देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः ०९

भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम्

श्रीनारायण उवाच
हरिवर्षे च भगवान्नृहरिः पापनाशनः ।
वर्तते योगयुक्तात्मा भक्तानुग्रहकारकः ॥ १ ॥
तस्य तद्दयितं रूपं महाभागवतोऽसुरः ।
पश्यन्भक्तिसमायुक्तः स्तौति तद्‍गुणतत्त्ववित् ॥ २ ॥
प्रह्लाद उवाच
ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे
आविराविर्भव वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय
तमो ग्रस ग्रस ॐ स्वाहा । अभयं ममात्मनि
भूयिष्ठाः ॥ ॐ क्षौं ॥
स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां
     ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे
     आवेश्यतां नो मतिरप्यहैतुकी ॥ ३ ॥
मागारदारात्मजवित्तबन्धुषु
     सङ्गो यदि स्याद्‍भगवत्प्रियेषु नः ।
यः प्राणवृत्त्या परितुष्ट आत्मवान्
     सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ ४ ॥
यत्सङ्गलब्धं निजवीर्यवैभवं
     तीर्थं मुहुः संस्पृशतां हि मानसम् ।
हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं
     को वै न सेवेत मुकुन्दविक्रमम् ॥ ५ ॥
यस्यास्ति भक्तिर्भगवत्यकिञ्चना
     सर्वैर्गुणैस्तत्र समासते सुराः ।
हरावभक्तस्य कुतो महद्‍गुणा
     मनोरथेनासति धावतो बहिः ॥ ६ ॥
हरिर्हि साक्षाद्‍भगवाञ्छरीरिणा-
     मात्मा झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे
     तदा महत्त्वं वयसा दम्पतीनाम् ॥ ७ ॥
तस्माद्‌रजोरागविषादमन्यु-
     मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
     नृसिंहपादं भजतां कुतो भयम् ॥ ८ ॥
एवं दैत्यपतिः सोऽपि भक्त्यानुदिनमीडते ।
नृहरिं पापमातङ्गहरिं हृत्पद्मवासिनम् ॥ ९ ॥
केतुमाले च वर्षे हि भगवान्स्मररूपधृक् ।
आस्ते तद्वर्षनाथानां पूजनीयश्च सर्वदा ॥ १० ॥
एतेनोपासते स्तोत्रजालेन च रमाब्धिजा ।
तद्वर्षनाथा सततं महतां मानदायिका ॥ ११ ॥
रमोवाच
ओं ह्रां ह्रीं ह्रूं स्म नमो भगवते
हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने
आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये
षोडशकलाय छन्दोमयायान्नमयायामृतमयाय
सर्वमयाय महसे ओजसे बलाय कान्ताय
     कामाय नमस्ते उभयत्र भूयात् ।
स्त्रियो व्रतैस्त्वां हृषीकेश्वरं स्वतो
     ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं
     प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १२ ॥
स वै पतिः स्यादकुतोभयः स्वतः
     समन्ततः पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
     नैवात्मलाभादधिमन्यते परम् ॥ १३ ॥
या तस्य ते पादसरोरुहार्हणं
     न कामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो
     यद्‍भग्नयाञ्चा भगवन् प्रतप्यते ॥ १४ ॥
मत्प्राप्तयेऽजेशसुरासुरादय-
     स्तप्यन्त उग्रं तप ऐन्द्रिये धियः ।
ऋते भवत्पादपरायणान्न मां
     विदन्त्यहं त्वद्धृदया यतोऽजित ॥ १५ ॥
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं
     कराम्बुजं यत्त्वदधायि सात्वताम् ।
बिभर्षि मां लक्ष्य वरेण्य मायया
     क ईश्वरस्येहितमूहितुं विभुः ॥ १६ ॥
एवं कामं स्तुवन्त्येव लोकबन्धुस्वरूपिणम् ।
प्रजापतिमुखा वर्षनाथाः कामस्य सिद्धये ॥ १७ ॥
रम्यके नामवर्षे च मूर्तिं भगवतः पराम् ।
मात्स्यां देवासुरैर्वन्द्यां मनुः स्तौति निरन्तरम् ॥ १८ ॥
मनुरुवाच
ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय
प्राणायौजसे बलाय महामत्स्याय नमः ।
अन्तर्बहिश्चाखिललोकपालकै-
रदृष्टरूपो विचरस्युरुस्वनः ।
स ईश्वरस्त्वं य इदं वशे नय-
न्नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ १९ ॥
यं लोकपालाः किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक् समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पदः
सरीसृपं स्थाणु यदत्र दृश्यते ॥ २० ॥
भवान् युगान्तार्णव ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरुक्रम तेऽज ओजसा
तस्मै जगत्प्राणगणात्मने नमः ॥ २१ ॥
एवं स्तौति च देवेशं मनुः पार्थिवसत्तमः ।
मत्स्यावतारं देवेशं संशयच्छेदकारणम् ॥ २२ ॥
ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः ।
आस्ते परिचरन्भक्त्या महाभागवतोत्तमः ॥ २३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥