प्रमुखा विकल्पसूचिः उद्घाट्यताम्

वसिष्ठविश्वामित्रपणवर्णनम्

व्यास उवाच -
रुदन्तं बालकं वीक्ष्य विश्वामित्रो दयातुरः ।
शुनःशेपमुवाचेदं गत्वा पार्श्वेऽतिदुःखितम् ॥ १ ॥
मन्त्रं प्रचेतसः पुत्र मयोक्तं मनसा स्मरन् ।
जपतस्तव कल्याणं भविष्यति ममाज्ञया ॥ २ ॥
विश्वामित्रवचः श्रुत्वा शुनःशेपः शुचाऽऽकुलः ।
मन्त्रं जजाप मनसा कौशिकोक्तं स्फुटाक्षरम् ॥ ३ ॥
जपतस्तत्र तस्याशु प्रचेतास्तु कृपाकरः ।
प्रादुर्बभूव सहसा प्रसन्नो नृप बालके ॥ ४ ॥
दृष्ट्वा तमागतं सर्वे विस्मयं परमं गताः ।
तुष्टुवुर्वरुणं देवं मुदिता दर्शनेन ते ॥ ५ ॥
राजातिविस्मितः पादौ प्रणनाम रुजातुरः ।
बद्धाञ्जलिपुटो देवं तुष्टाव पुरतः स्थितम् ॥ ६ ॥
हरिश्चन्द्र उवाच -
देवदेव कृपासिन्धो पापात्माहं सुमन्दधीः ।
कृतापराधः कृपणः पावितः परमेष्ठिना ॥ ७ ॥
मया ते पुत्रकामेन दुःखसंस्थेन हेलनम् ।
कृतं क्षमाप्यं प्रभुणा कोऽपराधः सुदुर्मतेः ॥ ८ ॥
अर्थी दोषं न जानाति तस्मात्पुत्रार्थिना मया ।
वञ्चितस्त्वं देवदेव भीतेन नरकाद्विभो ॥ ९ ॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
भीतोऽहं तेन वाक्येन तस्मात्ते हेलनं कृतम् ॥ १० ॥
नाज्ञस्य दूषणं चिन्त्यं नूनं ज्ञानवता विभो ।
दुःखितोऽहं रुजाक्रान्तो वञ्चितः स्वसुतेन ह ॥ ११ ॥
न जानेऽहं महाराज पुत्रो मे क्व गतः प्रभो ।
वञ्चयित्वा वने भीतो मरणान्मां कृपानिधे ॥ १२ ॥
प्रययौ द्रविणं दत्वा गृहीतो द्विजबालकः ।
यज्ञोऽयं क्रीतपुत्रेण प्रारब्धस्तव तुष्टये ॥ १३ ॥
दर्शनं तव सम्प्राप्य गतं दुःखं ममाद्‌भुतम् ।
जलोदरकृतं सर्वं प्रसन्ने त्वयि साम्प्रतम् ॥ १४ ॥
व्यास उवाच -
इति तस्य वचः श्रुत्वा राज्ञो रोगातुरस्य च ।
दयावान्देवदेवेशः प्रत्युवाच नृपोत्तमम् ॥ १५ ॥
वरुण उवाच -
मुञ्च राजञ्छुनःशेपं स्तुवन्तं मां भृशातुरम् ।
यज्ञोऽयं परिपूर्णस्ते रोगमुक्तो भवात्मना ॥ १६ ॥
इत्युक्त्वा वरुणस्तूर्णं राजानं विरुजं तथा ।
चकार पश्यतां तत्र सदस्यानां सुसंस्थितम् ॥ १७ ॥
विमुक्तोऽसौ द्विजः पाशाद्वरुणेन महात्मना ।
जयशब्दस्ततस्तत्र सञ्जातो मखमण्डपे ॥ १८ ॥
राजा प्रमुदितः सद्यो रोगान्मुक्तः सुदारुणात् ।
यूपान्मुक्तः शुनःशेपो बभूवातीव संस्थितः ॥ १९ ॥
राजा त्विमं मखं पूर्णं चकार विनयान्वितः ।
शुनःशेपस्तदा सभ्यानित्युवाच कृताञ्जलिः ॥ २० ॥
भो भोः सभ्या सुधर्मज्ञाः ब्रुवन्तु धर्मनिर्णयम् ।
वेदशास्त्रानुसारेण यथार्थवादिनः किल ॥ २१ ॥
पुत्रोऽहं कस्य सर्वज्ञाः पिता के कोऽग्रतः परम् ।
भवतां वचनात्तस्य शरणं प्रव्रजाम्यहम् ॥ २२ ॥
इत्युक्ते वचने तत्र सभ्याः प्रोचुः परस्परम् ।
सभ्या ऊचूः -
अजीगर्तस्य पुत्रोऽयं कस्यान्यस्य भवेदसौ ॥ २३ ॥
अङ्गादङ्गात्समुद्‌भूतः पालितस्तेन भक्तितः ।
अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः ॥ २४ ॥
तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः ।
विक्रीतस्तेन तातेन द्रव्यलोभात्सुतः किल ॥ २५ ॥
पुत्रोऽयं धनदातुश्च राज्ञस्तत्र न संशयः ।
अथवा वरुणस्यैष पाशान्मुक्तोऽस्त्यनेन वै ॥ २६ ॥
अन्नदाता भयत्राता तथा विद्याप्रदश्च यः ।
तथा वित्तप्रदश्चैव पञ्चैते पितरः स्मृताः ॥ २७ ॥
तदा केचित्पितुः प्राहुः केचिद्‌राज्ञस्तथापरे ।
वरुणस्येति संवादे निर्णयं न ययुश्च ते ॥ २८ ॥
इत्थं सन्देहमापन्ने वसिष्ठो वाक्यमब्रवीत् ।
सभ्यान्विवदतस्तत्र सर्वज्ञः सर्वपूजितः ॥ २९ ॥
शृणुध्वं भो महाभागा निर्णयं श्रुतिसम्मतम् ।
निःस्नेहेन यदा पित्रा विक्रीतोऽयं सुतः शिशुः ॥ ३० ॥
सम्बन्धस्तु गतस्तस्य तदैव धनसंग्रहात् ।
हरिश्चन्द्रस्य सञ्जातः पुत्रोऽसौ क्रीत एव च ॥ ३१ ॥
यूपे बद्धो यदा राज्ञा तदा तस्य न वै सुतः ।
वरुणस्तु स्तुतोऽनेन तेन तुष्टेन मोचितः ॥ ३२ ॥
तस्मान्नायं महाभागा ह्यसौ पुत्रः प्रचेतसः ।
यो यं स्तौति महामन्त्रैः सोऽपि तुष्टो ददाति च ॥ ३३ ॥
धनं प्राणान्पशून् राज्यं तथा मोक्षं किलेप्सितम् ।
कौशिकस्य सुतश्चायमरिष्टे येन रक्षितः ॥ ३४ ॥
मन्त्रं दत्त्वा महावीर्यं वरुणस्यातिसङ्कटे ।
व्यास उवाच -
श्रुत्वा वाक्यं वसिष्ठस्य बाढमूचुः सभासदः ॥ ३५ ॥
विश्वामित्रस्तु जग्राह तं करे दक्षिणे तदा ।
एहि पुत्र गृहं मे त्वमित्युक्त्वा प्रेमपूरितः ॥ ३६ ॥
शुनःशेपो जगामाशु तेनैव सह सत्वरः ।
वरुणस्तु प्रसन्नात्मा जगाम च स्वमालयम् ॥ ३७ ॥
ऋत्विजश्च तथा सभ्याः स्वगृहान्निर्ययुस्तदा ।
राजापि रोगनिर्मुक्तो बभूवातिमुदान्वितः ॥ ३८ ॥
प्रजास्तु पालयामास सुप्रसन्नेन चेतसा ।
रोहिताख्यस्तु तच्छ्रुत्वा वृत्तान्तं वरुणस्य ह ॥ ३९ ॥
आजगाम गृहं प्रीतो दुर्गमाद्वनपर्वतात् ।
दूता राजानमभ्येत्य प्रोचुः पुत्रं समागतम् ॥ ४० ॥
मुदितोऽसौ जगामाशु सम्मुखः कोसलाधिपः ।
दृष्ट्वा पितरमायान्तं प्रेमोद्रिक्तः सुसम्भ्रमः ॥ ४१ ॥
दण्डवत्पतितो भूमावश्रुपूर्णमुखः शुचा ।
राजापि तं समुत्थाप्य परिरभ्य मुदान्वितः ॥ ४२ ॥
तमाघ्राय सुतं मूर्ध्नि पप्रच्छ कुशलं पुनः ।
उत्सङ्गे तं समारोप्य मुदितो मेदिनीपतिः ॥ ४३ ॥
उष्णैर्नेत्रजलैः शीर्षण्यभिषेकमथाकरोत् ।
राज्यं शशास तेनासौ पुत्रेणातिप्रियेण च ॥ ४४ ॥
वृत्तान्तं नरमेधस्य कथयामास विस्तरात् ।
राजसूयं क्रतुवरं चकार नृपसत्तमः ॥ ४५ ॥
वसिष्ठं पूजयित्वाथ होतारमकरोद्‌विभुः ।
समाप्ते त्वथ यज्ञेशे वसिष्ठोऽतीव पूजितः ॥ ४६ ॥
शक्रस्य सदनं रम्यं जगाम मुनिरादरात् ।
विश्वामित्रोऽपि तत्रैव वसिष्ठेन च सङ्गतः ॥ ४७ ॥
मिलित्वा तौ स्थितौ देवसदने मुनिसत्तम ।
विश्वामित्रोऽपि पप्रच्छ वसिष्ठं प्रतिपूजितम् ॥ ४८ ॥
वीक्ष्य विस्मयचित्तस्तं सभायां तु शचीपतेः ।
विश्वामित्र उवाच -
क्वेयं पूजा त्वया प्राप्ता महती मुनिसत्तम ॥ ४९ ॥
कृता केन महाभाग सत्यं ब्रूहि ममान्तिके ।
वसिष्ठ उवाच -
यजमानोऽस्ति मे राजा हरिश्चन्द्रः प्रतापवान् ॥ ५० ॥
राजसूयः कृतस्तेन राज्ञा प्रवरदक्षिणः ।
नेदृशोऽस्ति नृपश्चान्यः सत्यवादी धृतव्रतः ॥ ५१ ॥
दाता च धर्मशीलश्च प्रजारञ्जनतत्परः ।
तस्य यज्ञे मया पूजा प्राप्ता कौशिकनन्दन ॥ ५२ ॥
[ किं पृच्छसि पुनः सत्यं ब्रवीम्यकृत्रिमं द्विज ]
हरिश्चन्द्रसमो राजा न भूतो न भविष्यति ।
सत्यवादी तथा दाता शूरः परमधार्मिकः ॥ ५३ ॥
व्यास उवाच
इति तस्य वचः श्रुत्वा विश्वामित्रोऽतिकोपनः ।
बभूव क्रोधसंरक्तलोचनोऽप्यब्रवीच्च तम् ॥ ५४ ॥
विश्वामित्र उवाच
एवं स्तौषि नृपं मिथ्यावादिनं कपटप्रियम् ।
वञ्चितो वरुणो येन प्रतिश्रुत्य वरं पुनः ॥ ५५ ॥
मम जन्मार्जितं पुण्यं तपसः पठितस्य च ।
त्वदीयं वातितपसो ग्लहं कुरु महामते ॥ ५६ ॥
अहं चेत्तं नृपं सद्यो न करोम्यतिसंस्तुतम् ।
असत्यवादिनं काममदातारं महाखलम् ॥ ५७ ॥
आजन्मसञ्चितं सर्वं पुण्यं मम विनश्यतु ।
अन्यथा त्वत्कृतं सर्वं पुण्यं त्विति पणावहे ॥ ५८ ॥
ग्लहं कृत्वा ततस्तौ तु विवदन्तौ मुनी तदा ।
स्वाश्रमं स्वर्गलोकाच्च गतौ परमकोपनौ ॥ ५९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वसिष्ठविश्वामित्रपणवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥