देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः ०२

भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम्
श्रीनारायण उवाच
एवं मीमांसतस्तस्य पद्मयोनेः परन्तप ।
मन्वादिभिर्मुनिवरैर्मरीच्याद्यैः समन्ततः ॥ १ ॥
ध्यायतस्तस्य नासाग्राद्विरञ्चेः सहसानघ ।
वराहपोतो निरगादेकाङ्गुलप्रमाणतः ॥ २ ॥
तस्यैव पश्यतः खस्थः क्षणेन किल नारद ।
करिमात्रं प्रववृधे तदद्‌भूततमं ह्यभूत् ॥ ३ ॥
मरीचिमुख्यैर्विप्रेन्द्रैः सनकाद्यैश्च नारद ।
तद्‌दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः ॥ ४ ॥
किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम् ।
अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम् ॥ ५ ॥
दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाच्छैलेन्द्रसन्निभः ।
आहोस्विद्‍भगवान्किं वा यज्ञो मे खेदयन्मनः ॥ ६ ॥
इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः ।
वराहरूपो भगवाञ्जगर्जाचलसन्निभः ॥ ७ ॥
विरञ्चिं हर्षयामास संहतांश्च द्विजोत्तमान् ।
स्वगर्जशब्दमात्रेण दिक्प्रान्तमनुनादयन् ॥ ८ ॥
ते निशम्य स्वखेदस्य क्षयितुं घुर्धुरस्वनम् ।
जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः ॥ ९ ॥
छन्दोमयैः स्तोत्रवरैर्ऋक्सामाथर्वसम्भवैः ।
वचोभिः पुरुषं त्वाद्यं द्विजेन्द्राः पर्यवाकिरन् ॥ १० ॥
तेषां स्तोत्रं निशम्याद्यो भगवान् हरिरीश्वरः ।
कृपावलोकमात्रेणानुगहीत्वाप आविशत् ॥ ११ ॥
तस्यान्तर्विशतः क्रूरसटाघातप्रपीडितः ।
समुद्रोऽथाब्रवीद्देव रक्ष मां शरणार्तिहन् ॥ १२ ॥
इत्याकर्ण्य समुद्रोक्तं वचनं हरिरीश्वरः ।
विदारयञ्जलचराञ्जगामान्तर्जले विभुः ॥ १३ ॥
इतस्ततोऽभिधावन्सन् विचिन्वन्पृथिवीं धराम् ।
आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः ॥ १४ ॥
अनर्जलगतां भूमिं सर्वसत्त्वाश्रयां तदा ।
भूमिं स देवदेवेशो दंष्ट्रयोदाजहार ताम् ॥ १५ ॥
तां समुद्धृत्य दंष्टाग्रे यज्ञेशो यज्ञपूरूषः ।
शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मीनीम् ॥ १६ ॥
तं दृष्ट्वा देवदेवेशो विरञ्चिः समनुः स्वराट् ।
तुष्टाव वाग्भिर्देवेशं दंष्ट्रोद्धतवसुन्धरम् ॥ १७ ॥
ब्रह्मोवाच
जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन ।
खर्वीकृतसुराधार सर्वकामफलप्रद ॥ १८ ॥
इयं च धरणी देव शोभते वसुधा तव ।
पद्यिनीव सुपत्राढ्या मतङ्गजकरोद्धृता ॥ १९ ॥
इदं च ते शरीरं वै शोभते भूमिसङ्गमात् ।
उद्धृताम्बुजशुण्डाग्रकरीन्द्रतनुसन्निभम् ॥ २० ॥
नमो नमस्ते देवेश सृष्टिसंहारकारक ।
दानवानां विनाशाय कृतनानाकृते प्रभो ॥ २१ ॥
अग्रतश्च नमस्तेऽस्तु पृष्ठतश्च नमो नमः ।
सर्वामराधारभूत बृहद्धाम नमोऽस्तु ते ॥ २२ ॥
त्वयाहं च प्रजासर्गे नियुक्त: शक्तिबृंहितः ।
त्वदाज्ञावशतः सर्गं करोमि विकरोमि च ॥ २३ ॥
त्वत्सहायेन देवेशा अमराश्च पुरा हरे ।
सुधां विभेजिरे सर्वे यथाकालं यथाबलम् ॥ २४ ॥
इन्द्रस्त्रिलोकीसाम्राज्यं लब्धवांस्तन्निदेशत: ।
भूनक्ति लक्ष्मीं बहुलां सुरसंघप्रपूजित: ॥ २५ ॥
वह्निः पावकतां लब्ध्वा जाठरादिविभेदतः ।
देवासुरमनुष्याणां करोत्याप्यायनं तथा ॥ २६ ॥
धर्मराजोऽथ पितृणामधिपः सर्वकर्मदृक ।
कर्मणां फलदातासौ त्वन्नियोगादधीश्वरः ॥ २७ ॥
नैर्ऋतो रक्षसामीशो यक्षो विघ्नविनाशन: ।
सर्वेषां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते ॥ २८ ॥
वरुणो यादसामीशो लोकपालो जलाधिपः ।
त्वदाज्ञाबलमाश्रित्य लोकपालत्वमागतः ॥ २९ ॥
वायुर्गन्धवह: सर्वभूतप्राणनकारणम् ।
जातस्तव निदेशेन लोकपालो जगद्‌गुरुः ॥ ३० ॥
कुबेरः किन्नरादीनां यक्षाणां जीवनाश्रयः ।
त्वदाज्ञान्तर्गतः सर्वलोकपेषु च मान्यभू ॥ ३१ ॥
ईशान: सर्वरुद्राणामीश्वरान्तकरः प्रभूः ।
जातो लोकेशवन्द्योऽसौ सर्वदेवाधिपालकः ॥ ३२ ॥
नमस्तुभ्यं भगवते जगदीशाय कुर्महे ।
यस्थांशभागाः सर्वे हि जाता देवाः सहस्रशः ॥ ३३ ॥
नारद उवाच
एव स्तुतो विश्वसृजा भगवानादिपूरुष: ।
लीलावलोकमात्रेणाप्यनुग्रहमवासृजत् ॥ ३४ ॥
तत्रैवाभ्यागतं दैत्यं हिरण्याक्षं महासुरम् ।
रुन्धानमध्वनो भीमं गदयाताडयद्धरि: ॥ ३५ ॥
तद्‌रक्तपङ्कदिग्धाङ्गो भगवानादिपूरुषः ।
उद्धृत्य धरणीं देवो दंष्ट्रया लीलयाप्सु ताम् ॥ ३६ ॥
निवेश्य लोकनाथेशो जगाम स्थानमात्मनः ।
एतद्‌भगवतश्चित्रं धरण्युद्धरणं परम् ॥ ३७ ॥
शृणूयाद्य: पुमान् यश्च पठेच्चरितमुत्तमम् ।
सर्वपापविनिर्मुक्तो वैष्णवीं गतिमाप्नुयात् ॥ ३८॥

-



इति श्रीमद्देवीभागवते महापुराणेअष्टादशसाहस्र्यां
संहितायामष्टमस्कन्धे धरण्युद्धारवर्णन नाम द्वितीयोऽध्यायः ॥ २ ॥
अध्याय दुसरा समाप्त