देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ४३

स्वाहोपाख्यानवर्णनम्

नारद उवाच
नारायण महाभाग नारायण महाप्रभो ।
रूपेणैव गुणेनैव यशसा तेजसा त्विषा ॥ १ ॥
त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां मुने ।
तपस्विनां मुनीनां च परो वेदविदांवर ॥ २ ॥
महालक्ष्म्या उपाख्यानं विज्ञातं महदद्‍भुतम् ।
अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम् ॥ ३ ॥
अतीव गोपनीयं यदुपयुक्तं च सर्वतः ।
अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम् ॥ ४ ॥
श्रीनारायण उवाच
नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः ।
श्रुतं कतिविधं गूढमास्ते ब्रह्मन् सुदुर्लभम् ॥ ५ ॥
तेषु यत्सारभूतं च श्रोतुं किं वा त्वमिच्छसि ।
तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः ॥ ६ ॥
नारद उवाच
स्वाहा देवी हविर्दाने प्रशस्ता सर्वकर्मसु ।
पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा ॥ ७ ॥
एतासां चरितं जन्मफलं प्राधान्यमेव च ।
श्रोतुमिच्छामि त्वद्वक्त्राद्‌वद वेदविदांवर ॥ ८ ॥
सूत उवाच
नारदस्य वचः श्रुत्वा प्रहस्य मुनिसत्तमः ।
कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥ ९ ॥
श्रीनारायण उवाच
सृष्टेः प्रथमतो देवाः स्वाहारार्थं ययुः पुरा ।
ब्रह्मलोकं ब्रह्मसभामाजग्मुः सुमनोहराम् ॥ १० ॥
गत्वा निवेदनं चक्रुराहारहेतुकं मुने ।
ब्रह्मा श्रुत्वा प्रतिज्ञाय निषेवे श्रीहरिं परम् ॥ ११ ॥
नारद उवाच
यज्ञरूपो हि भगवान् कलया च बभूव ह ।
यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च ब्राह्मणैः ॥ १२ ॥
श्रीनारायण उवाच
हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः ।
सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुङ्‌गव ॥ १३ ॥
देवा विषण्णास्ते सर्वे तत्सभां च ययुः पुनः ।
गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ॥ १४ ॥
ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णं शरणं ययौ ।
पूजाञ्चकार प्रकृतेध्यानेनैव तदाज्ञया ॥ १५ ॥
प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी ।
अतीव सुन्दरी श्यामा रमणीया मनोहरा ॥ १६ ॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा ।
उवाचेति विधेरग्रे पद्मयोने वरं वृणु ॥ १७ ॥
विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् ।
प्रजापतिरुवाच
त्वमग्नेर्दाहिका शक्तिर्भव यातीव सुन्दरी ॥ १८ ॥
दग्धुं न शक्तः प्रकृतीर्हुताशश्च त्वया विना ।
त्वन्नामोच्चार्य मन्त्रान्ते यो दास्यति हविर्नरः ॥ १९ ॥
सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् ।
अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी ॥ २० ॥
देवानां पूजिता शश्वन्नरादीनां भवाम्बिके ।
ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह ॥ २१ ॥
तमुवाच ततो देवी स्वाभिप्रायं स्वयम्भुवम् ।
स्वाहोवाच
अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ॥ २२ ॥
ब्रह्मंस्तदन्यं यत्किञ्चित्स्वप्नवद्‌ भ्रममेव च ।
विधाता जगतस्त्वं च शम्भुर्मृत्युञ्जयो विभुः ॥ २३ ॥
बिभर्ति शेषो विश्वं च धर्मः साक्षी च धर्मिणाम् ।
सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ॥ २४ ॥
प्रकृतिः सर्वसम्पूज्या यत्प्रसादात्पुराभवत् ।
ऋषयो मुनयश्चैव पूजिता यन्निषेवया ॥ २५ ॥
तत्पादपद्मं नियतं भावेन चिन्तयाम्यहम् ।
पद्मास्या पाद्यमित्युक्त्वा पद्मनाभानुसारतः ॥ २६ ॥
जगाम तपसे देवी ध्यात्वा कृष्णं निरामयम् ।
तपस्तेपे वर्षलक्षमेकपादेन पद्मजा ॥ २७ ॥
तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् ।
अतीव कमनीयं च रूपं दृष्ट्वा च रूपिणी ॥ २८ ॥
मूर्च्छां सम्प्राप कालेन कामेशस्य च कामुकी ।
विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच ह ॥ २९ ॥
समुत्थाप्य च तां क्रोडे क्षीणाङ्‌गीं तपसा चिरम् ।
श्रीभगवानुवाच
वाराहे वै त्वमंशेन मम पत्‍नी भविष्यसि ॥ ३० ॥
नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च ।
अधुनाग्नेर्दाहिका त्वं भव पत्‍नी च भामिनी ॥ ३१ ॥
मन्त्राङ्‌गरूपा पूज्या च मत्प्रसादाद्‌ भविष्यसि ।
वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम् ॥ ३२ ॥
रमिष्यति त्वया सार्धं रामया रमणीयया ।
इत्युक्त्वान्तर्दधे देवो देवीं सम्भाष्य नारद ॥ ३३ ॥
तत्राजगाम सन्त्रस्तो वह्निर्ब्रह्मनिदेशतः ।
सामवेदोक्तध्यानेन ध्यात्वा तां जगदम्बिकाम् ॥ ३४ ॥
सम्पूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः ।
तदा दिव्यं वर्षशतं स रेमे रामया सह ॥ ३५ ॥
अतीव निर्जने देशे सम्भोगसुखदे सदा ।
बभूव गर्भस्तस्यां च हुताशस्य च तेजसा ॥ ३६ ॥
तं दधार च सा देवी दिव्यं द्वादशवत्सरम् ।
ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान् ॥ ३७ ॥
दक्षिणाग्निगार्हपत्याहवनीयान् क्रमेण च ।
ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः ॥ ३८ ॥
स्वाहान्तं मन्त्रमुच्चार्य हविर्दानं च चक्रिरे ।
स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम् ॥ ३९ ॥
सर्वसिद्धिर्भवेत्तस्य मन्त्रग्रहणमात्रतः ।
विषहीनो यथा सर्पो वेदहीनो यथा द्विजः ॥ ४० ॥
पतिसेवाविहीना स्त्री विद्याहीनो यथा पुमान् ।
फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः ॥ ४१ ॥
स्वाहाहीनस्तथा मन्त्रो न हुतः फलदायकः ।
परितुष्टा द्विजाः सर्वे देवाः सम्प्रापुराहुतीः ॥ ४२ ॥
स्वाहान्तेनैव मन्त्रेण सफलं सर्वमेव च ।
इत्येवं कथितं सर्वं स्वाहोपाख्यानमुत्तमम् ॥ ४३ ॥
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।
नारद उवाच
स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर ॥ ४४ ॥
सम्पूज्य वह्निस्तुष्टाव येन तद्वद मे प्रभो ।
श्रीनारायण उवाच
ध्यानं च सामवेदोक्तं स्तोत्रपूजाविधानकम् ॥ ४५ ॥
वदामि श्रूयतां ब्रह्मन् सावधानो मुनीश्वर ।
सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा ॥ ४६ ॥
स्वाहां सम्पूज्य यत्‍नेन यज्ञं कुर्यात्कलाप्तये ।
स्वाहां मन्त्राङ्‌गयुक्तां च मन्त्रसिद्धिस्वरूपिणीम् ॥ ४७ ॥
सिद्धां च सिद्धिदां नॄणां कर्मणां फलदां शुभाम् ।
इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः ॥ ४८ ॥
सर्वसिद्धिं लभेत्स्तुत्वा मूलमन्त्रं मुने शृणु ।
ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च ॥ ४९ ॥
यः पूजयेच्च तां भक्त्या सर्वेष्टं सम्भवेद्‌ ध्रुवम् ।
वह्निरुवाच
स्वाहा वह्निप्रिया वह्निजाया सन्तोषकारिणी ॥ ५० ॥
शक्तिः क्रिया कालदात्री परिपाककरी ध्रुवा ।
गतिः सदा नराणां च दाहिका दहनक्षमा ॥ ५१ ॥
संसारसाररूपा च घोरसंसारतारिणी ।
देवजीवनरूपा च देवपोषणकारिणी ॥ ५२ ॥
षोडशैतानि नामानि यः पठेद्‍भक्तिसंयुतः ।
सर्वसिद्धिर्भवेत्तस्य इह लोके परत्र च ॥ ५३ ॥
नाङ्‌गहीनं भवेत्तस्य सर्वं कर्म सुशोभनम् ।
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ॥ ५४ ॥
रम्भोपमां स्वकान्तां च सम्प्राप्य सुखमाप्नुयात् ॥ ५५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वाहोपाख्यानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥