देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ४७

मङ्‌गलचण्डीमनसयोरुपाख्यानवर्णनम्

श्रीनारायण उवाच
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् ।
देवी मङ्‌गलचण्डी च तदाख्यानं निशामय ॥ १ ॥
तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् ।
श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि ॥ २ ॥
दक्षा या वर्तते चण्डी कल्याणेषु च मङ्‌गला ।
मङ्‌गलेषु च या दक्षा सा च मङ्‌गलचण्डिका ॥ ३ ॥
पूज्या या वर्तते चण्डी मङ्‌गलोऽपि महीसुतः ।
मङ्‌गलाभीष्टदेवी या सा वा मङ्‌गलचण्डिका ॥ ४ ॥
मङ्‌गलो मनुवंश्यश्च सप्तद्वीपधरापतिः ।
तस्य पूज्याभीष्टदेवी तेन मङ्‌गलचण्डिका ॥ ५ ॥
मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।
कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥ ६ ॥
प्रथमे पूजिता सा च शङ्‌करेण परात्परा ।
त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥ ७ ॥
ब्रह्मन् ब्रह्मोपदेशेन दुर्गतेन च सङ्‌कटे ।
आकाशात्पतिते याने दैत्येन पातिते रुषा ॥ ८ ॥
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्‌करः ।
सा च मङ्‌गलचण्डी या बभूव रूपभेदतः ॥ ९ ॥
उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो ।
भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति ॥ १० ॥
युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः ।
मायात्मना च हरिणा सहायेन वृषध्वज ॥ ११ ॥
जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् ।
इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥ १२ ॥
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ।
मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः ॥ १३ ॥
तुष्टुवुः शङ्‌करं देवं भक्तिनम्रात्मकन्धराः ।
सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह ॥ १४ ॥
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ।
ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्‌करस्तथा ॥ १५ ॥
पूजयामास तां भक्त्या देवीं मङ्‌गलचण्डिकाम् ।
पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि ॥ १६ ॥
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ।
छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा ॥ १७ ॥
वस्त्रालङ्‌कारमाल्यैश्च पायसैः पिष्टकैरपि ।
मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि ॥ १८ ॥
सङ्‌गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः ।
ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम् ॥ १९ ॥
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ।
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्‌गलचण्डिके ॥ २० ॥
हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः ।
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ॥ २१ ॥
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद्‌ ध्रुवम् ।
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम् ॥ २२ ॥
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ २३ ॥
श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् ।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ॥ २४ ॥
संसारसागरे घोरे ज्योतीरूपां सदा भजे ।
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ॥ २५ ॥
महादेव उवाच
रक्ष रक्ष जगन्मातर्देवि मङ्‌गलचण्डिके ।
हारिके विपदां राशेर्हर्षमङ्‌गलकारिके ॥ २६ ॥
हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके ।
शुभे मङ्गलदक्षे च शुभे मङ्‌गलचण्डिके ॥ २७ ॥
मङ्‌गले मङ्‌गलार्हे च सर्वमङ्‌गलमङ्‌गले ।
सतां मङ्‌गदे देवि सर्वेषां मङ्गलालये ॥ २८ ॥
पूज्ये मङ्‌गलवारे च मङ्‌गलाभीष्टदेवते ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ २९ ॥
मङ्‌गलाधिष्ठातृदेवि मङ्‌गलानां च मङ्‌गले ।
संसारमङ्‌गलाधारे मोक्षमङ्‌गलदायिनि ॥ ३० ॥
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् ।
प्रतिमङ्‌गलवारे च पूज्ये मङ्गसुखप्रदे ॥ ३१ ॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्‌गलचण्डिकाम् ।
प्रतिमङ्‌गलवारे च पूजां दत्त्वा गतः शिवः ॥ ३२ ॥
प्रथमे पूजिता देवी शिवेन सर्वमङ्‌गला ।
द्वितीये पूजिता सा च मङ्‌गलेन ग्रहेण च ॥ ३३ ॥
तृतीते पूजिता भद्रा मङ्‌गलेन नृपेण च ।
चतुर्थे मङ्‌गले वारे सुन्दरीभिः प्रपूजिता ॥ ३४ ॥
पञ्चमे मङ्‌गलाकाङ्‌क्षिनरैर्मङ्‌गलचण्डिका ।
पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥ ३५ ॥
ततः सर्वत्र सम्पूज्या बभूव परमेश्वरी ।
देवैश्च मुनिभिश्चैव मानवैर्मनुभिर्मुने ॥ ३६ ॥
देव्याश्च मङ्‌गस्तोत्रं यः शृणोति समाहितः ।
तन्मङ्‌गलं भवेत्तस्य न भवेत्तदमङ्‌गलम् ।
वर्धते पुत्रपौत्रैश्च मङ्‌गलं च दिने दिने ॥ ३७ ॥
श्रीनारायण उवाच
उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् ।
श्रूयतां मनसाऽऽख्यानं यच्छ्रुतं धर्मवक्त्रतः ॥ ३८ ॥
सा च कन्या भगवती कश्यपस्य च मानसी ।
तेनैव मनसा देवी मनसा या च दीव्यति ॥ ३९ ॥
मनसा ध्यायते या च परमात्मानमीश्वरम् ।
तेन सा मनसा देवी तेन योगेन दीव्यति ॥ ४० ॥
आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ ४१ ॥
जरत्कारुशरीरं च दृष्ट्वा यत्क्षीणमीश्वरः ।
गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ॥ ४२ ॥
वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः ।
पूजां च कारयामास चकार च स्वयं प्रभुः ॥ ४३ ॥
स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ।
भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । ४४
जगद्‌गौरीति विख्याता तेन सा पूजिता सती ।
शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता ॥ ४५ ॥
विष्णुभक्तातीव शश्वद्वैष्णवी तेन कीर्तिता ।
नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च ॥ ४६ ॥
नागेश्वरीति विख्याता सा नागभगिनीति च ।
विषं संहर्तुमीशा या तेन विषहरी स्मृता ॥ ४७ ॥
सिद्धयोगं हरात्प्राप तेन सा सिद्धयोगिनी ।
महाज्ञानं च योगं च मृतसज्जीवनीं पराम् ॥ ४८ ॥
महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः ।
आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी ॥ ४९ ॥
आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता ।
प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ॥ ५० ॥
योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः ।
जरत्कारुर्जगद्‌गौरी मनसा सिद्धयोगिनी ॥ ५१ ॥
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।
जरत्कारुप्रियास्तीकमाता विषहरेति च ॥ ५२ ॥
महाज्ञानयुता चैव सा देवी विश्वपूजिता ।
द्वादशैतानि नामानि पूजाकाले तु यः पठेत् ॥ ५३ ॥
तस्य नागभयं नास्ति तस्य वंशोद्‍भवस्य च ।
नागभीते च शयने नागग्रस्ते च मन्दिरे ॥ ५४ ॥
नागशोभे महादुर्गे नागवेष्टितविग्रहे ।
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥ ५५ ॥
नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते ।
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ५६ ॥
स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः ।
नागैश्च भूषणं कृत्वा स भवेन्नागवाहनः ॥ ५७ ॥
नागासनो नागतल्पो महासिद्धो भवेन्नरः ।
अन्ते च विष्णुना सार्धं क्रीडत्येव दिवानिशम् ॥ ५८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे मङ्‌गलचण्डीमनसयोरुपाख्यानवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥