देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः १५

भुवनकोशवर्णने सूर्यगतिवर्णनम्

श्रीनारायण उवाच
अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् ।
शीघ्रमन्दादिगतिभिस्त्रिविधं गमनं रवेः ॥ १ ॥
सर्वग्रहाणां त्रीण्येव स्थानानि सुरसत्तम ।
स्थानं जारद्‍गवं मध्यं तथैरावतमुत्तरम् ॥ २ ॥
वैश्वानरं दक्षिणतो निर्दिष्टमिति तत्त्वतः ।
अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता ॥ ३ ॥
रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते ।
पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती स्मृता ॥ ४ ॥
एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ।
तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता ॥ ५ ॥
हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता ।
ज्येष्ठा विशाखानुराधा वीथी जारद्‍गवी मता ॥ ६ ॥
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ।
मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता ॥ ७ ॥
श्रवणं च धनिष्ठा च मार्गी शतभिषक् तथा ।
वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ॥ ८ ॥
एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ।
उत्तरायणमासाद्य युगाक्षान्तर्निबद्धयोः ॥ ९ ॥
कर्षणं पाशयोर्वायुबद्धयो रोहणं स्मृतम् ।
तदाभ्यन्तरगान्मण्डलाद्रथस्य गतेर्भवेत् ॥ १० ॥
मान्द्यं दिवसवृद्धिश्च जायते सुरसत्तम ।
रात्रिह्रासश्च भवति सौम्यायनक्रमो ह्ययम् ॥ ११ ॥
दक्षिणायनके पाशे प्रेरणादवरोहणम् ।
बहिर्मण्डलवेशेन गतिशैघ्र्यं तदा भवेत् ॥ १२ ॥
तदा दिनाल्पता रात्रिवृद्धिश्च परिकीर्तिता ।
वैषुवे पाशसाम्यात्तु समावस्थानतो रवेः ॥ १३ ॥
मध्यमण्डलवेशश्च साम्यं रात्रिदिनादिके ।
आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ ॥ १४ ॥
तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि च ।
ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु ॥ १५ ॥
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च ।
तस्मिन्मेरौ पूर्वभागे पुर्यैन्द्री देवधानिका ॥ १६ ॥
दक्षिणे वै संयमनी नाम याम्या महापुरी ।
पश्चान्निम्लोचनी नाम वारुणी वै महापुरी ॥ १७ ॥
तदुत्तरे पुरी सौम्या प्रोक्ता नाम विभावरी ।
ऐन्द्रपुर्यां रवेः प्रोक्त उदयो ब्रह्मवादिभिः ॥ १८ ॥
संयमन्यां च मध्याह्ने निम्लोचन्यां निमीलनम् ।
विभावर्यां निशीथः स्यात्तिग्मांशोः सुरपूजितः ॥ १९ ॥
प्रवृत्तेश्च निमित्तानि भूतानां तानि सर्वशः ।
मेरोश्चतुर्दिशं भानोः कीर्तितानि मया मुने ॥ २० ॥
मेरुस्थानां सदा मध्यं गत एव विभाति हि ।
सव्यं गच्छन्दक्षिणेन करोति स्वर्णपर्वतम् ॥ २१ ॥
उदयास्तमये चैव सर्वकालं तु सम्मुखे ।
दिशास्वशेषासु तथा सुरर्षे विदिशासु च ॥ २२ ॥
यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः ।
तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ २३ ॥
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ।
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ २४ ॥
शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् ।
विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥ २५ ॥
सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः ।
यैर्यत्र दृश्यते भानुः सैव प्राचीति चोच्यते ॥ २६ ॥
तद्वामभागतो मेरुर्वर्ततेति विनिर्णयः ।
यदि चैन्द्र्याः प्रचलते घटिका दशपञ्चभिः ॥ २७ ॥
याम्यां तदा योजनानां सपादं कोटियुग्मकम् ।
सार्धद्वादशलक्षाणि पञ्चनेत्रसहस्रकम् ॥ २८ ॥
प्रक्रामति सहस्रांशुः कालमार्गप्रदर्शकः ।
एवं ततो वारुणीं च सौम्यामैन्द्रीं सहस्रदृक् ॥ २९ ॥
पर्येति कालचक्रात्मा द्युमणिः कालबुद्धये ।
तथा चान्ये ग्रहाः सोमादयो ये दिग्विचारिणः ॥ ३० ॥
नक्षत्रैः सह चोद्यन्ति सह चास्तं व्रजन्ति ते ।
एवं मुहूर्तेन रथो भानोरष्टशताधिकम् ॥ ३१ ॥
योजनानां चतुस्त्रिंशल्लक्षाणि भ्रमति प्रभुः ।
त्रयीमयश्चतुर्दिक्षु पुरीषु च समीरणात् ॥ ३२ ॥
प्रवहाख्यात्सदा कालचक्रं पर्येति भानुमान् ।
यस्य चक्रं रथस्यैकं द्वादशारं त्रिनाभिकम् ॥ ३३ ॥
षण्नेमि कवयस्तं च वत्सरात्मकमूचिरे ।
मेरुमूर्धनि तस्याक्षो मानसोत्तरपर्वते ॥ ३४ ॥
कृतेतरविभागो यः प्रोतं तत्र रथाङ्गकम् ।
तैलकारकयन्त्रेण चक्रसाम्यं परिभ्रमन् । ३५ ॥
मानसोत्तरनाम्नीह गिरौ पर्येति चांशुमान् ।
तस्मिन्नक्षे कृतं मूलं द्वितीयोऽक्षो ध्रुवे कृतः ॥ ३६ ॥
तुर्यमानेन तैलस्य यन्त्राक्षवदितीरितः ।
कृतोपरितनो भागः सूर्यस्य जगतां पतेः ॥ ३७ ॥
रथनीडस्तु षट्‌त्रिंशल्लक्षयोजनमायतः ।
तत्तुर्यभागतः सोऽयं परिणाहेन कीर्तितः ॥ ३८ ॥
तावानर्करथस्यात्र युगस्तस्मिन्हयाः शुभाः ।
सप्तच्छन्दोऽभिधानाश्च सूरसूतेन योजिताः ॥ ३९ ॥
वहन्ति देवमादित्यं लोकानां सुखहेतवे ।
पुरस्तात्सवितुः सूतोऽरुणः पश्चान्नियोजितः ॥ ४० ॥
सौत्ये कर्मणि संयुक्तो वर्तते गरुडाग्रजः ।
तथैव बालखिल्याख्या ऋषयोऽङ्गुष्ठपर्वकाः ॥ ४१ ॥
प्रमाणेन परिख्याताः षष्टिसाहस्रसंख्यकाः ।
स्तुवन्ति पुरतः सूर्यं सूक्तवाक्यैः सुशोभनैः ॥ ४२ ॥
तथा चान्ये च ऋषयो गन्धर्वा अप्सरोरगाः ।
ग्रामण्यो यातुधानाश्च देवाः सर्वे परेश्वरम् ॥ ४३ ॥
एकैकशः सप्त सप्त मासि मासि विरोचनम् ।
सार्धलक्षोत्तरं कोटिनवकं भूमिमण्डलम् ॥ ४४ ॥
द्विसहस्रं योजनानां स गव्यूत्युत्तरं क्षणात् ।
पर्येति देवदेवेशो विश्वव्यापी निरन्तरम् ॥ ४५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने सूर्यगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥