प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः १८

< देवीभागवतपुराणम्‎ | स्कन्धः ०७

हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम्

व्यास उवाच -
कदाचित्तु हरिश्चन्द्रो मृगयार्थं वनं ययौ ।
अपश्यद्‌रुदतीं बालां सुन्दरीं चारुलोचनाम् ॥ १ ॥
तामपृच्छन्महाराजझ् कामिनीं करुणापरः ।
पद्मपत्रविशालाक्षि किं रोदिषि वरानने ॥ २ ॥
केनासि पीडितात्यर्थं किं ते दुःखं वदाशु मे ।
काच त्वं विजने घोरे कस्ते भर्ता पिताथवा ॥ ३ ॥
न बाधते च राज्ये मे राक्षसोऽपि पराङ्गनाम् ।
तं हन्मि तरसा कान्ते यस्त्वां सुन्दरि बाधते ॥ ४ ॥
ब्रूहि दुःखं वरारोहे स्वस्था भव कृशोदरि ।
विषये मम पापात्मा न तिष्ठति सुमध्यमे ॥ ५ ॥
इति तस्य वचः श्रुत्वा नारी तमब्रवीन्नृपम् ।
प्रमृज्याश्रूणि वदनाद्धरिश्चन्द्रं नृपोत्तमम् ॥ ६ ॥
नार्युवाच -
राजन् मां बाधतेत्यर्थं विश्वामित्रो महामुनिः ।
तपः करोति यद्‌घोरं मदर्थं कौशिको वने ॥ ७ ॥
तेनाहं दुःखिता राजन् विषये तव सुव्रत ।
विद्धि मां कमनां कान्तां पीडितां मुनिना भृशम् ॥ ८ ॥
राजोवाच -
स्वस्था भव विशालाक्षि न ते दुःखं भविष्यति ।
तमहं वारयिष्यामि मुनिं तापपरायणम् ॥ ९ ॥
इत्याश्वास्य स्त्रियं राजा तरसा मुनिसन्निधौ ।
नत्वा प्रणम्य शिरसा तमुवाच महीपतिः ॥ १० ॥
स्वामिन्किं क्रियतेऽत्यर्थं तपसा देहपीडनम् ।
किमर्थं ते समारम्भो ब्रूहि सत्यं महामते ॥ ११ ॥
वाञ्छितं तव गाधेय करोमि सफलं किल ।
उत्तिष्ठोत्तिष्ठ तरसा तपसालमतः परम् ॥ १२ ॥
विषये मम सर्वज्ञ न कर्तव्यं सुदारुणम् ।
लोकपीडाकरं घोरं तपः केनापि कर्हिचित् ॥ १३ ॥
इत्थं निषिध्य तं राजा विश्वामित्रं गृहं ययौ ।
मनसा क्रोधमाधाय गतोऽसौ कौशिको मुनिः ॥ १४ ॥
स गत्वा चिन्तयामास नृपकृत्यमसाम्प्रतम् ।
वसिष्ठस्य च संवादं तपसः प्रतिषेधनम् ॥ १५ ॥
कोपाविष्टेन मनसा प्रतीकारमथाकरोत् ।
विचिन्त्य बहुधा चित्ते दानवं घोरविग्रहम् ॥ १६ ॥
प्रेषयामास तद्देशं विधाय सूकराकृतिम् ।
सोऽतिकायो महाकालः कुर्वन्नादं सुदारुणम् ॥ १७ ॥
राज्ञश्चोपवने प्राप्तस्त्रासयन् रक्षकांस्तदा ।
मालतीनां च खण्डानि कदम्बानां तथैव च ॥ १८ ॥
यूथिकानां च वृन्दानि कम्पयंश्च मुहुर्मुहुः ।
दन्तेन विलिखन्भूमिं समुन्मूलयते द्रुमान् ॥ १९ ॥
चम्पकान्केतकीखण्डान्मल्लिकानां च पादपान् ।
करवीरानुशीरांश्च निचखान शुभान्मृदून् ॥ २० ॥
मुचुकुन्दानशोकांश्च बकुलांस्तिलकांस्तथा ।
उन्मूल्य कदनं तत्र चकार सूकरो वने ॥ २१ ॥
वाटिकारक्षकाः सर्वे दुद्रुवुः शस्त्रपाणयः ।
हाहेति चुक्रुशुस्तत्र मालाकारा भृशातुराः ॥ २२ ॥
बाणैः सन्ताड्यमानोऽपि यदा त्रस्तो न वै मृगः ।
रक्षकान्पीडयामास कोलः कालसमद्युतिः ॥ २३ ॥
ते तदातिभयाक्रान्ता राजानं शरणं ययुः ।
तमूचुस्त्राहि त्राहीति वेपमाना भयाकुलाः ॥ २४ ॥
तानागतान्समालोक्य भयार्तान्भूपतिस्तदा ।
पप्रच्छ किं भयं कस्मान्मां ब्रुवन्तु समागताः ॥ २५ ॥
नाहं बिभेमि देवेभ्यो राक्षसेभ्यश्च रक्षकाः ।
कस्माद्‌भयं समुत्पन्नं तद्‌ब्रुवन्तु ममाग्रतः ॥ २६ ॥
हन्मि चैकेन बाणेन तं शत्रुं दुर्भगं किल ।
यो मेऽरातिः समुत्पन्नो लोके पापमतिः खलः ॥ २७ ॥
देवो वा दानवो वापि तं निहन्मि शरैः शितैः ।
क्व तिष्ठति कियद्‌रूपः कियद्‌बलसमन्वितः ॥ २८ ॥
मालाकारा ऊचुः -
न देवो न च दैत्योऽस्ति न यक्षो न च किन्नरः ।
कश्चित्कोलो महाकायो राजंस्तिष्ठति कानने ॥ २९ ॥
पुष्पवृक्षानतिमृदून्दन्तेनोन्मूलयत्यसौ ।
विदीर्णं तद्वनं सर्वं सूकरेणातिरंहसा ॥ ३० ॥
विशिखैस्ताडितोऽस्माभिर्दृषद्‌भिर्लकुटैस्तथा ।
न बिभेति महाराज हनुमस्मानुपाद्रवत् ॥ ३१ ॥
व्यास उवाच -
इत्याकर्ण्य वचस्तेषां राजा कोपसमाकुलः ।
अश्वामारुह्य तरसा जगामोपवनं प्रति ॥ ३२ ॥
सैन्येन महता युक्तो गजाश्वरथसंयुतः ।
पदातिवृन्दसहितः प्रययौ वनमुत्तमम् ॥ ३३ ॥
तत्रापश्यन्महाकोलं घ्र्घुरन्तं भयानकम् ।
वनं भग्नं च संवीक्ष्य राजा क्रोधयुतोऽभवत् ॥ ३४ ॥
चापे बाणं समारोप्य विकृष्य च शरासनम् ।
तं हन्तुं सूकरं पापं तरसा समुपाक्रमत् ॥ ३५ ॥
समालोक्य च राजानं चापहस्तं रुषाकुलम् ।
सम्मुखोऽभ्यद्रवत्तूर्णं कुर्वञ्छब्दं सुदारुणम् ॥ ३६ ॥
तमायान्तं समालोक्य वराहं विकृताननम् ।
मुमोच विशिखं तस्मिन्हन्तुकामो महीपतिः ॥ ३७ ॥
वञ्चयित्वाथ तद्बाणं सूकरस्तरसा बलात् ।
निर्जगाम महावेगात्तमुल्लंघ्य नृपं तदा ॥ २८ ॥
गच्छन्तं तं समालोक्य राजा कोपसमन्वितः ।
मुमोच विशिखांस्तीक्ष्णांश्चापमाकृष्य यत्‍नतः ॥ ३९ ॥
क्षणं दृष्टिपथं राज्ञः क्षणं चादर्शनं गतः ।
कुर्वन्बहुविधारावं सूकरं समुपाद्रवत् ॥ ४० ॥
हरिश्चन्द्रोऽतिकुपितो मृगस्यानुजगाम ह ।
अश्वेन वायुवेगेन विकृष्य च शरासनम् ॥ ४१ ॥
इतस्ततस्तः सैन्यमगमच्च वनान्तरम् ।
एकाकी नृपतिः कोलं व्रजन्तं समुपाद्रवत् ॥ ४२ ॥
मध्याह्नसमये राजा सम्प्राप्तो विजने वने ।
तृषितः क्षुधितोऽत्यर्थं बभूव श्रान्तवाहनः ॥ ४३ ॥
सूकरोऽदर्शनं प्राप्तो राजा चिन्तातुरोऽभवत् ।
मार्गभ्रष्टोऽतिविपिने दारुणे दीनवत्स्थितः ॥ ४४ ॥
किं करोमि क्व गच्छामि न सहायोऽस्ति मे वने ।
अज्ञातस्वपथः कुत्र व्रजामीति व्यचिन्तयत् ॥ ४५ ॥
एवं विन्तयतस्तत्र विपिने जनवर्जिते ।
राज्ञा चिन्तातुरोऽपश्यन्नदीं सुविमलोदकाम् ॥ ४६ ॥
वीक्ष्य तां मुदितो राजा पाययित्वा तुरङ्गकम् ।
अश्वादुत्तेर्य विमलं पपौ पानीयमुत्तमम् ॥ ४७ ॥
जलं पीत्वा नृपस्तत्र सुखमाप महीपतिः ।
इत्येष नगरं गन्तुं दिग्भ्रमेणातिमोहितः ॥ ४८ ॥
विश्वामित्रस्तु सम्प्राप्तो वृद्धब्राह्मणरूपधृक् ।
ननाम वीक्ष्य राजा तं प्रीतिपूर्वं द्विजोत्तमम् ॥ ४९ ॥
तमुवाच गाधिराजः प्रणमन्तं नृपोत्तमम् ।
स्वस्ति तेऽस्तु महाराज किमर्थमिह चागतः ॥ ५० ॥
एकाकी विजने राजन् किं चिकीर्षितमत्र ते ।
ब्रूहि सर्वं स्थिरो भूत्वा कारणं नृपसत्तम ॥ ५१ ॥
राजोवाच -
सूकरोऽतिमहाकायो बलवान्पुष्पकाननम् ।
समुपेत्य ममर्दाशु कोमलान्पुष्पपादपान् ॥ ५२ ॥
तं निवारयितुं दुष्टं करे कृत्वा च कार्मुकम् ।
ससैन्योऽहं स्वनगरान्निर्गतो मुनिसत्तम ॥ ५३ ॥
गतोऽसौ दृक्पथात्पापो मायावी क्वापि वेगवान् ।
पृष्ठतोऽहमपि प्राप्तः सैन्यं क्वापि गतं मम ॥ ५४ ॥
क्षुधितस्तृषितश्चाहं सैन्यभ्रष्टस्त्विहागतः ।
न जाने पुरमार्गं च तहा सैन्यगतिं मुने ॥ ५५ ॥
पन्थानं दर्शय विभो व्रजामि नगरं प्रति ।
ममात्र भाग्ययोगेन प्राप्तस्त्वं विजने वने ॥ ५६ ॥
अयोध्यादिपतिश्चाहं हरिश्चन्द्रोऽतिविश्रुतः ।
राजसूयस्य कर्ता च वाञ्छितार्थप्रदः सदा ॥ ५७ ॥
धनेच्छा यदि ते ब्रह्मन् यज्ञार्थं द्विजसत्तम ।
आगन्तव्यमयोध्यायां दास्यामि विपुलं धनम् ॥ ५८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादश साहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥