प्रमुखा विकल्पसूचिः उद्घाट्यताम्

देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः १२

< देवीभागवतपुराणम्‎ | स्कन्धः ०७

त्रिशङ्कूपाख्यानवर्णनम्

एवं प्रबोधितः पित्रा त्रिशङ्कुः प्रणतो नृपः ।
तथेति पितरं प्राह प्रेमगद्‌गदया गिरा ॥ १ ॥
विप्रानाहूय मन्त्रज्ञान्वेदशास्त्रविशारदान् ।
अभिषेकाय सम्भारान् कारयामास सत्वरम् ॥ २ ॥
सलिलं सर्वतीर्थानां समानाय्य विशांपतिः ।
प्रकृतीश्च समाहूय सामन्तान्भूपतींस्तथा ॥ ३ ॥
पुण्येऽह्नि विधिवत्तस्मै ददावासनमुत्तमम् ।
अभिषिच्य सुतं राज्ये त्रिशङ्कुं विधिवत्पिता ॥ ४ ॥
तृतीयमाश्रमं पुण्यं जग्राह भार्यया युतः ।
वने त्रिपथगाकूले चचार दुश्चरं तपः ॥ ५ ॥
काले प्राप्ते ययौ स्वर्गं पूजितस्त्रिदशैरपि ।
इन्द्रासनसमीपस्थो रराज रविवत्सदा ॥ ६ ॥
राजोवाच पूर्वं भगवता प्रोक्तं कथायोगेन साम्प्रतम् ।
सत्यव्रतो वसिष्ठेन शप्तो दोग्ध्रीवधात्किल ॥ ७ ॥
कुपितेने पिशाचत्वं प्रापितो गुरुणा ततः ।
कथं मुक्तः पिशाचत्वादित्येतत्संशयः प्रभो ॥ ८ ॥
न सिंहासनयोग्यो हि भवेच्छापसमन्वितः ।
मुनिना मोचितः शापात्केनान्येन च कर्मणा ॥ ९ ॥
एतन्मे ब्रूहि विप्रर्षे शापमोक्षणकारणम् ।
आनीतस्तु कथं पित्रा स्वगृहे तादृशाकृतिः ॥ १० ॥
व्यास उवाच -
वसिष्ठेन च शप्तोऽसौ सद्यः पैशाचतां गतः ।
दुर्वेषश्चातिदुर्धर्षः सर्वलोकभयङ्करः ॥ ११ ॥
यदैवोपासिता देवी भक्त्या सत्यव्रतेन ह ।
तया प्रसन्नया राजन् दिव्यदेहः कृतः क्षणात् ॥ १२ ॥
पिशाचत्वं गतं तस्य पापं चैव क्षयं गतम् ।
विपाप्मा चातितेजस्वी सम्भूतस्तत्कृपामृतात् ॥ १३ ॥
वसिष्ठोऽपि प्रसन्नात्मा जातः शक्तिप्रसादतः ।
पितापि च बभूवास्य प्रेमयुक्तस्त्वनुग्रहात् ॥ १४ ॥
राज्यं शशास धर्मात्मा मृते पितरि पार्थिवः ।
ईजे च विविधैर्यज्ञैर्देवदेवीं सनातनीम् ॥ १५ ॥
तस्य पुत्रो बभूवाथ हरिश्चन्द्रः सुशोभनः ।
लक्षणैः शास्त्रनिर्दिष्टैः संयुतश्चातिसुन्दरः ॥ १६ ॥
युवराजं सुतं कृत्वा त्रिशङ्कुः पृथिवीपतिः ।
मानुषेण शरीरेण स्वर्गं भोक्तुं मनो दधे ॥ १७ ॥
वसिष्ठस्याश्रमं गत्वा प्रणम्य विधिवन्नृपः ।
उवाच वचनं प्रीतः कृताञ्जलिपुटस्तदा ॥ १८ ॥
राजोवाच -
ब्रह्मपुत्र महाभाग सर्वमन्त्रविशारद ।
विज्ञप्तिं मे सुमनसा श्रोतुमर्हसि तापस ॥ १९ ॥
इच्छा मेऽद्य समुत्पन्ना स्वर्गलोकसुखाय च ।
अनेनैव शरीरेण भोगान्भोक्तुममानुषान् ॥ २० ॥
अप्सरोभिश्च संवासः क्रीडितुं नन्दने वने ।
देवगन्धर्वगानं च श्रोतव्यं मधुरं किल ॥ २१ ॥
याजय त्वं मखेनाशु तादृशेन महामुने ।
यथानेन शरीरेण वसे लोकं त्रिविष्टपम् ॥ २२ ॥
समर्थोऽसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना ।
प्रापयाशु मखं कृत्वा देवलोकं दुरासदम् ॥ २३ ॥
वसिष्ठ उवाच -
राजन् मानुषदेहेन स्वर्गे वासः सुदुर्लभः ।
मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा ॥ २४ ॥
तस्माद्‌ बिभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् ।
अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः ॥ २५ ॥
कुरु यज्ञान्महाभाग मृतः स्वर्गमवाप्स्यसि ।
व्यास उवाच -
इत्याकर्ण्य वचस्तस्य राजा परमदुर्मनाः ॥ २६ ॥
उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम् ।
न त्वं याजयसे ब्रह्मन् गर्वावेशाच्च मां यदि ॥ २७ ॥
अन्यं पुरोहितं कृत्वा यक्ष्येऽहं किल साम्प्रतम् ।
तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः ॥ २८ ॥
शशाप भूपतिं चेति चाण्डालो भव दुर्मते ।
अनेन त्वं शरीरेण श्वपचो भव सत्वरम् ॥ २९ ॥
स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित ।
ब्रह्मपत्‍नीहरोच्छिन्न धर्ममार्गविदूषक ॥ ३० ॥
न ते स्वर्गगतिः पाप मृतस्यापि कथञ्चन ।
व्यास उवाच -
इत्युक्तो गुरुणा राजंस्त्रिशङ्कुस्तत्क्षणादपि ॥ ३१ ॥
तत्र तेन शरीरेण बभूव श्वपचाकृतिः ।
कुण्डलेऽश्ममये वापि जाते तस्य च तत्क्षणात् ॥ ३२ ॥
देहे चन्दनगन्धश्च विगन्धो ह्यभवत्तदा ।
नीलवर्णेऽथ सञ्जाते दिव्ये पीताम्बरे तनौ ॥ ३३ ॥
राजवर्णोऽभवद्देहः शापात्तस्य महात्मनः ।
शक्त्युपासकरोषेण फलमेतदभून्नृप ॥ ३४ ॥
तस्माच्छ्रीशक्तिभक्तो हि नावमान्यः कदाचन ।
गायत्रीजपनिष्ठो हि वसिष्ठो मुनिसत्तमः ॥ ३५ ॥
दृष्ट्वा निन्द्यं निजं देहं राजा दुःखमवाप्तवान् ।
न जगाम गृहे दीनो वनमेवाभितो ययौ ॥ ३६ ॥
चिन्तयामास दुःखार्तास्त्रिशङ्कुः शोकविह्वलः ।
किं करोमि क्व गच्छामि देहो मेऽतीव निन्दितः ॥ ३७ ॥
कर्तव्यं नैव पश्यामि येन मे दुःखसंक्षयः ।
गृहे गच्छामि चेत्पुत्रः पीडितोऽद्य भविष्यति ॥ ३८ ॥
भार्यापि श्वपचं दृष्ट्वा नाङ्‌गीकारं करिष्यति ।
सचिवा नादरिष्यन्ति वीक्ष्य मामीदृशं पुनः ॥ ३९ ॥
ज्ञातयो बन्धुवर्गश्च सङ्गतो न भजिष्यति ।
सर्वैस्तक्तस्य मे नूनं जीवितान्मरणं वरम् ॥ ४० ॥
विषं वा भक्षयित्वाद्य पतित्वा वा जलाशये ।
कृत्वा वा कण्ठपाशं च देहत्यागं करोम्यहम् ॥ ४१ ॥
अग्नौ वा ज्वलिते देहं जुहोमि विधिवद्‌ बलात् ।
कृत्वा वानशनं प्राणांस्त्यजामि दूषितान्भृशम् ॥ ४२ ॥
आत्महत्या भवेन्नूनं पुनर्जन्मनि जन्मनि ।
श्वपचत्वं च शापश्च हत्यादोषाद्‌भवेदपि ॥ ४३ ॥
पुनर्विचार्य भूपालश्चेतसा समचिन्तयत् ।
आत्महत्या न कर्तव्या सर्वथैव मयाधुना ॥ ४४ ॥
भोक्तव्यं स्वकृतं कर्म देहेनानेन कानने ।
भोगेनास्य विपाकस्य भविता सर्वथा क्षयः ॥ ४५ ॥
प्रारब्धकर्मणां भोगादन्यथा न क्षयो भवेत् ।
तस्मान्मयात्र भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ४६ ॥
कुर्वन्पुण्याश्रमाभ्याशे तीर्थानां सेवनं तथा ।
स्मरणं चाम्बिकायास्तु साधूनां सेवनं तथा ॥ ४७ ॥
एवं कर्मक्षयं नूनं करिष्यामि वने वसन् ।
भाग्ययोगात्कदाचित्तु भवेत्साधुसमागमः ॥ ४८ ॥
इति सञ्चिन्त्य मनसा त्यक्त्वा स्वनगरं नृपः ।
गङ्गातीरे गतः कामं शोचंस्तत्रैव संस्थितः ॥ ४९ ॥
हरिश्चन्द्रस्तदा ज्ञात्वा पितुः शापस्य कारणम् ।
दुःखितः सचिवांस्तत्र प्रेषयामास पार्थिवः ॥ ५० ॥
सचिवास्तत्र गत्वाऽऽशु तमूचुः प्रश्रयान्विताः ।
प्रणम्य श्वपचाकारं निःश्वसन्तं मुहुर्मुहुः ॥ ५१ ॥
राजन् पुत्रेण ते नूनं प्रेषितान्समुपागतान् ।
अवेहि सचिवांस्त्वं नो हरिश्चन्द्राज्ञया स्थितान् ॥ ५२ ॥
युवराजसुतः प्राह यत्तच्छृणु नराधिप ।
आनयध्वं नृपं यूयं सम्मान्य पितरं मम ॥ ५३ ॥
तस्माद्‌राजन् समागच्छ राज्यं प्रति गतव्यथः ।
सेवां सर्वे करिष्यन्ति सचिवाश्च प्रजास्तथा ॥ ५४ ॥
गुरुं प्रसादयिष्यामः स यथा तु दयेत वै ।
प्रसन्नोऽसौ महातेजा दुःखस्यान्तं करिष्यति ॥ ५५ ॥
इति पुत्रेण ते राजन् कथितं बहुधा किल ।
तस्माद्‌ गमनमेवाशु रोचतां निजसद्मनि ॥ ५६ ॥
व्यास उवाच -
इति तेषां नृपः श्रुत्वा भाषितं श्वपचाकृतिः ।
स्वगृहं गमनायासौ न मतिं कृतवानतः ॥ ५७ ॥
तानुवाच तदा वाक्यं व्रजन्तु सचिवाः पुरम् ।
गत्वा पुरं महाभागा ब्रुवन्तु वचनाच्च मे ॥ ५८ ॥
नागमिष्याम्यहं पुत्र कुरु राज्यमतन्द्रितः ।
मानयन्ब्राह्मणान्देवान्यजन्यज्ञैरनेकशः ॥ ५९ ॥
नाहं श्वपचवेषेण गर्हितेन महात्मभिः ।
आगमिष्याम्ययोध्यायां सर्वे गच्छन्तु मा चिरम् ॥ ६० ॥
पुत्रं सिंहासने स्थाप्य हरिश्चन्द्रं महाबलम् ।
कुर्वन्तु राज्यकर्माणि यूयं तत्र ममाज्ञया ॥ ६१ ॥
इत्यादिष्टास्ततस्ते तु रुरुदुश्चातुरा भृशम् ।
सचिवा निर्ययुस्तूर्णं नत्वा तं च वनाश्रमात् ॥ ६२ ॥
अयोध्यायामुपागत्य पुण्येऽह्नि विधिपूर्वकम् ।
अभिषेकं तदा चक्रुर्हरिश्चन्द्रस्य मूर्ध्नि ते ॥ ६३ ॥
अभिषिक्तस्तु तेजस्वी सचिवैश्च नृपाज्ञया ।
राज्यं चकार धर्मिष्ठः पितरं चिन्तयन्भृशम् ॥ ६४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कूपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥