देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः २७
सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम्
श्रीनारायण उवाव
स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् ।
ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम् ॥ १ ॥
उवाच सा च राजानं प्रसन्ना सस्मिता सती ।
यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा ॥ २ ॥
सावित्र्युवाच
जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् ।
वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम् ॥ ३ ॥
साध्वी कन्याभिलाषं च करोति तव कामिनी ।
त्वं प्रार्थयसि पुत्रं च भविष्यति क्रमेण च ॥ ४ ॥
इत्युक्त्वा सा तदा देवी ब्रह्मलोकं जगाम ह ।
राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह ॥ ५ ॥
आराधनाच्च सावित्र्या बभूव कमला परा ।
सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः ॥ ६ ॥
कालेन सा वर्धमाना बभूव च दिने दिने ।
रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा ॥ ७ ॥
सा वरं वरयामास द्युमत्सेनात्मजं तदा ।
सत्यवन्तं सत्यशीलं नानागुणसमन्वितम् ॥ ८ ॥
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् ।
सोऽपि सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ ॥ ९ ॥
स च संवत्सरेऽतीते सत्यवान् सत्यविक्रमः ।
जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया ॥ १० ॥
जगाम साध्वी तत्पश्चात्सावित्री दैवयोगतः ।
निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान् ॥ ११ ॥
यमस्तं पुरुषं दृष्ट्वा बद्ध्वाङ्गुष्ठसमं मुने ।
गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती ॥ १२ ॥
पश्चात्तां सुदतीं दृष्ट्वा यमः संयमनीपतिः ।
उवाच मधुरं साध्वीं साधूनां प्रवरो महान् ॥ १३ ॥
धर्मराज उवाच
अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् ।
यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज ॥ १४ ॥
गन्तुं मर्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम् ।
देहं च मम लोकं च नश्वरं नश्वरः सदा ॥ १५ ॥
भर्तुस्ते पूर्णकालो वै बभूव भारते सति ।
स्वकर्मफलभोगार्थं सत्यवान् याति मद्गृहम् ॥ १६ ॥
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।
सुखं दुःखं भयं शोकः कर्मणैव प्रणीयते ॥ १७ ॥
कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा ।
स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत् ॥ १८ ॥
स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् ।
लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम् ॥ १९ ॥
सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः ।
कर्मणा च शिवत्वं च गणेशत्वं तथैव च ॥ २० ॥
कर्मणा च मुनीन्द्रत्वं तपस्वित्वं स्वकर्मणा ।
स्वकर्मणा क्षत्रियत्वं वैश्यत्वं च स्वकर्मणा ॥ २१ ॥
कर्मणैव च म्लेच्छत्वं लभते नात्र संशयः ।
स्वकर्मणा जङ्गमत्वं शैलत्वं च स्वकर्मणा ॥ २२ ॥
कर्मणा राक्षसत्वं च किन्नरत्वं स्वकर्मणा ।
कर्मणैवाधिपत्यं च वृक्षत्वं च स्वकर्मणा ॥ २३ ॥
कर्मणैव पशुत्वं च वनजीवी स्वकर्मणा ।
कर्मणा क्षुद्रजन्तुत्वं कृमित्वं च स्वकर्मणा ॥ २४ ॥
दैतेयत्वं दानवत्वमसुरत्वं स्वकर्मणा ।
इत्येतदुक्त्वा सावित्रीं विरराम स वै यमः ॥ २५ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥