प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः १७

< देवीभागवतपुराणम्‎ | स्कन्धः ०५(देवीभागवत/स्कन्ध ५/अध्यायः १७ इत्यस्मात् पुनर्निर्दिष्टम्)

राजपुत्रीमन्दोदरीवृत्तवर्णनम्

व्यास उवाच ।।
इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् ।।
का सा मंदोदरी नारी कोऽसौ त्यक्तो नृपस्तया ।। १ ।।
शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् ।।
विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः ।। २ ।।
महिष उवाच ।।
सिंहलो नाम देशो ऽस्ति विख्यातः पृथिवीतले ।।
घनपादपसंयुक्तो धनधान्यसमृद्धिमान् ।। ३ ।।
चंद्रसेनाऽभिधस्तत्र राजा धर्मपरायणः ।।
न्यायदंडधरः शांतः प्रजापालनतत्परः ।। ४ ।।
सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः ।।
शास्त्रवित्सर्वधर्मज्ञो धनुर्वेदेऽतिनिष्ठितः ।। ५ ।।
तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा ।।
सदाचाराऽतिसुमुखीं पतिभक्तिपरायणा ।। ६ ।।
नाम्ना गुणवती कांता सर्वलक्षणसंयुता ।।
सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम् ।। ७ ।।
पिता चातीव संतुष्टः पुत्रीं प्राप्य मनोरमाम् ।।
मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः ।। ८ ।।
इंदोः कलेव चात्यर्थं ववृधे सा दिनेदिने ।।
दशवर्षा यदा जाता कन्या चातिमनोहरा ।। ९ ।।
वरार्थं नृपतिश्चिन्तामवाप च दिनेदिने ।।
मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः ।। 5.17.१० ।।
तस्य पुत्रोऽतिमेधावी कंबुग्रीवोऽतिविश्रुतः ।।
ब्राह्मणैः कथितो राज्ञे स युक्तोऽस्या वरः शुभः ।। ११ ।।
सर्वलक्षणसंपन्नः सर्वविद्यार्थपारगः ।।
राज्ञा पृष्टा तदा राज्ञा नाम्ना गुणवती प्रिया ।। १२ ।।
कंबुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम् ।।
सा तु पत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम् ।। १३ ।।
विवाहं ते पिता कर्तुं कंबुग्रीवेण वांछति ।।
तच्छ्रुत्वा मातरं प्राह वाक्यं मन्दोदरी तदा ।। १४ ।।
नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे ।।
कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा ।। १५ ।।
स्वातंत्र्येण चरिष्यामि तपस्तीव्रं सदैव हि ।।
पारतंत्र्य परंदुःखं मातः संसारसागरे ।। १५ ।।
स्वातंत्र्या न्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदा ।।
तस्मान्मुक्ता भविष्यामि पत्या मे न प्रयोजनम् ।। १७ ।।
विवाहे वर्तमाने तु पावकस्य च सन्निधौ ।।
वक्तव्यं वचनं सम्यक्त्वदधीनाऽस्मि सर्वदा ।। १८ ।।
श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये ।।
पतिचिंत्तानुवर्तित्वं दुःखादुः खतरं स्मृतम् ।। १९ ।।
कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि ।।
तदा महत्तरं दुःखं सपत्नीसंभवं भवेत् ।। 5.17.२० ।।
तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ ।।
संसारे क्व सुखं मातर्नारीणां च विशेषतः ।। २१ ।।
स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि ।।
श्रुतं मया पुरा मातरुत्तानचरणात्मजः ।। २२ ।।
उत्तमः सर्वधर्मज्ञो धुवादवरजो नृपः ।।
पत्नीं धर्मपरां साध्वीं पतिभक्तिपरायणाम् ।। २३ ।।
अपराधं विना कांतां त्यक्तवान्विपिने प्रियाम् ।।
एवंविधानि दुःखानि विद्यमाने तु भर्तरि ।। २४ ।।
कालयोगान्मृते तस्मिन्नारी स्याद् दुःखभाजनम्।।
वैधव्यं परमं दुःखं शोक संतापकारकम् ।। २५ ।।
परोषि(पि?)तपतित्वेऽपि दुःखं स्यादधिकं गृहे ।।
मदनाग्निविदग्धायाः किं सुख पति संगजम् ।। २६ ।।
तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम ।।
एवं प्रोक्ता तदा माता पतिं प्राह नृपात्मजा ।। २७ ।।
न च वांछति भर्तारं कौमारव्रतधारिणी ।।
व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा ।। २८ ।।
न कांक्षति पतिं कर्तुं बहुदोषविचक्षणा ।।
भार्याया भाषितं श्रुत्वा तथैव संस्थितो नृपः ।। २९ ।।
विवाहो न कृतः पुत्र्या ज्ञात्वा भाववि वर्जिताम् ।।
वर्तमाना गृहेष्वेवं पित्रा मात्रा च रक्षिता ।। 5.17.३० ।।
यौवनस्यांकुरा जाता नारीणां काम दीपकाः ।।
तथाऽपि सा वयस्याभिः प्रेरिताऽपि पुनः पुनः ।। ३१ ।।
चकमे न पतिं कर्तुं ज्ञानार्थपद भाषिणी ।।
एकदोद्यानदेशे सा विहर्तुं बहुपादपे ।। ३२ ।।
जगाम सुमुखी प्रेम्णा सैरंध्रीगणसेविता ।।
रेमे कृशोदरी तत्रापश्यत्कुसुमिता लताः ।। ३३ ।।
पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता ।।
कोसलाधिपतिस्तत्र मार्गे दैववशात्तदा ।। ३४ ।।
आजगाम महावीरो वीरसेनोऽतिविश्रुतः ।।
एकाकी रथमारूढः कतिचित्सेवकैर्वृतः ।। ३५ ।।
सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः ।।
दृष्टस्तस्या वयस्या तु दूरतः पार्थिवस्तदा ।। ३६ ।।
मंदोदर्यै तथा प्रोक्तं समायाति नरः पथि ।।
रथारूढो महाबाहू रूपवान्मदनोऽपरः ।। ३७ ।।
मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह ।।
एवं ब्रुवत्यां तत्रासौ कोशलेन्द्रः समागतः ।। ३८ ।।
दृष्ट्वा तामसितापांगीं विस्मयं प्राप भूपतिः ।।
उत्तीर्य स रथात्तूर्णं पप्रच्छ परिचारिकाम् ।। ३९ ।।
केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे ।।
एवं पृष्टा तु सैरंध्री तमुवाच शुचिस्मिता ।। 5.17.४० ।।
प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचनम् ।।
कोऽसि त्वं किमिहायातः किं कार्यं वद सांप्रतम् ।। ४१ ।।
इति पृष्टस्तु सैरंध्र्या तामु वाच महीपतिः ।।
कोसलो नाम देशोऽस्ति पृथिव्यां परमाद्भुतः ।। ४२ ।।
तस्य पालयिता चाहं वीरसेनाभिधः प्रिये ।।
वाहिनी पृष्ठतः कामं समायाति चतुर्विधा ।। ४३ ।।
मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् ।।
सैरंध्र्युवाच ।।
चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल ।। ४४ ।।
उद्याने रंतुकामेयं प्राप्ता कमल लोचना ।।
श्रुत्वा तद्भाषितं राजा प्रत्युवाच प्रसाधिकाम् ।। ४५ ।।
सैरंध्रि चतुराऽसि त्वं राजपुत्रीं प्रबोधय ।।
ककुत्स्थवंशजश्चाहं राजाऽस्मि चारुलोचने ।।४६।।
गांधर्वेण विवाहेन पतिं मां कुरु कामिनि ।।
न मे भार्याऽस्ति सुश्रोणि वयसोऽद्भुतयौवनाम् ।। ४७ ।।
वांछामि रूपसंपन्नां सुकुलां कामिनीं किल ।।
अथवा ते पिता मह्यं विधिना दातुमर्हति ।। ४८ ।।
अनुकूल पतिश्चाहं भविष्यामि न संशयः ।।
महिष उवाच ।।
इत्याऽऽकर्ण्य वचस्तस्य सैरंध्री प्राह तां तदा ।। ४९ ।।
प्रहस्य मधुरं वाक्यं कामशास्त्रविशारदा ।।
मन्दोदरि नृपः प्राप्तः सूर्यवंशसमुद्भवः ।। 5.17.५० ।।
रूपवान्बलवान्कांतो वयसा त्वत्समः पुनः ।।
प्रीतिमान्नृपतिर्जातस्त्वयि सुन्दरि सर्वथा ।। ५१ ।।
पिताऽपि ते विशालाक्षि परितप्यति सर्वथा ।।
विवाहकालं ते ज्ञात्वा त्वां च वैराग्यसंयुताम् ।। ५२ ।।
इत्याहाऽस्मान्स नृपतिर्विनिःश्वस्य पुनः पुनः ।।
पुत्रीं प्रबोधयत्वेतां सैरंध्र्यः सेवने रताः ।। ५८ ।।
वक्तुं शक्ता वयं न त्वां हठधर्मरतां पुनः ।।
भर्तुः शुश्रूषणं स्त्रीणां परो धमोंऽब्रवीन्मनुः ।। ५४ ।।
भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात् ।।
तस्मात्कुरु विशालाक्षि विवाहं विधिपूर्वकम् ।। ५५ ।।
मन्दोदर्युवाच ।।
नाऽहं पतिं करिष्यामि चरिष्ये तपमद्भुतम् ।।
निवारय नृपं बाले किं मां पश्यति निस्त्रपः ।। ।। ५६ ।।
सैरंध्र्युवाच ।।
दुर्जयो देवि कामोऽसौ कालोऽसौ दुरतिक्रमः ।।
तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुंदरि ।। ५७ ।।
अन्यथा व्यसनं नूनमा पतेदिति निश्चयः ।।
इति तस्या वचः श्रुत्वा कन्यो वाचाथ तां सखीम् ।। ५८ ।।
यद्यद्भवेत्तद्भवतु दैवयोगादसंशयम् ।।
न विवाहं करिष्येऽहं सर्वथा परिचारिके ।। ५९ ।।
महिष उवाच ।।
इति तस्यास्तु निर्बंधं ज्ञात्वा प्राह नृपं पुनः ।।
गच्छ राजन्यथा कामं नेयमिच्छति सत्पतिम् ।। 5.17.६० ।।
नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया ।।
कोशलान्विमना भूत्वा कामिनीं प्रति निःस्पृहः ।। ६१ ।।

इति श्रीदेवी भागवते महापुराणे पचमस्कंधे सप्तदशोऽध्यायः ।। १७ ।।