देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०५

← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०४ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०५
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०६ →


रुद्राक्षजपमालाविधानवर्णनम्

<poem> ईश्वर उवाच
लक्षणं जपमालायाः शृणु वक्ष्यामि षण्मुख ।
रुद्राक्षस्य मुखं ब्रह्मा बिन्दू रुद्र इतीरितः ॥ १ ॥
विष्णुः पुच्छं भवेच्चैव भोगमोक्षफलप्रदम् ।
पञ्चविंशतिभिश्चाक्षैः पञ्चवक्त्रैः सकण्टकैः ॥ २ ॥
रक्तवर्णैः सितैर्मिश्रैः कृतरन्ध्रविदर्भितैः ।
अक्षसूत्रं प्रकर्तव्यं गोपुच्छवलयाकृति ॥ ३ ॥
वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् ।
मेरुमूर्ध्वमुखं कुर्यात्तदूर्ध्वं नागपाशकम् ॥ ४ ॥
एवं संग्रथितां मालां मन्त्रसिद्धिप्रदायिनीम् ।
प्रक्षाल्य गन्धतोयेन पञ्चगव्येन चोपरि ॥ ५ ॥
ततः शिवाम्भसाऽऽक्षाल्य ततो मन्त्रगणान्न्यसेत् ।
स्पृष्ट्वा शिवास्त्रमन्त्रेण कवचेनावगुण्ठयेत् ॥ ६ ॥
मूलमन्त्रं न्यसेत्पश्चात्पूर्ववत्कारयेत्तथा ।
सद्योजातादिभिः प्रोक्ष्य यावदष्टोत्तरं शतम् ॥ ७ ॥
मूलमन्त्रं समुच्चार्य शुद्धभूमौ निधाय च ।
तस्योपरि न्यसेत्साम्बं शिवं परमकारणम् ॥ ८ ॥
प्रतिष्ठिता भवेन्माला सर्वकामफलप्रदा ।
यस्य देवस्य यो मन्त्रस्तां तेनैवाभिपूजयेत् ॥ ९ ॥
मूर्ध्नि कण्ठेऽथवा कर्णे न्यसेद्वा जपमालिकाम् ।
रुद्राक्षमालया चैवं जप्तव्यं नियतात्मना ॥ १० ॥
कण्ठे मूर्ध्नि हृदि प्रान्ते कर्णे बाहुयुगेऽथवा ।
रुद्राक्षधारणं नित्यं भक्त्या परमया युतः । ११ ॥
किमत्र बहुनोक्तेन वर्णनेन पुनः पुनः ।
रुद्राक्षधारणं नित्यं तस्मादेतत्प्रशस्यते ॥ १२ ॥
स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने ।
प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥ १३ ॥
अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् ।
कुर्वन्विप्रस्तु मोहेन नरके पतति ध्रुवम् ॥ १४ ॥
रुद्राक्षं धारयेन्मूर्ध्नि कण्ठे सूत्रे करेऽथवा ।
सुवर्णमणिसम्भिन्नं शुद्धं नान्यैर्धृतं शिवम् ॥ १५ ॥
नाशुचिर्धारयेदक्षं सदा भक्त्यैव धारयेत् ।
रुद्राक्षतरुसम्भूतवातोद्‍भूततृणान्यपि ॥ १६ ॥
पुण्यलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।
रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः ॥ १७ ॥
सर्वं तरति पाप्मानं जाबालश्रुतिराह हि ।
पशवो हि च रुद्राक्षधारणाद्यान्ति रुद्रताम् ॥ १८ ॥
किमु ये धारयन्ति स्म नरा रुद्राक्षमालिकाम् ।
रुद्राक्षः शिरसा ह्येको धार्यो रुद्रपरैः सदा ॥ १९ ॥
ध्वंसनं सर्वदुःखानां सर्वपापविमोचनम् ।
व्याहरन्ति च नामानि ये शम्भोः परमात्मनः ॥ २० ॥
रुद्राक्षालङ्‌कृता ये च ते वै भागवतोत्तमाः ।
रुद्राक्षधारणं कार्यं सर्वश्रेयोऽर्थिभिर्नृभिः ॥ २१ ॥
कर्णपाशे शिखायां च कण्ठे हस्ते तथोदरे ।
महादेवश्च विष्णुश्च ब्रह्मा तेषां विभूतयः ॥ २२ ॥
देवाश्चान्ये तथा भक्त्या खलु रुद्राक्षधारिणः ।
गोत्रर्षयश्च सर्वेषां कूटस्था मूलरूपिणः ॥ २३ ॥
तेषां वंशप्रसूताश्च मुनयः सकला अपि ।
श्रौतधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः ॥ २४ ॥
श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे ।
बहूनां जन्मनामन्ते महादेवप्रसादतः ॥ २५ ॥
रुद्राक्षधारणे वाञ्छा स्वभावादेव जायते ।
रुद्राक्षस्य तु माहात्म्यं जाबालैरादरेण तु ॥ २६ ॥
पठ्यते मुनिभिः सर्वैर्मया पुत्र तथैव च ।
रुद्राक्षस्य फलं चैव त्रिषु लोकेषु विश्रुतम् ॥ २७ ॥
फलस्य दर्शने पुण्यं स्पर्शात्कोटिगुणं भवेत् ।
शतकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ २८ ॥
लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।
जपाच्च लभते नित्यं नात्र कार्या विचारणा ॥ २९ ॥
हस्ते चोरसि कण्ठे च कर्णयोर्मस्तके तथा ।
रुद्राक्षं धारयेद्यस्तु स रुद्रो नात्र संशयः ॥ ३० ॥
अवध्यः सर्वभूतानां रुद्रवद्धि चरेद्‌भुवि ।
सुराणामसुराणां च वन्दनीयो यथा शिवः ॥ ३१ ॥
रुद्राक्षधारी सततं वन्दनीयस्तथा नरैः ।
उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः ॥ ३२ ॥
मुच्यते सर्वपापेभ्यो रुद्राक्षस्य तु धारणात् ।
कण्ठे रुद्राक्षमाबध्य श्वापि वा म्रियते यदि ॥ ३३ ॥
सोऽपि मुक्तिमवाप्नोति किं पुनर्मानुषोऽपि सः ।
जपध्यानविहीनोऽपि रुद्राक्षं यदि धारयेत् ॥ ३४ ॥
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।
एकं वापि हि रुद्राक्षं कृत्वा यत्‍नेन धारयेत् ॥ ३५ ॥
एकविंशतिमुद्धृत्य रुद्रलोके महीयते ।
अतः परं प्रवक्ष्यामि रुद्राक्षस्य पुनर्विधिम् ॥ ३६ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षजपमालाविधानवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

</poem>