देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः २२

नरकप्रदपातकवर्णनम्

नारद उवाच
कर्मभेदाः कतिविधाः सनातनमुने मम ।
श्रोतव्याः सर्वथैवैते यातनाप्राप्तिभूमयः ॥ १ ॥
श्रीनारायण उवाच
यो वै परस्य वित्तानि दारापत्यानि चैव हि ।
हरते स हि दुष्टात्मा यमानुचरगोचरः ॥ २ ॥
कालपाशेन सम्बद्धो याम्यैरतिभयानकैः ।
तामिस्रनामनरके पात्यते यातनास्पदे ॥ ३ ॥
ताडनं दण्डनं चैव सन्तर्जनमतः परम् ।
याम्याः कुर्वन्ति पाशाढ्याः कश्मलं याति चैव हि ॥ ४ ॥
मूर्च्छामायाति विवशो नारकी पद्मभूसुत ।
यः पतिं वञ्चयित्वा तु दारादीनुपभुज्यति ॥ ५ ॥
अन्धतामिस्रनरके पात्यते यमकिङ्करैः ।
पात्यमानो यत्र जन्तुर्वेदनापरवान्भवेत् ॥ ६ ॥
नष्टदृष्टिर्नष्टमतिर्भवत्येवाविलम्बतः ।
वनस्पतिर्भज्यमानमूलो यद्वद्‍भवेदिह ॥ ७ ॥
तस्मादप्यन्धतामिस्रनाम्ना प्रोक्तः पुरातनैः ।
एतन्ममाहमिति यो भूतद्रोहेण केवलम् ॥ ८ ॥
पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलम्पटः ।
एतद्विहाय चात्रैव स्वाशुभेन पतेदिह ॥ ९ ॥
रौरवे नाम नरके सर्वसत्त्वभयावहे ।
इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा ॥ १० ॥
त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ।
तस्माद्‌रौरवमित्याहुः पुराणज्ञा मनीषिणः ॥ ११ ॥
रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः ।
एवं महारौरवाख्यो नरको यत्र पूरुषः ॥ १२ ॥
यातनां प्राप्यमाणो हि यः परं देहसम्भवः ।
क्रव्यादा नाम रुरवस्तं क्रव्ये घातयन्ति च ॥ १३ ॥
य उग्रः पुरुषः क्रूरः पशुपक्षिगणानपि ।
उपरन्धयते मूढो याम्यास्तं रन्धयन्ति च ॥ १४ ॥
कुम्भीपाके तप्ततैले उपर्यपि च नारद ।
यावन्ति पशुरोमाणि तावद्वर्षसहस्रकम् ॥ १५ ॥
पितृविप्रब्राह्मणध्रुक्कालसूत्रे स नारके ।
अग्न्यर्काभ्यां तप्यमाने नारकी विनिवेशितः ॥ १६ ॥
क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः ।
आस्ते शेते चेष्टते चावतिष्ठति च धावति ॥ १७ ॥
निजवेदपथाद्यो वै पाखण्डं चोपयाति च ।
अनापद्यपि देवर्षे तं पापं पुरुषं भटाः ॥ १८ ॥
असिपत्रवनं नाम नरकं वेशयन्ति च ।
कशया प्रहरन्त्येव नारकी तद्‍गतस्तदा ॥ १९ ॥
इतस्ततो धावमान उत्तालमतिवेगतः ।
असिपत्रैश्छिद्यमान उभयत्र च धारभिः ॥ २० ॥
संछिद्यमानसर्वाङ्गो हाहतोऽस्मीति मूर्च्छितः ।
वेदनां परमां प्राप्तः पतत्येव पदे पदे ॥ २१ ॥
स्वधर्मानुगतं भुङ्क्ते पाखण्डफलमल्पधीः ।
यो राजा राजपुरुषो दण्डयेद्वै त्वधर्मतः ॥ २२ ॥
द्विजे शरीरदण्डं च पापीयान्नारकी च सः ।
नरके सूकरमुखे पात्यते यमकिङ्करैः ॥ २३ ॥
विनिष्यिष्टावयवको बलवद्‌भिस्तथेक्षुवत् ।
आर्तस्वरेण स्वनयन्मूर्च्छितः कश्मलङ्गतः ॥ २४ ॥
स पीड्यमानो बहुधा वेदनां यात्यतीव हि ।
विविक्तपरपीडो योऽप्यविविक्तपरव्यथाम् ॥ २५ ॥
ईश्वराङ्‌कितवृत्तीनां व्यथामाचरते स्वयम् ।
स चान्धकूपे पतति तदभिद्रोहयन्त्रिते ॥ २६ ॥
तत्रासौ जन्तुभिः क्रूरैः पशुभिर्मृगपक्षिभिः ।
सरीसृपैश्च मशकैर्यूकामत्कुणजातिभिः ॥ २७ ॥
मक्षिकाभिश्च तमसि दन्दशूकैश्च पीड्यते ।
परिक्रामति चैवात्र कुशरीरे च जन्तुवत् ॥ २८ ॥
यस्तु संविहितैः पञ्चयज्ञैः काकैश्च संस्तुतः ।
अश्नाति चासंविभज्य यत्किंञ्चिदुपपद्यते ॥ २९ ॥
स पापपुरुषः क्रूरैर्याम्यैश्च कृमिभोजने ।
नरकाधमके दुष्टकर्मणा परिपात्यते ॥ ३० ॥
लक्षयोजनविस्तीर्णे कृमिकुण्डे भयङ्करे ।
कृमिरूपं समासाद्य भक्ष्यमाणश्च तैः स्वयम् ॥ ३१ ॥
अप्रत्ताप्रहुतादो यः पातमाप्नोति तत्र वै ।
यस्तु स्तेयेन च बलाद्धिरण्यं रत्‍नमेव च ॥ ३२ ॥
ब्राह्मणस्यापहरति अन्यस्यापि च कस्यचित् ।
अनापदि च देवर्षे तममुत्र यमानुगाः ॥ ३३ ॥
अयस्मयैरग्निपिण्डैः सदृशैर्नित्कुषन्ति च ।
योऽगम्यां योषितं गच्छेदगम्यं पुरुषं च या ॥ ३४ ॥
तावमुत्रापि कशया ताडयन्तो यमानुगाः ।
तिग्मया लोहमय्या च सूर्म्याप्यालिङ्गयन्ति तम् ॥ ३५ ॥
तां चापि योषितं सूर्म्यालिङ्गयन्ति यमानुगाः ।
यस्तु सर्वाभिगमनः पुरुषः पापसञ्चयी ॥ ३६ ॥
निरयेऽमुत्र तं याम्याः शाल्मलीं रोपयन्ति तम् ।
वज्रकण्टकसंयुक्तां शाल्मलीं तामयस्मयीम् ॥ ३७ ॥
राजन्या राजपुरुषा ये वा पाखण्डवर्तिनः ।
धर्मसेतुं विभिन्दन्ति ते परेत्य गता नराः ॥ ३८ ॥
वैतरण्यां पतन्त्येव भिन्नमर्यादपातकाः ।
नद्यां निरयदुर्गस्य परिखायां च नारद ॥ ३९ ॥
यादोगणैः समन्तात्तु भक्ष्यमाणा इतस्ततः ।
नात्मना वियुजन्त्येव नासुभिश्चापि नारद ॥ ४० ॥
स्वीयेन कर्मपाकेनोपतपन्ति च सर्वतः ।
विण्मूत्रपूयरक्तैश्च केशास्थिनखमांसकैः ॥ ४१ ॥
मेदोवसासंयुतायां नद्यामुपपतन्ति ते ।
वृषलीपतयो ये च नष्टशौचा गतत्रपाः ॥ ४२ ॥
आचारनियमैस्त्यक्ताः पशुचर्यापरायणाः ।
तेऽत्रानुकष्टगतयो विण्मूत्रश्लेष्मरक्तकैः ॥ ४३ ॥
श्लेष्ममलसमापूर्णे निपतन्ति दुराग्रहाः ।
तदेव खादयन्त्येतान्यमानुचरवर्गकाः ॥ ४४ ॥
ये श्वानगर्दभादीनां पतयो वै द्विजातयः ।
मृगयारसिका नित्यमतीर्थे मृगघातकाः ॥ ४५ ॥
परेतांस्तान्यमभटा लक्षीभूतान्नराधमान् ।
इषुभिश्च विभिन्दन्ति तांस्तान्दुर्नयमागतान् ॥ ४६ ॥
ये दम्भा दम्भयज्ञेषु पशून्घ्नन्ति नराधमाः ।
तानमुष्मिन्यमभटा नरके वैशसे तदा ॥ ४७ ॥
निपात्य पीडयन्त्येव कशाघातैर्दुरासदैः ।
यो भार्यां च सवर्णां वै द्विजो मदनमोहितः ॥ ४८ ॥
रेतः पाययति मूढोऽमुत्र तं यमकिङ्कराः ।
रेतःकुण्डे पातयन्ति रेतः सम्पाययन्ति च ॥ ४९ ॥
ये दस्यवोऽग्निदाश्चैव गरदा सार्थघातकाः ।
ग्रामान्सार्थान्विलुम्पन्ति राजानो राजपूरुषाः ॥ ५० ॥
तान्परेतान्यमभटा नयन्ति श्वानकादनम् ।
विंशत्यथिकसंख्याताः सारमेया महाद्‍भुताः ॥ ५१ ॥
सप्तशत्या समाख्याता रभसं खादयन्ति ते ।
सारमेयादनं नाम नरकं दारुणं मुने ।
अतः परं प्रवक्ष्यामि अवीचिप्रभुखान्मुने ॥ ५२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
नरकप्रदपातकवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥