प्रमुखा विकल्पसूचिः उद्घाट्यताम्

भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम्

नारद उवाच
शिष्टद्वीपप्रमाणं च वद सर्वार्थदर्शन ।
येन विज्ञातमात्रेण परानन्दमयो भवेत् ॥ १ ॥
श्रीरानारायण उवाच
कुशद्वीपस्य परितो घृतोदावरणं महत् ।
ततो बहिः क्रौंचद्वीपो द्विगुणः स्यात्स्वमानतः ॥ २ ॥
क्षीरोदेनावृतो भाति यस्मिन्क्रौंचाद्रिरस्ति च ।
नामनिर्वर्तकः सोऽयं द्वीपस्य परिवर्तते ॥ ३ ॥
योऽसौ गुहस्य शक्त्या च भिन्नकुक्षिः पुराभवत् ।
क्षीरोदेनासिच्यमानो वरुणेन च रक्षितः ॥ ४ ॥
घृतपृष्ठो नाम यस्य विभाति किल नायकः ।
प्रियव्रतात्मजः श्रीमान् सर्वलोकनमस्कृतः ॥ ५ ॥
स्वद्वीपं तु विभज्यैव सप्तधा स्वात्मजान्ददौ ।
पुत्रनामसु वर्षेषु वर्षपान्सन्निवेशयन् ॥ ६ ॥
स्वयं भगवतस्तस्य शरणं सञ्जगाम ह ।
आमो मधुरुहश्चैव मेघपृष्ठः सुधामकः ॥ ७ ॥
भ्राजिष्ठो लोहितार्णश्च वनस्पतिरितीव च ।
नगा नद्यश्च सप्तैव विख्याता भुवि सर्वतः ॥ ८ ॥
शुक्लो वै वर्धमानश्च भोजनश्चोपबर्हणः ।
नन्दश्च नन्दनः सर्वतोभद्र इति कीर्तिताः ॥ ९ ॥
अभया अमृतौघा चार्यका तीर्थवतीति च ।
वृत्तिरूपवती शुक्ला पवित्रवतिका तथा ॥ १० ॥
एतासामुदकं पुण्यं चातुर्वर्ण्येन पीयते ।
पुरुषऋषभौ तद्वद्‌ द्रविणाख्यश्च देवकः ॥ ११ ॥
एते चतुर्वर्णजाताः पुरुषा निवसन्ति हि ।
तत्रत्याः पुरुषा आपोमयं देवमपां पतिम् ॥ १२ ॥
पूर्णेनाञ्जलिना भक्त्या यजन्ते विविधक्रियाः ।
आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः स्वरः ॥ १३ ॥
ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुवः ।
इति मन्त्रजपान्ते च स्तुवन्ति विविधैः स्तवैः ॥ १४ ॥
एवं परस्तात्क्षीरोदात्परितश्चोपवेशितः ।
द्वात्रिंशल्लक्षसंख्याकयोजनायाममाश्रितः ॥ १५ ॥
स्वमानेन च द्वीपोऽयं दधिमण्डोदकेन च ।
शाकद्वीपो विशिष्टोऽयं यस्मिच्छाको महीरुहः ॥ १६ ॥
स्वक्षेत्रव्यपदेशस्य कारणं स हि नारद ।
प्रैयव्रतोऽधिपस्तस्य मेधातिथिरिति स्मृतः ॥ १७ ॥
विभज्य सप्त वर्षाणि पुत्रनामानि तेषु च ।
सप्त पुत्रान्निजान् स्थाप्य स्वयं योगगतिं गतः ॥ १८ ॥
पुरोजवो मनःपूर्वजवोऽथ पवमानकः ।
धूम्रानीकश्चित्ररेफो बहुरूपोऽथ विश्वधृक् ॥ १९ ॥
मर्यादागिरयः सप्त नद्यः सप्तैव कीर्तिताः ।
ईशान ऊरुशृङ्गोऽथ बलभद्रः शतकेशरः ॥ २० ॥
सहस्रस्रोतको देवपालोऽप्यन्ते महाशनः ।
एतेऽद्रयः सप्त चोक्ताः सरिन्नामानि सप्त च ॥ २१ ॥
अनघा प्रथमाऽऽयुर्दा उभयस्पृष्टिरेव च ।
अपराजिता पञ्चपदी सहस्रश्रुतिरेव च ॥ २२ ॥
ततो निजधृतिश्चोक्ताः सप्त नद्यो महोज्ज्वलाः ।
तद्वर्षपुरुषाः सर्वे सत्यव्रतक्रतुव्रतौ ॥ २३ ॥
दानव्रतानुव्रतौ च चतुर्वर्णा उदीरिताः ।
भगवन्तं प्राणवायुं प्राणायामेन संयुताः ॥ २४ ॥
यजन्ति निर्धूतरजस्तमसः परमं हरिम् ।
अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ॥ २५ ॥
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदम् ।
परस्ताद्दधिमण्डोदात्ततस्तु बहुविस्तरः ॥ २६ ॥
पुष्करद्वीपनामायं शाकद्वीपद्विसंगुणः ।
स्वसमानेन स्वादूदकेनायं परिवेष्टितः ॥ २७ ॥
यत्रास्ते पुष्करं भ्राजदग्निचूडानिभानि च ।
पत्राणि विशदानीह स्वर्णपत्रायुतायुतम् ॥ २८ ॥
श्रीमद्‍भगवतश्चेदमासनं परमेष्ठिनः ।
कल्पितं लोकगुरुणा सर्वलोकसिसृक्षया ॥ २९ ॥
तद्‌द्वीप एक एवायं मानसोत्तरनामकः ।
अर्वाचीनपराचीनवर्षयोरवधिर्गिरिः ॥ ३० ॥
उच्छ्रायायामयोः संख्यायुतयोजनसम्मिता ।
यत्र दिक्षु च चत्वारि चतसृषु पुराणि ह ॥ ३१ ॥
इन्द्रादिलोकपालानां यदुपर्यर्कनिर्गमः ।
मेरुं प्रदक्षिणीकुर्वन् भानुः पर्येति यत्र हि ॥ ३२ ॥
संवत्सरात्मकं चक्रं देवाहोरात्रतो भ्रमन् ।
प्रैयव्रतोऽधिपो वीतिहोत्रः स्वात्मजकद्वयम् ॥ ३३ ॥
वर्षद्वये परिस्थाप्य वर्षनामधरं क्रमात् ।
रमणो धातकिश्चैव तत्तद्वर्षपती उभौ ॥ ३४ ॥
कृताः स्वयं पूर्वजवद्‍भगवद्‍भक्तितत्पराः ।
तद्‌वर्षपुरुषा ब्रह्मरूपिणं परमेश्वरम् ॥ ३५ ॥
सकर्मकेन योगेन यजन्ति परिशीलिताः ।
यत्तत्कर्ममयं लिङ्ग ब्रह्मलिङ्गं जनोऽर्चयेत् ।
एकान्तमद्वयं शान्तं तस्मै भगवते नमः ॥ ३६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनं क्रौञ्चशाकपुष्करद्वीपवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥