देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०८

← अध्यायः ०७ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०८
वेदव्यासः‎
अध्यायः ०९ →



पराशक्तेराविर्भाववर्णनम्

जनमेजय उवाच
 भगवन्सर्वधर्मज्ञ सर्वशास्त्रवतांवर ।
 द्विजातीनां तु सर्वेषां शक्त्युपास्तिः श्रुतीरिता ॥ १ ॥
 सन्ध्याकालत्रयेऽन्यस्मिन् काले नित्यतया विभो ।
 तां विहाय द्विजाः कस्माद्‌गृह्णीयुश्चान्यदेवताः ॥ २ ॥
 दृश्यन्ते वैष्णवाः केचिद्‌गाणपत्यास्तथापरे ।
 कापालिकाश्चीनमार्गरता वल्कलधारिणः ॥ ३ ॥
 दिगम्बरास्तथा बौद्धाश्चार्वार्का एवमादयः ।
 दृश्यन्ते बहवो लोके वेदश्रद्धाविवर्जिताः ॥ ४ ॥
 किमत्र कारणं ब्रह्मंस्तद्‍भवान् वक्तुमर्हति ।
 बुद्धिमन्तः पण्डिताश्च नानातर्कविचक्षणाः ॥ ५ ॥
 अपि सन्त्येव वेदेषु श्रद्धया तु विवर्जिताः ।
 न हि कश्चित्स्वकल्याणं बुद्ध्या हातुमिहेच्छति ॥ ६ ॥
 किमत्र कारणं तस्माद्वद वेदविदांवर ।
 मणिद्वीपस्य महिमा वर्णितो भवता पुरा ॥ ७ ॥
 कीदृक् तदस्ति यद्देव्याः परं स्थानं महत्तरम् ।
 तच्चापि वद भक्ताय श्रद्दधानाय मेऽनघ ॥ ८ ॥
 प्रसन्नास्तु वदन्त्येव गुरवो गुह्यमप्युत ।
 सूत उवाच
 इति राज्ञो वचः श्रुत्वा भगवान् बादरायणः ॥ ९ ॥
 निजगाद ततः सर्वं क्रमेणैव मुनीश्वराः ।
 यच्छ्रुत्वा तु द्विजातीनां वेदश्रद्धा विवर्धते ॥ १० ॥
 व्यास उवाच
 सम्यक्पृष्टं त्वया राजन् समये समयोचितम् ।
 वुद्धिमानसि वेदेषु श्रद्धावांश्चैव लक्ष्यसे ॥ ११ ॥
 पूर्वं मदोद्धता दैत्या देवैर्युद्धं तु चक्रिरे ।
 शतवर्षं महाराज महाविस्मयकारकम् ॥ १२ ॥
 नानाशस्त्रप्रहरणं नानामायाविचित्रितम् ।
 जगत्क्षयकरं नूनं तेषां युद्धमभून्नृप ॥ १३ ॥
 पराशक्तिकृपावेशाद्देवैर्दैत्या जिता युधि ।
 भुवं स्वर्गं परित्यज्य गताः पातालवेश्मनि ॥ १४ ॥
 ततः प्रहर्षिता देवाः स्वपराक्रमवर्णनम् ।
 चक्रुः परस्परं मोहात्साभिमानाः समन्ततः ॥ १५ ॥
 जयोऽस्माकं कुतो न स्यादस्माकं महिमा यतः ।
 सर्वोत्तरः कुत्र दैत्याः पामरा निष्पराक्रमाः ॥ १६ ॥
 सृष्टिस्थितिक्षयकरा वयं सर्वे यशस्विनः ।
 अस्मदग्रे पामराणां दैत्यानां चैव का कथा ॥ १७ ॥
 पराशक्तिप्रभावं ते न ज्ञात्वा मोहमागताः ।
 तेषामनुग्रहं कर्तुं तदैव जगदम्बिका ॥ १८ ॥
 प्रादुरासीत्कृपापूर्णा यक्षरूपेण भूमिप ।
 कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ १९ ॥
 विद्युत्कोटिसमानाभं हस्तपादादिवर्जितम् ।
 अदृष्टपूर्वं तद्‌दृष्ट्वा तेजः परमसुन्दरम् ॥ २० ॥
 सविस्मयास्तदा प्रोचुः किमिदं किमिदं त्विति ।
 दैत्यानां चेष्टितं किं वा माया कापि महीयसी ॥ २१ ॥
 केनचिन्निर्मिता वाथ देवानां स्मयकारिणी ।
 सम्भूय ते तदा सर्वे विचारं चक्रुरुत्तमम् ॥ २२ ॥
 यक्षस्य निकटे गत्वा प्रष्टव्यं कस्त्वमित्यपि ।
 बलाबलं ततो ज्ञात्वा कर्तव्या तु प्रतिक्रिया ॥ २३ ॥
 ततो वह्निं समाहूय प्रोवाचेन्द्रः सुराधिपः ।
 गच्छ वह्ने त्वमस्माकं यतोऽसि मुखमुत्तमम् ॥ २४ ॥
 ततो गत्वा तु जानीहि किमिदं यक्षमित्यपि ।
 सहस्राक्षवचः श्रुत्वा स्वपराक्रमगर्भितम् ॥ २५ ॥
 वेगात्स निर्गतो वह्निर्ययौ यक्षस्य सन्निधौ ।
 तदा प्रोवाच यक्षस्तं त्वं कोऽसीति हुताशनम् ॥ २६ ॥
 वीर्यं च त्वयि किं यत्तद्वद सर्वं ममाग्रतः ।
 अग्निरस्मि तथा जातवेदा अस्मीति सोऽब्रवीत् ॥ २७ ॥
 सर्वस्य दहने शक्तिर्मयि विश्वस्य तिष्ठति ।
 तदा यक्षं परं तेजस्तदग्रे निदधौ तृणम् ॥ २८ ॥
 दहैनं यदि ते शक्तिर्विश्वस्य दहनेऽस्ति हि ।
 तदा सर्वबलेनैवाकरोद्यत्‍नं हुताशनः ॥ २९ ॥
 न शशाक तृणं दग्धुं लज्जितोऽगात्सुरान्प्रति ।
 पृष्टे देवैस्तु वृत्तान्ते सर्वं प्रोवाच हव्यभुक् ॥ ३० ॥
 वृथाभिमानो ह्यस्माकं सर्वेशत्वादिके सुराः ।
 ततस्तु वृत्रहा वायुं समाहूयेदमब्रवीत् ॥ ३१ ॥
 त्वयि प्रोतं जगत्सर्वं त्वच्चेष्टाभिस्तु चेष्टितम् ।
 त्वं प्राणरूपः सर्वेषां सर्वशक्तिविधारकः ॥ ३२ ॥
 त्वमेव गत्वा जानीहि किमिदं यक्षमित्यपि ।
 नान्यः कोऽपि समर्थोऽस्ति ज्ञातुं यक्षं परं महः ॥ ३३ ॥
 सहस्राक्षवचः श्रुत्वा गुणगौरवगुम्फितम् ।
 साभिमानो जगामाशु यत्र यक्षं विराजते ॥ ३४ ॥
 यक्षं दृष्ट्वा ततो वायुं प्रोवाच मृदुभाषया ।
 कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः ॥ ३५ ॥
 ततो यक्षवचः श्रुत्वा गर्वेण मरुदब्रवीत् ।
 मातरिश्वाहमस्मीति वायुरस्मीति चाब्रवीत् ॥ ३६ ॥
 वीर्यं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि ।
 मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्‍भवेत् ॥ ३७ ॥
 इति श्रुत्वा वायुवाणीं निजगाद परं महः ।
 तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम् ॥ ३८ ॥
 नोचेद्‌गर्वं विहायैनं लज्जितो गच्छ वासवम् ।
 श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः ॥ ३९ ॥
 उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह ।
 लज्जितोऽगाद्देवपार्श्वे हित्वा गर्वं स चानिलः ॥ ४० ॥
 वृत्तान्तमवदत्सर्वं गर्वनिर्वापकारणम् ।
 नैतञ्ज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः ॥ ४१ ॥
 अलौकिकं भाति यक्षं तेजः परमदारुणम् ।
 ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे ॥ ४२ ॥
 देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः ।
 तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत् ॥ ४३ ॥
 प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् ।
 अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः ॥ ४४ ॥
 अतीव लज्जितो जातो वासवो देवराडपि ।
 यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि ॥ ४५ ॥
 अतः परं न गन्तव्यं मया तु सुरसंसदि ।
 किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति ॥ ४६ ॥


देहत्यागो वरस्तस्मान्मानो हि महतां धनम् ।
 माने नष्टे जीवितं तु मृतितुल्यं न संशयः ॥ ४७ ॥
 इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः ।
 चरित्रमीदृशं यस्य तमेव शरणं गतः ॥ ४८ ॥
 तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले ।
 मायाबीजं सहस्राक्ष जप तेन सुखी भव ॥ ४९ ॥
 ततो जजाप परमं मायाबीजं परात्परम् ।
 लक्षवर्षं निराहारो ध्यानमीलितलोचनः ॥ ५० ॥
 अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ ।
 तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः ॥ ५१ ॥
 तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् ।
 भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम् ॥ ५२ ॥
 बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् ।
 चतुर्भिर्वरहस्तैस्तु वरपाशाङ्‌कुशाभयान् ॥ ५३ ॥
 दधानां रमणीयाङ्‌गीं कोमलाङ्‌गलतां शिवाम् ।
 भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम् ॥ ५४ ॥
 त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् ।
 चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्‌भिरभिष्टुताम् ॥ ५५ ॥
 दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् ।
 प्रसन्तस्मेरवदनां कोटिकन्दर्पसुन्दराम् ॥ ५६ ॥
 रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् ।
 उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥ ५७ ॥
 निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् ।
 ददर्श वासवस्तत्र प्रेमगद्‌गदितान्तरः ॥ ५८ ॥
 प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः ।
 दण्डवत्प्रणनामाथ पादयोर्जगदीशितुः ॥ ५९ ॥
 तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः ।
 उवाच परमप्रीतः किमिदं यक्षमित्यपि ॥ ६० ॥
 प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने ।
 इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा ॥ ६१ ॥
 रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् ।
 मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम् ॥ ६२ ॥
 सर्वे वेदा यत्पदमामनन्ति
     तपांसि सर्वाणि च यद्वदन्ति ।
 यदिच्छन्तो ब्रह्मचर्यं चरन्ति
     तत्ते पदं संग्रहेण ब्रवीमि ॥ ६३ ॥
 ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च ह्रींमयम् ।
 द्वे बीजे मम मन्त्रौ स्तो मुख्यत्वेन सुरोत्तम ॥ ६४ ॥
 भागद्वयवती यस्मात्सृजामि सकलं जगत् ।
 तत्रैकभागः सम्प्रोक्तः सच्चिदानन्दनामकः ॥ ६५ ॥
 मायाप्रकृतिसंज्ञस्तु द्वितीयो भाग ईरितः ।
 सा च माया परा शक्तिः शक्तिमत्यहमीश्वरी ॥ ६६ ॥
 चन्द्रस्य चन्द्रिकेवेयं ममाभिन्नत्वमागता ।
 साम्यावस्थात्मिका चैषा माया मम सुरोत्तम ॥ ६७ ॥
 प्रलये सर्वजगतो मदभिन्नैव तिष्ठति ।
 प्राणिकर्मपरीपाकवशतः पुनरेव हि ॥ ६८ ॥
 रूपं तदेवमव्यक्तं व्यक्तीभावमुपैति च ।
 अन्तर्मुखा तु यावस्था सा मायेत्यभिधीयते ॥ ६९ ॥
 बहिर्मुखा तु या माया तमःशब्देन सोच्यते ।
 बहिर्मुखात्तमोरूपाज्जायते सत्त्वसम्भवः ॥ ७० ॥
 रजोगुणस्तदैव स्यात्सर्गादौ सुरसत्तम ।
 गुणत्रयात्मकाः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ॥ ७१ ॥
 रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् ।
 तमोगुणाधिको रुद्रः सर्वकारणरूपधृक् ॥ ७२ ॥
 स्थूलदेहो भवेद्‌ब्रह्मा लिङ्‌गदेहो हरिः स्मृतः ।
 रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि ॥ ७३ ॥
 साम्यावस्था तु या प्रोक्ता सर्वान्तर्यामिरूपिणी ।
 अत ऊर्ध्वं परं ब्रह्म मद्‌रूपं रूपवर्जितम् ॥ ७४ ॥
 निर्गुणं सगुणं चेति द्विधा मद्‌रूपमुच्यते ।
 निर्गुणं मायया हीनं सगुणं मायया युतम् ॥ ७५ ॥
 साहं सर्वं जगत्सृष्ट्वा तदन्तः सम्प्रविश्य च ।
 प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम् ॥ ७६ ॥
 सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि ।
 ब्रह्माणं च तथा विष्णुं रुद्रं वै कारणात्मकम् ॥ ७७ ॥
 मद्‍भयाद्वाति पवनो भीत्या सूर्यश्च गच्छति ।
 इन्द्राग्निमृत्यवस्तद्वत्साहं सर्वोत्तमा स्मृता ॥ ७८ ॥
 मत्प्रसादाद्‍भवद्‌भिस्तु जयो लब्धोऽस्ति सर्वथा ।
 युष्मानहं नर्तयामि काष्ठपुत्तलिकोपमान् ॥ ७९ ॥
 कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् ।
 स्वतन्त्रा स्वेच्छया सर्वं कुर्वे कर्मानुरोधतः ॥ ८० ॥
 तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः ।
 अहङ्‌कारावृतात्मानो मोहमाप्ता दुरन्तकम् ॥ ८१ ॥
 अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम् ।
 निःसृतं सहसा तेजो मदीयं यक्षमित्यपि ॥ ८२ ॥
 अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् ।
 मामेव शरणं यात सच्चिदानन्दरूपिणीम् ॥ ८३ ॥
 व्यास उवाच
 इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी ।
 अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता ॥ ८४ ॥
 ततः सर्वे स्वगर्वं तु विहाय पदपङ्‌कजम् ।
 सम्यगाराधयामासुर्भगवत्याः परात्परम् ॥ ८५ ॥
 त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः ।
 यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे ॥ ८६ ॥
 एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः ।
 तारहृल्लेखयोश्चापि जपे निष्णातमानसाः ॥ ८७ ॥
 न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् ।
 न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥ ८८ ॥
 गायत्र्युपासना नित्या सर्ववेदैः समीरिता ।
 यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा ॥ ८९ ॥
 तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि ।
 गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥ ९० ॥
 कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् ।
 विहाय तां तु गायत्रीं विष्णूपास्तिपरायणः ॥ ९१ ॥
 शिवोपास्तिरतो विप्रो नरकं याति सर्वथा ।
 तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः ।
 देवीपदाम्बुजरता आसन्सर्वे द्विजोत्तमाः ॥ ९२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां
 द्वादशस्कन्धे पराशक्तेराविर्भाववर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥


वर्गःवीभागवतपुराणम्