देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः २२

कालीशङ्‌खचूडयुद्धवर्णनम्

श्रीनारायण उवाच
शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् ।
समारुरोह यानं च सहामात्यैः स सत्वरः ॥ १ ॥
शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरम् ।
दानवेन्द्रः ससैन्यश्च युद्धारम्भे बभूव ह ॥ २ ॥
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ ३ ॥
दम्भेन सह चन्द्रश्च चकार परमं रणम् ।
कालस्वरेण कालश्च गोकर्णेन हुताशनः ॥ ४ ॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ।
भयङ्‌करेण मृत्युश्च संहारेण यमस्तथा ॥ ५ ॥
विकङ्‌कणेन वरुणश्चञ्चलेन समीरणः ।
बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ ६ ॥
जयन्तो रत्‍नसारेण वसवो वर्चसां गणैः ।
अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः ॥ ७ ॥
धुरन्धरेण धर्मश्च उषाक्षेण च मङ्‌गलः ।
शोभाकरेण वै भानुः पिठरेण च मन्मथः ॥ ८ ॥
गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च ।
काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना ॥ ९ ॥
विश्वेन च पलाशेनादित्याद्या युयुधुः परे ।
एकादश च रुद्रा वै एकादशभयङ्‌करैः ॥ १० ॥
महामारी च युयुधे चोग्रचण्डादिभिः सह ।
नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ ११ ॥
युयुधुश्च महायुद्धे प्रलयेऽपि भयङ्‌करे ।
वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च ॥ १२ ॥
सर्वे च युयुधुः सैन्यसमूहाः सततं मुने ।
रत्‍नसिंहासने रम्ये कोटिभिर्दानवैः सह ॥ १३ ॥
उवास शङ्‌खचूडश्च रत्‍नभूषणभूषितः ।
शङ्‌करस्य च ये योधा दानवैश्च पराजिताः ॥ १४ ॥
देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविग्रहाः ।
चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ॥ १५ ॥
बलं च स्वर्गणानां च वर्धयामास तेजसा ।
सोऽयमेकश्च युयुधे दानवानां गणैः सह ॥ १६ ॥
अक्षौहिणीनां शतकं समरे च जघान सः ।
असुरान्पातयामास काली कमललोचना ॥ १७ ॥
पपौ रक्तं दानवानामतिकुद्धा ततः परम् ।
दशलक्षगजेन्द्राणां शतलक्षं च कोटिशः ॥ १८ ॥
समादायैकहस्तेन मुखे चिक्षेप लीलया ।
कबन्धानां सहस्रं च ननर्त समरे मुने ॥ १९ ॥
स्कन्दस्य शरजालेन दानवाः क्षतविग्रहाः ।
भीताश्च दुद्रुवुः सर्वे महारणपराक्रमाः ॥ २० ॥
वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्‌कणः ।
स्कन्देन सार्धं युयुधुस्ते सर्वे विक्रमेण च ॥ २१ ॥
महामारी च युयुधे न बभूव पराङ्‌मुखी ।
बभूवुस्ते च संक्षुब्धाः स्कन्दस्य शक्तिपीडिताः ॥ २२ ॥
न दुद्रुवुर्भयात्स्वर्गे पुष्पवृष्टिर्बभूव ह ।
स्कन्दस्य समरं दृष्ट्वा महारौद्रं समुल्बणम् ॥ २३ ॥
दानवानां क्षयकरं यथा प्राकृतिको लयः ।
राजा विमानमारुह्य चकार बाणवर्षणम् ॥ २४ ॥
नृपस्य शरवृष्टिश्च घनस्य वर्षणं यथा ।
महाघोरान्धकारश्च वह्न्युत्थानं बभूव च ॥ २५ ॥
देवाः प्रदुद्रुवुः सर्वेऽप्यन्ये नन्दीश्वरादयः ।
एक एव कार्तिकेयस्तस्थौ समरमूर्धनि ॥ २६ ॥
पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।
नृपश्चकार वृष्टिं च दुर्वारां च भयङ्‌करीम् ॥ २७ ॥
नृपस्य शरवृष्ट्या च प्रहितः शिवनन्दनः ।
नीहारेण च सान्द्रेण प्रहितो भास्करो यथा ॥ २८ ॥
धनुश्चिच्छेद स्कन्दस्य दुर्वहं च भयङ्‌करः ।
बभञ्ज च रथं दिव्यं चिच्छेद रथपीठकान् ॥ २९ ॥
मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।
शक्तिं चिक्षेप सूर्याभां तस्य वक्षस्य घातिनीम् ॥ ३० ॥
क्षणं मूर्च्छां च सम्प्राप बभूव चेतनः पुनः ।
गृहीत्वा तद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ॥ ३१ ॥
रत्‍नेन्द्रसारनिर्माणयानमारुह्य कार्तिकः ।
शस्त्रास्त्रं च गृहीत्वा च चकार रणमुल्बणम् ॥ ३२ ॥
सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ।
सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ ३३ ॥
वह्निं निर्वापयामास पार्जन्येन प्रतापवान् ।
रथं धनुश्च चिच्छेद शङ्‌खचूडस्य लीलया ॥ ३४ ॥
सन्नाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् ।
चिक्षेप शक्तिं शुक्लाभां दानवेन्द्रस्य वक्षसि ॥ ३५ ॥
मूर्च्छां सम्प्राप्य राजा च चेतनश्च बभूव ह ।
आरुरोह यानमन्यद्धनुर्जग्राह सत्वरः ॥ ३६ ॥
चकार शरजालं च मायया मायिनां वरः ।
गुहं चच्छाद समरे शरजालेन नारद ॥ ३७ ॥
जग्राह शक्तिमव्यग्रां शतसूर्यसमप्रभाम् ।
प्रलयाग्निशिखारूपां विष्णोश्च तेजसाऽऽवृताम् ॥ ३८ ॥
चिक्षेप तां च कोपेन महावेगेन कार्तिके ।
पपात शक्तिस्तद्‌गात्रे वह्निराशिरिवोज्ज्वला ॥ ३९ ॥
मूर्च्छां सम्प्राप शक्त्या च कार्तिकेयो महाबलः ।
काली गृहीत्वा तं क्रोडे निनाय शिवसनिधौ ॥ ४० ॥
शिवस्तं चापि ज्ञानेन जीवयामास लीलया ।
ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान् ॥ ४१ ॥
काली जगाम समरं रक्षितुं कार्तिकस्य या ।
वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ ४२ ॥
सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः ।
वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः ॥ ४३ ॥
सा च गत्वाथ संग्रामं सिंहनादं चकार च ।
देव्याश्च सिंहनादेन प्रापुर्मूर्च्छां च दानवाः ॥ ४४ ॥
अट्टाट्टहासमशिवं चकार च पुनः पुनः ।
दृष्ट्वा पपौ च माध्वीकं ननर्त रणमूर्धनि ॥ ४५ ॥
उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु ।
योगिनीडाकिनीनां च गणाः सुरगणादयः ॥ ४६ ॥
दृष्ट्वा कालीं शङ्‌खचूडः शीघ्रमाजौ समाययौ ।
दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ॥ ४७ ॥
काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् ।
राजा निर्वापयामास पार्जन्येन च लीलया ॥ ४८ ॥
चिक्षेप वारुणं सा च तीव्रं च महदद्‍भुतम् ।
गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया ॥ ४९ ॥
माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् ।
राजा जघान तं शीघ्रं वैष्णवेन च लीलया ॥ ५० ॥
नारायणास्त्रं सा देवी चिक्षेप मन्त्रपूर्वकम् ।
राजा ननाम तद्‌ दृष्ट्वा चावरुह्य रथादसौ ॥ ५१ ॥
ऊर्ध्वं जगाम तच्चास्त्रं प्रलयाग्निशिखोपमम् ।
पपात शङ्‌खचूडश्च भक्त्या तं दण्डवद्‌भुवि ॥ ५२ ॥
ब्रह्मास्त्रं सा च चिक्षेप यत्‍नतो मन्त्रपूर्वकम् ।
ब्रह्मास्त्रेण महाराजो निर्वापं च चकार सः ॥ ५३ ॥
तदा चिक्षेप दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् ।
राजा दिव्यास्त्रजालेन तन्निर्वाणं चकार च ॥ ५४ ॥
तदा चिक्षेप शक्तिं च यत्‍नतो योजनायताम् ।
राजा दिव्यास्त्रजालेन शतखण्डां चकार ह ॥ ५५ ॥
जग्राह मन्त्रपूतं च देवी पाशुपतं रुषा ।
निक्षेपणं निरोद्धुं च वाग्बभूवाशरीरिणी ॥ ५६ ॥
मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः ।
यावदस्ति च मन्त्रस्य कवचं च हरेरिति ॥ ५७ ॥
यावत्सतीत्वमस्त्येव सत्याश्च नृपयोषितः ।
तावदस्य जरामृत्युर्नास्तीति ब्रह्मणो वचः ॥ ५८ ॥
इत्याकर्ण्य भद्रकाली न तच्चिक्षेप शस्त्रकम् ।
शतलक्षं दानवानां जग्रास लीलया क्षुधा ॥ ५९ ॥
ग्रस्तुं जगाम वेगेन शङ्‌खचूडं भयङ्‌करी ।
दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ॥ ६० ॥
खड्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं यथा ।
दिव्यास्त्रेण दानवेन्द्रः शतखण्डं चकार सः ॥ ६१ ॥
पुनर्ग्रस्तुं महादेवी वेगेन च जगाम तम् ।
सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः ॥ ६२ ॥
वेगेन मुष्टिना काली कोपयुक्ता भयङ्‌करी ।
बभञ्ज च रथं तस्य जघान सारथिं सती ॥ ६३ ॥
सा च शूलं प्रचिक्षेप प्रलयाग्निशिखोपमम् ।
वामहस्तेन जग्राह शङ्‌खचूडः स्वलीलया ॥ ६४ ॥
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ।
बभ्राम च तया दैत्यः क्षणं मूर्च्छामवाप च ॥ ६५ ॥
क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् ।
न चकार बाहुयुद्धं देव्या सह ननाम ताम् ॥ ६६ ॥
देव्याश्चास्त्रं स चिच्छेद जग्राह च स्वतेजसा ।
नास्त्रं चिक्षेप तां भक्तो मातृभक्त्या तु वैष्णवः ॥ ६७ ॥
गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः ।
ऊर्ध्वं च प्रापयामास महावेगेन कोपिता ॥ ६८ ॥
ऊर्ध्वात्पपात वेगेन शङ्‌खचूडः प्रतापवान् ।
निपत्य च समुत्तस्थौ प्रणम्य भद्रकालिकाम् ॥ ६९ ॥
रत्‍नेन्द्रसारनिर्माणं विमानं सुमनोहरम् ।
आरुरोह हर्षयुक्तो न विश्रान्तो महारणे ॥ ७० ॥
दानवानां च क्षतजं सा देवी च पपौ क्षुधा ।
पीत्वा भुक्त्वा भद्रकाली जगाम शङ्करान्तिकम् ॥ ७१ ॥
उवाच रणवृत्तान्तं पौर्वापर्यं यथाक्रमम् ।
श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम् ॥ ७२ ॥
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ।
भुञ्जन्त्या निर्गतं वक्त्रात्तदन्यं भुक्तमीश्वर ॥ ७३ ॥
संग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै ।
अवध्यस्तव राजेति वाग्बभूवाशरीरिणी ॥ ७४ ॥
राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः ।
न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ॥ ७५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसवादे कालीशङ्‌खचूडयुद्धवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥