर्मपुत्रः सनातनः ।
गङ्गातीरे नरसखः पुण्ये बदरिकाश्रमे ॥ ३५ ॥
सोऽवतीर्णो यदुकुले वासुदेवोऽपि विश्रुतः ।
तेनासौ निहतः पापः कंसः कृष्णेन सत्तम ॥ ३६ ॥
उग्रसेनाय राज्यं वै दत्तं हत्वा खलं सुतम् ।
कंसस्य श्वशुरः पापो जरासन्धो महाबलः ॥ ३७ ॥
आगत्य मथुरां क्रोधाच्चकार सङ्गरं मुदा ।
कृष्णेनासौ जितः संख्ये जरासन्धो महाबलः ॥ ३८ ॥
प्रेषयामास युद्धाय सबलं यवनं ततः ।
श्रुत्वाऽऽयान्तं महाशूरं ससैन्यं यवनाधिपम् ॥ ३९ ॥
[कृष्णस्तु मथुरां त्यक्त्वा पुरीं द्वारावतीमगात् ।
प्रभग्नां तां पुरीं कृष्णः शिल्पिभिः सह सङ्गतैः ॥
कारयामास दुर्गाढ्यां हट्टशालाविमण्डिताम् ।
जीर्णोद्धारं पुरः कृत्वा वासुदेवः प्रतापवान् ।
उग्रसेनं च राजानं चकार वशवर्तिनम् ॥]
यादवान्स्थापयामास द्वारवत्यां यदूत्तमः ।
वासुदेवस्तु तत्राद्य वर्तते बान्धवैः सह ॥ ४० ॥
तास्याग्रतः स विख्यातो बलदेवो हलायुधः ।
शेषांशो मुसली वीरो वरोऽस्तु तव सम्मतः ॥ ४१ ॥
सङ्कर्षणाय देह्याशु कन्यां कमललोचनाम् ।
रेवतीं बलभद्राय विवाहविधिना ततः ॥ ४२ ॥
दत्त्वा पुत्रीं नृपश्रेष्ठ गच्छ त्वं बदरिकाश्रमम् ।
तपस्तप्तुं सुरारामं पावनं कामदं नृणाम् ॥ ४३ ॥
व्यास उवाच -
इति राजा समादिष्टो ब्रह्मणा पद्मयोनिना ।
जगाम तरसा राजन् द्वारकां कन्ययान्वितः ॥ ४४ ॥
ददौ तां बलदेवाय कन्यां वै शुभलक्षणाम् ।
ततस्तप्त्वा तपस्तीव्रं नृपतिः कालपर्यये ॥ ४५ ॥
जगाम त्रिदशावासं त्यक्त्वा देहं सरित्तटे ।
राजोवाच -
भगवन्महदाश्चर्यं भवता समुदाहृतम् ॥ ४६ ॥
रेवतस्तु स्थितस्तत्र ब्रह्मलोके सुतार्थतः ।
युगानां तु गतं तत्र शतमष्टोत्तरं किल ॥ ४७ ॥
कन्या वृद्धा न सञ्जाता राजा वातितरां नु किम् ।
एतावन्तं तथा कालमायुः पूर्णं तयोः कथम् ॥ ४८ ॥
व्यास उवाच -
न जरा क्षुपित्पासा वा न मृत्युर्न भयं पुनः ।
न तु ग्लानिः प्रभवति ब्रह्मलोके सदानघ ॥ ४९ ॥
मेरुं गतस्य शर्यातेः सन्तती राक्षसैर्हता ।
गताः कुशस्थलीं त्यक्त्वा भयभीता इतस्ततः ॥ ५० ॥
मनोश्च क्षुवतः पुत्र उत्पन्नो वीर्यवत्तरः ।
इक्ष्वाकुरिति विख्यातः सूर्यवंशकरस्तु सः ॥ ५१ ॥
वंशार्थं तप आतिष्ठद्देवीं ध्यात्वा निरन्तरम् ।
नारदस्योपदेशेन प्राप्य दीक्षामनुत्तमाम् ॥ ५२ ॥
तस्य पुत्रशतं राजन्निक्ष्वाकोरिति विश्रुतम् ।
विकुक्षिः प्रथमस्तेषां बलवीर्यसमन्वितः ॥ ५३ ॥
अयोध्यायां स्थितो राजा इक्ष्वाकुरिति विश्रुतः ।
शकुनिप्रमुखाः पुत्रा पञ्चाशद्‌बलवत्तराः ॥ ५४ ॥
उत्तरापथदेशस्य रक्षितारः कृताः किल ।
दक्षिणस्यां तथा राजन्नादिष्टास्तेन ते सुताः ॥ ५५ ॥
चत्वारिंशत्तथाष्टौ च रक्षणार्थं महात्मना ।
अन्यौ द्वौ संस्थितौ पार्श्वे सेवार्थं तस्य भूपतेः ॥ ५६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे इक्ष्वाकुवंशवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥