देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १०

भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्

श्रीनारायण उवाच
आग्नेयं गौणमज्ञानध्वंसकं ज्ञानसाधकम् ।
गौणं नानाविधं विद्धि ब्रह्मन्ब्रह्मविदांवर ॥ १ ॥
अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने ।
औपासनसमुत्पन्नं समिदग्निसमुद्‍भवम् ॥ २ ॥
पचनाग्निसमुत्पन्नं दावानलसमुद्‍भवम् ।
त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्‍भवम् ॥ ३ ॥
विरजानलजं चैव धार्यं भस्म महामुने ।
औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ ४ ॥
समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा ।
शूद्राणां श्रोत्रियागारपचनाग्निसमुद्‍भवम्॥ ५ ॥
अन्येषामपि सर्वेषां धार्यं दावानलोद्‍भवम् ।
कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः ॥ ६ ॥
क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः ।
तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ ७ ॥
अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च ।
पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ॥ ८ ॥
शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः ।
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ ९ ॥
प्राणायामत्रयं कृत्वा प्राङ्‌मुखो वाप्युदङ्‌मुखः ।
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ १० ॥
व्रतमेतत्करोमीति भवेत्सङ्‌कल्पदीक्षितः ।
यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ११ ॥
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ।
तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ १२ ॥
दिनद्वादशकं वापि दिनषट्कमथापि वा ।
तदर्धं दिनमेकं वा व्रतसङ्‌कल्पनावधि ॥ १३ ॥
अग्निमाधाय विधिवद्विरजाहोमकारणात् ।
हुत्वाऽऽज्येन समिद्‌‍भिश्च चरुणा च यथाविधि ॥ १४ ॥
पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् ।
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ १५ ॥
तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् ।
पश्चाद्‌भूतादितन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ १६ ॥
ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः ।
त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ १७ ॥
मनो बुद्धिरहङ्‌कारो गुणाः प्रकृतिपूरुषौ ।
रागो विद्या कला चैव नियतिः काल एव च ॥ १८ ॥
माया च शुद्धविद्या च महेश्वरसदाशिवौ ।
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ १९ ॥
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् ।
अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ॥ २० ॥
न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् ।
प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ २१ ॥
तस्मिन्दिने निराहारः कालशेषं समापयेत् ।
प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ॥ २२ ॥
उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्‍नतः ।
ततश्च जटिलो मुण्डः शिखैकजट एव च ॥ २३ ॥
भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः ।
अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा ॥ २४ ॥
एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली ।
प्रक्षाल्य चरणौ पश्चाद्‌द्विराचम्यात्मनस्तनुम् ॥ २५ ॥
सङ्‌कलीकृत्य तद्‍भस्म विरजानलसम्भवम् ।
अग्निरित्यादिभिर्मन्त्रैः षड्‌भिराथर्वणैः क्रमात् ॥ २६ ॥
विमृज्याङ्‌गानि मूर्धादिचरणान्तं च तैः स्पृशेत् ।
ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना ॥ २७ ॥
सर्वाङ्‌गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ।
ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ २८ ॥
शिवभावं समागम्य शिवभावमथाचरेत् ।
कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ २९ ॥
भुक्तिमुक्तिप्रदं चैव पशुत्वं विनिवर्तयेत् ।
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ ३० ॥
पूजनीयो महादेवो लिङ्‌गमूर्तिः सदाशिवः ।
भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम् ॥ ३१ ॥
आयुष्यं बलमारोग्यं श्रीपुष्टिवर्धनं यतः ।
रक्षार्थं मङ्‌गलार्थं च सर्वसम्पत्समृद्धये ॥ ३२ ॥
भस्मस्निग्धमनुष्याणां महामारीभयं न च ।
शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत् ॥ ३३ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे भस्ममाहात्म्ये पाशुपतव्रतवर्णनं नाम दशमोऽध्यायः ॥ १० ॥