प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अतलवितलसुतललोकवर्णनम्

श्रीनारायण उवाच
प्रथमे विवरे विप्र अतलाख्ये मनोरमे ।
मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत् ॥ १ ॥
षण्णवत्यो येन सृष्टा मायाः सर्वार्थसाधिकाः ।
मायाविनो याश्च सद्यो धारयन्ति च काश्चन ॥ २ ॥
जृम्भमाणस्य यस्यैव बलस्य बलशालिनः ।
स्त्रीगणा उपपद्यन्ते त्रयोलोकविमोहनाः ॥ ३ ॥
पुंश्चल्यश्चैव स्वैरिण्यः कामिन्यश्चेति विश्रुताः ।
या वै बिलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः ॥ ४ ॥
रसेन हाटकाख्येन साधयित्वा प्रयत्‍नतः ।
स्वविलासावलोकानुरागस्मितविगूहनैः ॥ ५ ॥
संलापविभ्रमाद्यैश्च रमयन्त्यपि ताः स्त्रियः ।
यस्मिन्नुपयुक्ते जनो मनुते बहुधा स्वयम् ॥ ६ ॥
ईश्वरोऽहमहं सिद्धो नागायुतबलो महान् ।
आत्मानं मन्यमानः सन्मदान्ध इव कथ्यते ॥ ७ ॥
एवं प्रोक्ता स्थितिश्चात्र अतलस्य च नारद ।
द्वितीयविवरस्यात्र वितलस्य निबोधत ॥ ८ ॥
भूतलाधस्तले चैव वितले भगवान्भवः ।
हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः ॥ ९ ॥
प्रजापतिकृतस्यापि सर्गस्य बृंहणाय च ।
भवान्या मिथुनीभूय आस्ते देवाधिपूजितः ॥ १० ॥
भवयोर्वीर्यसम्भूता हाटकी सरिदुत्तमा ।
समिद्धो मरुता वह्निरोजसा पिबतीव हि ॥ ११ ॥
तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् ।
दैत्याङ्गना भूषणार्हं सदा तं धारयन्ति हि ॥ १२ ॥
तद्बिलाधस्तलात्प्रोक्तं सुतलाख्यं बिलेश्वरम् ।
पुण्यश्लोको बलिर्नामा आस्ते वैरोचनिर्मुने ॥ १३ ॥
महेन्द्रस्य च देवस्य चिकीर्षुः प्रियमुत्तमम् ।
त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत् ॥ १४ ॥
त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्यराट् ।
इन्द्रादिष्वप्यलब्धा या सा श्रीस्तमनुवर्तते ॥ १५ ॥
तमेव देवदेवेशमाराधयति भक्तितः ।
व्यपेतसाध्वसोऽद्यापि वर्तते सुतलाधिपः ॥ १६ ॥
भूमिदानफलं ह्येतत्पात्रभूतेऽखिलेश्वरे ।
वर्णयन्ति महात्मानो नैतद्युक्तं च नारद ॥ १७ ॥
वासुदेवे भगवति पुरुषार्थप्रदे हरौ ।
एतद्दानफलं विप्र सर्वथा नहि युज्यते ॥ १८ ॥
यस्यैव देवदेवस्य नामापि विवशो गृणन् ।
स्वकीयकर्मबन्धीयगुणान्विधुनुतेऽञ्जसा ॥ १९ ॥
यत्क्लेशबन्धहानाय सांख्ययोगादिसाधनम् ।
कुर्वते यतयो नित्यं भगवत्यखिलेश्वरे ॥ २० ॥
न चायं भगवानस्माननुजग्राह नारद ।
मायामयं च भोगानामैश्वर्यं व्यतनोत्परम् ॥ २१ ॥
सर्वक्लेशाधिहेतुं तदात्मानुस्मृतिमोषणम् ।
यं साक्षाद्‍भगवान् विष्णुः सर्वोपायविदीश्वरः ॥ २२ ॥
याञ्जाछलेनापहृतं सर्वस्वं देहशेषकम् ।
अप्राप्तान्योपाय ईशः पाशैर्वारुणसंभवैः ॥ २३ ॥
बन्धयित्वावमुच्यापि गिरिदर्यामिवाब्रवीत् ।
असाविन्द्रो महामूढो यस्य मन्त्री बृहस्पतिः ॥ २४ ॥
प्रसन्नमिममत्यर्थमयाचल्लोकसम्पदम् ।
त्रैलोक्यमिदमैश्वर्यं कियदेवातितुच्छकम् ॥ २५ ॥
आशिषां प्रभवं मुक्त्वा यो मूढो लोकसम्पदि ।
अस्मत्पितामहः श्रीमान् प्रह्लादो भगवत्प्रियः ॥ २६ ॥
दास्यं वव्रे विभोस्तस्य सर्वलोकोपकारकः ।
पित्र्यमैश्वर्यमतुलं दीयमानं च विष्णुना ॥ २७ ॥
पितर्युपरते वीरे नैवैच्छद्‍भगवत्प्रियः ।
तस्यातुलानुभावस्य सर्वलोकोपधीमतः ॥ २८ ॥
अस्मद्विधो नाल्पपक्वेतरदोषोऽवगच्छति ।
एवं दैत्यपतिः सोऽयं बलिः परमपूजितः ॥ २९ ॥
सुतले वर्तते यस्य द्वारपालो हरिः स्वयम् ।
एकदा दिग्विजये राजा रावणो लोकरावणः ॥ ३० ॥
प्रविशन्सुतले येन भक्तानुग्रहकारिणा ।
पादाङ्गुष्ठेन प्रक्षिप्तो योजनायुतमत्र हि ॥ ३१ ॥
एवंभूतानुभावोऽयं बलिः सर्वसुखैकभुक् ।
आस्ते सुतलराजस्थो देवदेवप्रसादतः ॥ ३२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे अतलवितलसुतललोकवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥