देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ११

गङ्‌गोपाख्यानवर्णनम्

नारद उवाच ।। १ ।।
श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् ।।
गंगोपाख्यानमधुना वद वेदविदां वर ।।१।।
भारते भारतीशापात्सा जगाम सुरेश्वरी ।।
विष्णु स्वरूपा परमा स्वयं विष्णुपदीति च ।।२।।
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा ।।
तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम् ।। ३ ।।
श्रीनारायण उवाच ।।
राजराजेश्वरः श्रीमान्सगरः सूर्यवंशजः ।।
तस्य भार्या च वैदर्भी शैब्या च द्वे मनोहरे ।। ४ ।।
तत्पत्न्यामेकपुत्रश्च बभूव सुमनोहरः ।।
असमंज इति ख्यातः शैब्यायां कुलवर्धनः ।। ५ ।।
अन्या चाऽऽराधयामास शंकरं पुत्र कामुकी।।
बभूव गर्भस्तस्याश्च हरस्य च वरेण ह ।।६।।
गते शताब्दे पूर्णे च मांसपिंडं सुषाव सा ।।
तद्दृष्ट्वा सा शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः ।। ७ ।।
शंभुर्ब्राह्मणरूपेण तत्समीपं जगाम ह ।।
चकार संविभज्यैतत्पिडं षष्टिसहस्रधा ।। ८ ।।
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः ।।
ग्रीष्ममध्याह्नमार्तंडप्रभामुष्टकलेवराः ।। ९ ।।
कपिलस्य मुनेः शापाद्बभूवुर्भस्मसाच्च ते ।।
राजा रुरोद तच्छुत्वा जगाम गहने वने ।। 9.11.१० ।।
तपश्चकाराऽसमंजो गंगानयनकारणात् ।।
लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ।। ११ ।।
अंशुमांस्तस्य तनयो गंगानयनकारणात् ।।
तपः कृत्वा लक्षवर्षं ममार कालयोगतः ।। १२ ।।
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः ।।
वैष्णवो विष्णुभक्तश्च गुणवानजरामरः ।। १३ ।।
तपः कृत्वा लक्षवर्षं गंगानयनकारणात् ।।
ददर्श कृष्णं ग्रीष्म स्थसूर्यकोटिसमप्रभम् ।। १४ ।।
द्विभुजं मुरलीहस्तं किशोरगोपवेषिणम् ।।
गोपालसुन्दरीरूपं भक्तानुग्रहरूपिणम् ।। १५।।
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं प्रभुम् ।।
ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्नुतम् ।। १६ ।।
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।।
ईषद्धास्य प्रसन्नास्यं भक्तानुग्रहकारणम् ।। १७।।
वह्निशुद्धांशुकाधानं रलभूषणभूषितम् ।।
तुष्टाव दृष्ट्वा नृपतिः प्रणम्य च पुनः पुनः ।। १८ ।।
लीलया च वरं प्राप वांछितं वंशता रणम् ।।
कृत्वा च स्तवनं दिव्यं पुलकांकितविग्रहः ।। १९ ।।
श्रीभगवानुवाच ।।
भारतं भारतीशापाद्गच्छ शीघ्रं सुरेश्वरि ।।
सगरस्य सुतान्सर्वान्वृतान्कुरु ममाज्ञया ।।9.11.२०।।
त्वत्स्पर्शवायुनाः पूता यास्यंति मम मंदिरम् ।।
बिभ्रतो मम मूर्तीश्च दिव्यस्यंदनगामिनः ।। २१ ।।
मत्पार्षदा भविष्यंति सर्व कालं निरामयाः ।।
समुच्छिद्य कर्मभोगान्कृताञ्जन्मनिजन्मनि ।। २२ ।।
कोटिजन्मार्जितं पापं भारते यत्कृतं नृभिः ।।
गंगाया वात स्पर्शेन नश्यतीति श्रुतौ श्रुतम् ।। २३ ।।
स्पर्शनाद्दर्शनाद्देव्याः पुण्यं दशगुणं ततः ।।
मौसलस्नानमात्रेण सामान्यदिवसे नृणाम्।। २४ ।।
शतकोटिजन्मपापं नश्यतीति श्रुतौ श्रुतम् ।।
यानि कानि च पापानि ब्रह्महत्या दिकानि च ।। २५ ।।
जन्मसंख्यार्जितान्येव कामतोऽपि कृतानि च ।।
तानि सर्वाणि नश्यंति मौसलस्नानतो नृणाम् ।। २६ ।।
पुण्याहस्नानतः पुण्यं वेदा नैव वदंति च ।।
किंचिद्वदंति ते विप्र फलमेव यथागमम् ।। २७ ।।
ब्रह्मविष्णुशिवाद्याश्च सर्वं नैव वदंति च ।।
सामान्यदिवसस्नानसंकल्पं शृणु सुन्दरि ।। २८ ।।
पुण्यं दशगुणं चैव मौसलस्नानतः परम् ।।
ततस्त्रिंशद्गुणं पुण्यं रविसंक्रमणे दिने ।।२९।।
अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने ।।
ततो दशगुणं पुण्यं नराणामुत्तरायणे ।।9.11.३०।।
चतुर्मास्यां पौर्णमास्यामनंतं पुण्यमेव च ।।
अक्षयायां तत्तुल्यं चैतद्वेदे निरूपितम् ।। ३१ ।।
असंख्यपुण्यफलदमेतेषु स्नानदानकम् ।।
सामान्यदिवसस्नानाद्दानाच्छतगुणं फलम् ।। ३२ ।।
मन्वतराद्यायां तिथौ युगाद्यायां तथैव च ।।
माघस्यासित सप्तम्यां भीष्माष्टम्यां तथैव च ।। ३३ ।।
अथाप्यशोकाष्टम्यां च नवम्यां च तथा हरेः ।।
ततोऽपि द्विगुणं पुण्यं नंदायां तव दुर्लभम् ।। ३४ ।।
दशहरादशम्यां तु युगाद्यादिसमं फलम् ।।
नंदासमं च वारुण्यां महर्त्वे(?) चतुर्गुणम् ।। ३५ ।।
ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति ।।
पुण्यं कोटिगुणं चैव सामान्यस्नानतोऽपि यत् ।। ३६ ।।
चंद्रोपरागसमये सूर्ये दशगुणं ततः ।।
पुण्यमर्धोदये काले ततः शतगुणं फलम् ।। ३७ ।।
इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः ।।
तमुवाच ततो गंगा भक्तिनम्रात्सकंधरा ।। ३८ ।।
गंगोवाच ।।
यामि चेद्भारतं नाथ भारती शापतः पुराः ।।
तवाज्ञया च राजेंद्र तपसा चैव सांप्रतम् ।। ३९ ।।
दास्यंति पापिनो मह्यं पापानि यानि कानि च ।।
तानि मे केन नश्यंति तमुपायं वद प्रभो ।। 9.11.४० ।।
कतिकालं परिमितं स्थितिर्मे तत्र भारते ।।
कदा यास्यामि देवेश तद्विष्णोः परमं पदम् ।। ४१ ।।
ममान्यद्वाछितं यद्यत्सर्वं जानासि सर्ववित् ।।
सर्वान्तरात्मन्सर्वज्ञ तदुपायं वद प्रभो ।। ४२ ।।
श्रीभगवानुवाच ।।
जानामि वांछितं गंगे तव सर्वं सुरेश्वरि ।।
पतिस्ते द्रवरूपाया लवणोदो भविष्यति ।। ४३ ।।
स ममांश स्वरूपश्च त्वं च लक्ष्मीस्वरूपिणी ।।
पिदग्धाया विदग्धेन संगमो गुणवान्भुवि ।। ४४ ।।
यावत्यः संति नद्यश्च भारत्याद्याश्च भारते ।।
सौभाग्या त्वं च तास्वेव लवणोदस्य सौरते ।। ४५ ।।
अद्यप्रभृति देवेशि कलेः पंचसहस्रकम् ।।
वर्षं स्थितिस्ते भारत्याः शापेन भारते भुवि ।। ४६ ।।
नित्यं त्वमब्धिना सार्थं करिष्यसि रहो रतिम् ।।
त्वमेव रसिका देवी रसिकेंद्रेण संयुता ।। ४७ ।।
त्वां स्तोष्यन्ति च स्तोत्रेण भगीरथकृतेन च ।।
भारतस्था जनाः सर्वे पूर्णयिष्यंति भक्तितः ।। ४८ ।।
कण्वशाखोक्त ध्यानेन ध्यात्वा त्वां पूजयिष्यति ।।
यः स्तौति प्रणयेन्नित्यं सोऽश्वमेधफलं लभेत् ।। ४९ ।।
गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि ।।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।। 9.11.५० ।।
सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति ।।
प्रकृतेर्भक्तसंस्पर्शादेव तद्धि विनंक्ष्यति ।। ५१ ।।
पापिनां तु सहस्राणां शवस्पर्शेन यत्त्वयि ।।
तन्मन्त्रोपासकस्नानात्तदघं च विनंक्ष्यति ।। ५२ ।।
तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनम् ।।
सार्धं सरिद्भिः श्रेष्ठाभिः सरस्वत्यादिभिः शुभे ।। ५३ ।।
तत्तु तीर्थं भवेत्सद्यो यत्र तद्गुणकीर्तनम् ।।
त्वद्रेणुस्पर्शमात्रेण पूतो भवति पातकी ।। ५४ ।।
रेणुप्रमाणवर्षं च देवेलोके वसेद् धुवम् ।।
ज्ञानेन त्वयि ये भक्त्या मन्नामस्मृतिपूर्वकम् ।। ५५ ।।
समुत्सृजंति प्राणांश्च ते गच्छन्ति हरेः पदम् ।।
पार्षदप्रवरास्ते च भविष्यंति हरेश्चिरम् ।। ५६ ।।
लयं प्राकृतिकं ते च द्रक्ष्यंति चाप्य संख्यकम् ।।
मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत् ।। ५७ ।।
प्रयाति स च वैकुण्ठं यावदह्नः स्थितिस्त्वयि ।।
कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मकम् ।। ५८ ।।
तस्मै ददामि सारूप्यं करोमि तं च पार्षदम् ।।
अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत् ।। ५९ ।।
तस्मै ददामि सालोक्यं करोमि तं च पार्षदम् ।।
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम्।।9.11.६०।।
तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः ।।
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ।। ६१ ।।
तस्मै ददामि सारूप्यमसंख्यं प्राकृतं लयम् ।।
रत्नेंद्रसार निर्माणयानेन सह पार्षदैः ।।६२।।
सद्यः प्रयाति गोलोकं मम तुल्यो भवेद् धुवम्।।
तीर्थेऽप्यर्थे मरणे विशेषो नास्ति कश्चन ।।६३।।
मन्मंत्रोपासकानां तु नित्यं नैवेद्यभोजिनाम्।।
पूतं कर्तुं स शक्तो हि लीलया भुवनत्रयम्।।६४।।
रत्नेंद्रसार यानेन गोलोकं संप्रयांति च।।
मद्भक्ता बांधवा येषां तेऽपि पश्वादयोऽपि हि।।६५।।
प्रयांति रत्नयानेन गोलोकं चातिदुर्लभम् ।।
यत्र यत्र स्मृतास्ते च ज्ञानेन ज्ञानिनः सति ।।६६।।
जीवन्मुक्ताश्च ते पूता मद्भक्ते संविधानतः ।।
इत्युक्त्वा श्रीहरिस्तां च प्रत्युवाच भगीरथम् ।। ६७ ।।
स्तुहि गंगामिमां भक्त्या पूजां च कुरु सांप्रतम् ।।
भगीरथस्तां तुष्टाव पूजयामास भक्तितः ।। ६८ ।।
कौथुमोक्तेन ध्यानेन स्तोत्रेणापि पुनः पुनः ।।
प्रणनाम च श्रीकृष्णं परमात्मानमीश्वरम् ।। ६९ ।।
भगीरथश्च गंगा च सोंऽतर्धानं चकार ह ।।
नारद उवाच ।।
केन ध्यानेन स्तोत्रेण केन पूजाक्रमेण च ।। 9.11.७० ।।
पूजां चकार नृपतिर्वद वेदविदां वर ।।
श्रीनारायण उवाच ।।
स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी ।। ७१ ।।
संपूज्य देवषट्कं च संयतो भक्तिपूर्वकम् ।।
गणेशं च दिनेशं च वह्नि विष्णुं शिवं शिवाम् ।। ७२ ।।
संपूज्य देवषट्कं च सोऽधिकारी च पूजने ।।
गणेशं विघ्ननाशाय आरोग्याय दिवाकरम् ।। ७३ ।।
वह्निं शौचाय विष्णुं च लक्ष्म्यर्थं पूजयेन्नरः ।।
शिवं ज्ञानाय ज्ञानेशं शिवां च मुक्तिसिद्धये ।। ७४ ।।
संपूज्यैताँल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा ।।
दध्यावनेन ध्यानेन तद्ध्यानं शृणु नारद ।। ७५ ।।

इति श्रीदेवीभागवते म० नवमस्कन्धे एकादशोऽध्यायः ।। ११ ।।