देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १५

नारायणनारदसंवादे शक्तिप्रादुर्भावः

नारद उवाच
नारायणप्रिया साध्वी कथं सा च बभूव ह ।
तुलसी कुत्र सम्भूता का वा सा पूर्वजन्मनि ॥ १ ॥
कस्य वा सा कुले जाता कस्य कन्या कुले सती ।
केन वा तपसा सा च सम्प्राप्ता प्रकृतेः परम् ॥ २ ॥
निर्विकारं निरीहं च सर्वविश्वस्वरूपकम् ।
नारायणं परं ब्रह्म परमेश्वरमीश्वरम् ॥ ३ ॥
सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम् ।
सर्वाधारं सर्वरूपं सर्वेषां परिपालकम् ॥ ४ ॥
कथमेतादृशी देवी वृक्षत्वं समवाप ह ।
कथं साप्यसुरग्रस्ता सम्बभूव तपस्विनी ॥ ५ ॥
सुस्निग्धं मे मनो लोलं प्रेरयन्मां मुहुर्मुहुः ।
छेत्तुमर्हसि सन्देहं सर्वं सन्देहभञ्जन ॥ ६ ॥
श्रीनारायण उवाच
मनुश्च दक्षसावर्णिः पुण्यवान् वैष्णवः शुचिः ।
यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्‍भवः ॥ ७ ॥
तत्पुत्रो ब्रह्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः ।
तत्पुत्रो धर्मसावर्णिर्वैष्णवश्च जितेन्द्रियः ॥ ८ ॥
तत्पुत्रो रुद्रसावर्णिर्भक्तिमान्विजितेन्द्रियः ।
तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः ॥ ९ ॥
तत्पुत्र इन्द्रसावर्णिर्महाविष्णुपरायणः ।
वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः ॥ १० ॥ (वृक्षध्वज पाठभेद)
यस्याश्रमे स्वयं शम्भुरासीद्देवयुगत्रयम् ।
पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च ॥ ११ ॥
न च नारायणं मेने न लक्ष्मीं न सरस्वतीम् ।
पूजां च सर्वदेवानां दूरीभूता चकार सः ॥ १२ ॥
भाद्रे मासि महालक्ष्मीपूजां मत्तो बभञ्ज ह ।
तथा माघीयपञ्चम्यां विस्मृता सर्वदैवतैः ॥ १३ ॥
पापः सरस्वतीपूजां दूरीभूता चकार सः ।
यज्ञं च विष्णुपूजां च निन्दन्तं तं दिवाकरः ॥ १४ ॥
चुकोप देवो भूपेन्द्रं शशाप शिवकारणात् ।
भ्रष्टश्रीस्त्वञ्च भवेति तं शशाप दिवाकरः ॥ १५ ॥
शूलं गृहीत्वा तं सूर्यमधावच्छङ्‌करः स्वयम् ।
पित्रा सार्धं दिनेशश्च ब्रह्माणं शरणं ययौ ॥ १६ ॥
शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा ।
ब्रह्मा सूर्यं पुरस्कृत्य वैकुण्ठं च ययौ भिया ॥ १७ ॥
ब्रह्मकश्यपमार्तण्डाः सन्त्रस्ताः शुष्कतालुकाः ।
नारायणं च सर्वेशं ते ययुः शरणं भिया ॥ १८ ॥
मूर्छा प्रणेमुस्ते गत्वा तुष्टुवुश्च पुनः पुनः ।
सर्वं निवेदनं चक्रुर्भयस्य कारणं हरौ ॥ १९ ॥
नारायणश्च कृपया तेभ्यश्च ह्यभयं ददौ ।
स्थिरा भवत हे भीता भयं किञ्च मयि स्थिते ॥ २० ॥
स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः ।
तांस्तत्र गत्वा रक्षामि चक्रहस्तस्त्वरान्वितः ॥ २१ ॥
पाताहं जगतां देवाः कर्ता च सततं सदा ।
स्रष्टा च ब्रह्मरूपेण संहर्ता शिवरूपतः ॥ २२ ॥
शिवोऽहं त्वमहं चापि सूर्योऽहं त्रिगुणात्मकः ।
विधाय नानारूपं च करोमि सृष्टिपालनम् ॥ २३ ॥
यूयं गच्छत भद्रं वो भविष्यति भयं कुतः ।
अद्यप्रभृति मद्वरेण भयं वो नास्ति शङ्‌करात् ॥ २४ ॥
सर्वेशो वै स भगवाच्छङ्‌करश्च सतां पतिः ।
भक्ताधीनश्च भक्तानां भक्तात्मा भक्तवत्सलः ॥ २५ ॥
सुदर्शनः शिवश्चैव मम प्राणाधिकः प्रियः ।
ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः ॥ २६ ॥
शक्तः स्रष्टुं महादेवः सूर्यकोटिं च लीलया ।
कोटिं च ब्रह्मणामेवं नासाध्यं शूलिनः प्रभोः ॥ २७ ॥
बाह्यज्ञानं नैव किञ्चिद्ध्यायते मां दिवानिशम् ।
मन्मन्त्रान्मद्‌गुणान्भक्त्या पञ्चवक्त्रेण गायति ॥ २८ ॥
अहमेवं चिन्तयामि तत्कल्याणं दिवानिशम् ।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ २९ ॥
शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता ।
शिवं भवति तस्माच्च शिवं तेन विदुर्बुधाः ॥ ३० ॥
एतस्मिन्नन्तरे तत्र जगाम शङ्‌करः स्थितः ।
शूलहस्तो वृषारूढो रक्तपङ्‌कजलोचनः ॥ ३१ ॥
अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः ।
ननाम भक्त्या तं शान्तं लक्ष्मीकान्तं परात्परम् ॥ ३२ ॥
रत्‍नसिंहासनस्थं च रत्‍नालङ्‌कारभूषितम् ।
किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम् ॥ ३३ ॥
नवीननीरदश्यामं सुन्दरं च चतुर्भुजम् ।
चतुर्भुजैः सेवितं च श्वेतचामरवायुना ॥ ३४ ॥
चन्दनोक्षितसर्वाङ्‌गं भूषितं पीतवाससम् ।
लक्ष्मीप्रदत्तताम्बूलं भुक्तवन्तं च नारद ॥ ३५ ॥
विद्याधरीनृत्यगीतं पश्यन्तं सस्मितं सदा ।
ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम् ॥ ३६ ॥
तं ननाम महादेवो ब्रह्मणा नमितश्च सः ।
ननाम सूर्यो भक्त्या च सन्त्रस्तश्चन्द्रशेखरम् ॥ ३७ ॥
कश्यपश्च महाभक्त्या तुष्टाव च ननाम च ।
शिवः संस्तूय सर्वेशं समुवास सुखासने ॥ ३८ ॥
सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् ।
श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ॥ ३९ ॥
पीयूषतुल्यमधुरं वचनं सुमनोहरम् ।
विष्णुरुवाच
आगतोऽसि कथं चात्र वद कोपस्य कारणम् ॥ ४० ॥
महादेव उवाच
वृषध्वजं च मद्‍भक्तं मम प्राणाधिकं प्रियम् ।
सूर्यः शशाप इति मे प्रकोपस्य तु कारणम् ॥ ४१ ॥
पुत्रवत्सलशोकेन सूर्यं हन्तुं समुद्यतः ।
स ब्रह्माणं प्रपन्नश्च सूर्यश्च स विधिस्त्वयि ॥ ४२ ॥
त्वयि ये शरणापन्ना ध्यानेन वचसापि वा ।
निरापदो विशङ्‌कास्ते जरा मृत्युश्च तैर्जितः ॥ ४३ ॥
प्रत्यक्षं शरणापन्नास्तत्फलं किं वदामि भोः ।
हरिस्मृतिश्चाभयदा सर्वमङ्‌गलदा सदा ॥ ४४ ॥
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो ।
श्रीहतस्यास्य मूढस्य सूर्यशापेन हेतुना ॥ ४५ ॥
विष्णुरुवाच
कालोऽतियातो दैवेन युगानामेकविंशतिः ।
वैकुण्ठं घटिकार्धेन शीघ्रं गच्छ त्वमालयम् ॥ ४६ ॥
वृषध्वजो मृतः कालाद्दुर्निवार्यात्सुदारुणात् ।
रथध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः ॥ ४७ ॥
तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ ।
हृतश्रियौ सूर्यशापात्स्मृतौ परमवैष्णवौ ॥ ४८ ॥
राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातपसा रतौ ।
तयोश्च भार्ययोर्लक्ष्मीः कलया च भविष्यति ॥ ४९ ॥
सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः ।
मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत ॥ ५० ॥
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरंगतः ।
देवा जग्मुः सम्प्रहृष्टाः स्वाश्रमं परया मुदा ।
शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ ॥ ५१ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शक्तिप्रादुर्भावो नाम पञ्चदशोऽध्यायः ॥ १५ ॥