देशोपदेशः
- अथ देशोपदेशः।
- काश्मीरिकविद्वद्वरक्षेमेन्दविरचितः।
प्रथम उपदेशः
सम्पाद्यताम्देवो जयति हेरम्बः स्वदन्तबिसखेलनैः ।
यस्योचैस्तत्प्रभाः शुभ्रा हसन्तीव दिशो दश ॥१॥
जयन्ति वेश्या व्यसनाभ्रविद्युतो जयन्ति कौटिल्यकलानटा विटाः।
जयत्यजस्रं जनवृक्षपातिनी प्रकृष्टमायातटिनी च कुट्टनी ॥२॥
ये दम्भमायामयदोषलेशलिप्ता न मे तान्प्रति कोऽपि यत्नः ।
किन्त्वेष हासव्यपदेशयुक्त्या देशोपदेशः क्रियते मयाद्य ॥३॥
हासेन लजितोऽत्यन्तं न दोषेषु प्रवर्तते ।
जनस्तदुपकाराय ममायं स्वयमुद्यमः ॥४॥
सदा खण्डनयोग्याय तुषपूर्णाशयाय च।
नमोऽस्तु बहुबीजाय खलायोलूखलाय च ॥५॥
समः शत्रौ च मित्रे च तथा मानापमानयोः।
वृत्तिच्छेदकृताभ्यासः खलो निर्वाणदीक्षितः ॥६॥
जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः ।
तुल्यतामशुचिनित्यं विभर्ति पिशुनः शुनः ॥७॥
मन्दः पापग्रहः क्रौर्यादनिष्टः शुभकर्मणाम् ।
पिशुनः शनितुल्योऽपि चित्रं यदशनिर्नृणाम् ॥८॥
अहो वत खलः पुण्यैर्मुर्खोऽप्यश्रुतपण्डितः ।
स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥९॥
खलः सुजनपैशुन्ये सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतिमाल्लोके सर्वमावृत्य तिष्ठति ॥१०॥
सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः ।
जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते ॥११॥
मायामयः प्रकृत्यैव रागद्वेषमदाकुलः ।
महतामपि मोहाय संसार इव दुर्जनः ॥१२॥
लज्जाव्यसनसम्मोहहेतुना कामकारिणा ।
को नाम जघनेनेव खलेन न खलीकृतः ॥१३॥
निकटस्थः प्रभोर्नित्यं विस्मृतस्वपराशनः ।
कर्णे पठति पैशुन्यं ब्रह्मविद्यामिवाधमः ॥१४॥
खलो वक्त्येव सर्वस्य दोष वक्ति खलस्य कः ।
दोषो मलिनवस्त्रस्य कदा केन विचार्यते ॥१५॥
खचित्रमपि मायावी रचयत्येव लीलया ।
लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः ॥१६॥
खलेन धनमत्तेन नीचेन प्रभविष्णुना।
पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि ॥१७॥
भग्नदन्त इव व्यालः श्रेयान्मूर्खखलो वरम् ।
पक्षवानिव कृष्णाहिर्नत्वेव खलपण्डितः ॥१८॥
दूषणानुगतो नित्यं जनस्थानविनाशकृत।
दुर्मदो विबुधद्वेषी पुरुषादः खरः खलः ॥१९॥
खला प्रववृते दैवादार्जवे सुजनस्य यत् ।
तर्वबाहुर्विपिने मकटः कुरुते तपः ॥२०॥
गुणान् स्तोतीत्यसम्बद्धं स्निह्यतीत्यसमञ्जसम् ।
ददातीति विरुद्धार्थ खलो हन्तीति नानृतम् ॥२१॥
अनिशं जपता कर्णे मन्ये पैशुन्यमातृकाम् ।
कृत्वेश्वरं वशे ग्रस्ताः खलेन निखिला दिशः ॥२२॥
ते दोषा एव न गुणाः कस्तेषामजेने गुणः ।
' येषां खलसभाद्वारि मस्तके पतितं रजः ॥२३॥
भ्रुकुटिकुटिलदृष्टिधातुरन्यैव सृष्टि धनलवमदलिप्तः प्रौढवादानुलिप्तः ।
सदास कुटिलदोषैर्दुर्जनः सजनानां मलिनयति यशासि स्फारकैलासभांसि ॥२४॥
- दुर्जनवर्णन नाम प्रथम उपदेशः॥
द्वितीय उपदेशः
सम्पाद्यताम्कर्कशाय नमस्तस्मै सर्वाशानिष्फलाय च ।
पर्यन्ते विटभोज्याय लुब्धाय खदिराय च ॥१॥
यतेन्द्रियः पांसुशायी निस्संगः प्रसूतिपचः।
कदर्यों मुनिरक्रुद्धः किन्तु तृष्णास्य वर्धते ॥२॥
लुब्धात्सर्वजनानिष्टात्कष्टचेष्टानिकेतनात् ।
. . विमुखाः सततं यान्ति श्मशानादिव बांधवाः ॥३॥
धूत्कृतस्य जनैनित्यं निर्निद्रस्य निशास्वपि।
उलूकस्येव लुब्धस्य न कल्याणाय दर्शनम् ॥४॥
कोपविकृतवक्त्रस्य मन्ये सर्वात्मना हितम् ।
. . कदर्यस्यातिपूर्णस्य पिटकस्येव पीडनम् ॥५॥
धनं भूमिगृहं दाराः सर्वथा जन्मसञ्चितम् ।
परार्थमेव पर्यन्ते कदर्यस्य जिनस्य च ॥६॥
४ सहस्राक्षस्तुणतुषे वज्रहस्तो गृहव्यये ।
अशनाच्छादनच्छेदात्कदयः पाकशासनः ॥७॥
नीरसस्य कदर्यस्य माधुर्यं वचने कथम् ।
गृहे लवणहीनस्य लावण्यं वदने कुतः ॥८॥
कदयश्चर्मवसनो रूक्षोऽस्नानात्सदा जटी।
मलेन श्यामलगलः शूली विलवणाशनात् ॥९॥
कार्यपीडानिरोधेऽपि नार्थं मुञ्चति सग्रहः ।
, संचयेष्वेकदृष्टिश्च कदर्यः शुक्रतां गतः ॥१०॥
निस्सत्त्वस्य समुद्रस्य विच्छायस्य पलाशिनः।
लुब्धस्यावनिसक्तस्य लोकातीतं विचेष्टितम् ॥११॥
कोऽन्यः कैदर्यसहशो दाता जगति जायते ।
नाश्नात्यदत्त्वा योऽर्थिभ्यो गले. हस्तं गृहेऽगलम् ॥१२॥
नक्ताशिनः शाकमूलशुद्धयावकभोजिनः ।
अहो वत कदयस्य तथापि नरके स्थितिः ॥१३॥
पंटी पितामहक्रीता तत्पूर्वाप्तश्च शाटकः ।
दिव्यवस्वस्य लुब्धस्य क्षीयते न युगैरपि ॥१४॥
नष्टोत्सवस्य लुब्धस्य त्यक्तपुण्यदिनस्थितेः ।
अदृष्टलवणा भार्या पातिवेश्यैर्निमन्त्र्यते ॥१५॥
मुष्टिमानेन दत्त्वापि लुब्धो धान्यं गृहव्यये ।
मृतो मुष्टिं समादाय क्लेशमूल्यं न गच्छति ॥१६॥
पितुः पितृदिने लुब्धो देशोत्सवदिनेषु च ।
मृतकाशौचमाचष्टे ज्वरव्याजं करोति वा ॥१७॥
कदर्यः स्वजनं दृष्ट्वा यदृच्छोपनतं गृहे ।
करोति दारकलहव्याजेनानशनव्रतम् ॥१८॥
कदर्यः कुशलप्रश्नं न करोति शृणोति वा ।
अभ्यागतस्य सायाह्ने पश्चाद्भोजनशंकया ॥१९॥
गीतादुद्विजते स्पर्श नेच्छति द्वेष्टि भोजनम् ।
विमुखः सौरभे रूपेऽलुब्धः सर्वेन्द्रियोज्झितः ॥२०॥
सत्यं कृतार्थिकलहात्कदर्यादुत्तमः शवः।
. यः समौनो निरुच्छासः क्रव्यादैरुपजीव्यते ॥२१॥
जीवतः सञ्चिताद्यस्य न निर्याति कपर्दिका ।
नियमाणस्य तस्यैव सकृत्सर्व प्रयाति च ॥२२॥
भट्टव्ययं निवार्यैव व्ययभीरोः करोत्यलम् ।
पुत्रकायें कदर्यस्य भार्या जारोत्सवव्ययम् ॥२३॥
चण्डालस्यापि साहाय्ये दृष्ट्वा -लाभलवोद्गतिम् । चरणौ चूषति चिरं कदर्यः कार्यगौरवात् ॥२४॥
पश्चात्संशुद्धिसन्त्रासान्नियम समुदाहरन् ।
विषवदर्जयत्येव कदर्यः पानभोजनम् ॥२५॥
नैष्ठुर्य नैरपेक्ष्यश्च शाठ्यं क्रौर्यमनार्जवम् ।
कृतविस्मरणं यच्च तत्कदर्यस्य लक्षणम् ॥२६॥
वित्तव्ययवशादोषमुपकारेऽपि वक्ति यः।
कृतघ्नो गर्हितः सद्भिः स कदर्यो विचार्यताम् ॥२७॥
अचुल्लीपाकमस्मेरमसुखं निर्जनश्च यत् ।
यदुत्सवकथाहीनं तत्कदर्यगृहं विदुः ॥२८॥
मन्दाग्निः पाण्डुरोगी च लालास्यश्शुल्ललोचनः।
दुगन्धवदनो यश्च स कदर्योऽभिधीयते ॥२९॥
दन्तेषु मलपूर्णेपु कम्बले धूमपिङ्गले।
.. नूनं स्थिता श्रीर्लुब्धस्य जघन्यजनवासिनी ॥३०॥
दन्ता ज्वरितमूत्रामा मुखं पकफलोपमम् ।
, शुष्काशिनः कदर्यस्य शुष्कचर्मनिभं वपुः ॥३१॥
कुम्भीपाकेषु येनार्थाश्चिरं गर्तेषु पीडिताः।
....... स लुब्धस्तेन पापेन मन्ये कुम्भीषु पच्यते ॥३२॥
सोऽपि सर्वङ्कषः कालः सत्यं लुब्धस्य विस्मृतः ।
षष्टिवर्षस्य धान्यस्य यः करोति न विक्रयम् ॥३३॥
नृत्यत्यदृष्टिषु पुरा ह्यतिवृष्टिषु नृत्यति ।
दुर्भिक्षोपप्लवाकांक्षी कदाँ धान्यगौरवात् ॥३४॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा रात्रिलब्धचेतसः॥३५॥
विरमति मतिहीनो लाभलोभेन वित्तं
जरयति यतिरूपः संयमादिन्द्रियेच्छाम् ।
चरति च रतिविघ्नं सव्ययत्वाद्गृहिण्याः ।
स्वधननिधनरक्षाचार्यवर्यः कदर्यः ॥३६॥
- कदर्यवर्णनं नाम द्वितीय उपदेशः॥
तृतीय उपदेशः
सम्पाद्यताम्अर्थलुब्धामतिप्रौढां चित्रालंकारहारिणीम् ।
प्रौढां वाणीमिव कवेः स्वच्छन्दां बन्धकी नुमः ॥१॥
स्पृहारागविनिर्मुक्ता निष्कामा कामचारिणी ।
स्वध्यानशीला गणिका योगिनीव गुंणोज्झिता ॥२॥
नीचोपभोग्यविभवा सदाचारपराङ्मुखी ।
दुर्जनश्रीरिव चला वेश्या व्यसनकारिणी ॥३॥
न लोभात्स्थानमस्थानं जानीते सर्वगामिनी ।
. आवेशमूढमनसां वैश्या पर्यन्तनिष्फलाः॥४॥
नोपशाम्यति वृद्धापि समस्ताहरणोन्मुखी ।
तृष्णेव बन्धकी नित्यं दुष्पूरा केन पूर्यते ॥५॥
संकोचितांगी सुरते रक्तापचयकारिणी ।
जरेव 'वारवनिता जनतारूपहारिणी ॥६॥
न सिद्धयति धिया भक्त्या शक्त्या युक्त्या गुणेन वा।
कुलटा खलसेवेव मानम्लानिकरी परम् ॥७॥
न बालेष्वपि सस्नेहा तरुणेषु न सस्पृहा ।
न सानुरोधा वृद्धेषु मृत्योमेतिरिवासती ॥८॥
अपि वर्षशतं स्थित्वा सदा कृत्रिमरागिणी।
. वेश्या शुकीव निश्श्वासा निस्सङ्गेभ्यः पलायते ॥९॥
पणेन हतसर्वस्वा कृतलोलाक्षविभ्रमा।
' ' वेश्या कितवमायेव धूर्तानामपि मोहनी ॥१०॥
कृत्रिमं देश्यते सर्व चित्तसद्भाववर्जिता ।
सूत्रमोतेव चपला नर्तकी यन्त्रपुत्रिका ॥११॥
निर्यात्येको विशत्यन्यः परो द्वारि प्रतीक्षते ।
यस्या सभेव सा वेश्या कार्यार्थशतसङ्कला ॥१२॥
मधुधारेव वचासि क्षुरधारेव चेतास ।
वेश्या कुठारधारेव मूलच्छेदाय कामिनाम् ॥१३॥
मौग्ध्ये बाला रतौ प्रौढा वृद्धा मायाशतेषु च ।
सा कामरूपिणी वेश्या रक्तमांसैर्न तृप्यति ॥१४॥
धीमान्मूढो धनी निस्स्वः शुचिश्चौरो लघुर्गुरुः ।
भवितव्यतयेवायं वेश्यया क्रियते जनः ॥१५॥
असूचिभेद्यामासाद्य बाला प्रौढाभिलाषिणीम् ।
हा कष्टं मुषितोऽस्मीति प्रभाते वक्ति कामुकः ॥१६॥
स्पष्टकूटकुचा भार्टी प्रौढेवादाय बालिका ।
मुष्णाति सुरतायोग्या केवलं परिचुम्बनैः॥१७॥
मात्रा समर्पिता लोभादभियुक्तैर्विचारिता ।
जन्मावधि विना वेत्ति वेश्या पुरुषसङ्गमम् ॥१८॥
शयनेऽहं तवाद्यैव बाला प्रथमपुष्पिता।
इत्युक्त्वा कामुकान्मातर्वेश्या भुंक्ते सदोत्सवम् ॥१९॥
न निर्विचारसुरतव्यापारोपरमः कचित् ।
आशैशवादनिच्छन्त्या यस्याः सा कस्य रागिणी ॥२०॥
वेश्याया जघनोद्याने फुल्ले यौवनपादपे ।
दिवानिशं भवत्यैव सुवर्णकुसुमोच्चयः ॥२१॥
पुण्यैः पण्यवधूलग्ने यौवनाख्ये शरत्फले ।
सहस्त्र भगमात्मानं शक्ररूपं समीहते ॥२२॥
स्तनौ नखमुखोच्छिष्टौ वेश्यायाः खण्डितोऽधरः ।
न रागाय न लज्जायै केवलं पण्यवृद्धये ॥२३॥
पर्यन्तविरसाः सर्वे भावाः संसारवर्तिनः ।
आदिमध्यान्तविरसों वेश्यारतिसमागमः ॥२४॥
कटिटिशतैर्घष्टा पान्थपीतोज्झितं मुखम् ।
स्तनौ सहस्रमृदितौ यस्याः कस्यास्तु सा निजा ॥२५॥
स्पष्टं वराशनं त्यक्त्वा भुक्ते कदशनं रहः ।
विश्ववचनशालिन्या वेश्ययात्मापि वञ्च्यते ॥२६॥
याम कथाभिः पानेन परमीरुिषा परम् ।
वेश्या क्षिपति मुग्धस्य शेष कृतकनिद्रया ॥२७॥
मोक्षगामि मनो मन्ये वेश्याया रतिसङ्गमे ।
लिप्यते यन्न रागेण पद्मपत्रमिवाम्भसा ॥२८॥
ब्रूते प्रभाते मिथ्यैव दासी जन्मदिनोत्सवम् ।
भुक्त्वैव बन्धुनिधनं शिरःशूलं करोति वा ॥२९॥
विरसा सेव्यते वेश्या जनैनित्यरजस्वला ।
न कामाय न धर्माय धननाशाय केवलम् ॥३०॥
प्रम्लाने यौवने शुक्लकेशरञ्जनतत्परा ।
वश्ययोगार्थिनी याति वेश्या कस्य न शिष्यताम् ॥३१॥
मत्स्ययूषरसासी घृतक्षीरपलाण्डुभिः।
प्रियं पराकखमिव प्रत्यानयति यौवनम् ॥३२॥
षष्टिवर्षापि यद्वेश्या बालेवोन्मार्जितानना ।
तयुगादो तया पीत नून काकैः सहामृतम् ॥३३॥
कूटविक्रयदोषेण ब्रह्मस्वहरणेन च ।
पतितौ पण्यवनिता स्तनौ यत्नेन गृहते ॥३४॥
क तदस्ति न जानीमः पिवामः किं न तद्विषम् ।
तथैव दृश्यते येन प्रपुराणापि पुंश्चली ॥३५॥
छन्नाननार्धा प्रोत्क्षिप्तस्तनी शीर्णशिरोरुहा ।
मुष्णाति तरुणीभ्रान्त्या मुग्धान्टद्धापि बन्धकी ॥३६॥
क्षीणध्वान्तपया वृद्धा सवाष्पा नष्टतारका ।
वेश्या प्रभातवेलेव सर्वस्वापहृतिक्षमा ॥३७॥
रक्तच्छाया पाण्डुमुखी प्रसवैः कृशतां गता।
सा गुरून्सूत्रकं रक्षां याचते भूतशङ्कया ॥३८॥
मस्तके भुजयोः कण्ठे जतुरक्षाशतान्विता ।
भूतवित्रासजननी सा भूतबलिमिच्छति ॥३९॥
सुधौतवसना तीर्थे स्थित्वा पुण्यदिनेऽसकृत् ।
रण्डावेशेन कुरुते वेश्या मैथुनविक्रयम् ॥४०॥
प्रसिद्धायतने वेश्या कृत्वा लिङ्गार्चनव्रतम् ।
महाश्वेतेव निति शैवलोकजिगीषया ॥४१॥
सा रागकोशशपथक्षीणजिह्वाकराधरा।
शीताम्बरा निष्पुरुषा निशि शीतेन कूजति ॥४२॥
नित्याभ्यक्ता वर्तिलिप्तनयना सा मलीमसा ।
न स प्रतीपमायाति यस्यायाति पुरः पथि ॥४३॥
अर्थार्थिनी देवपूजास्वप्नोपश्रुतितत्परा ।
सदा गणकगेहं सो प्रष्टुं याति ग्रहस्थितिम् ॥४४॥
वाराणसी व्रजाम्येव किन्तु दोषोऽस्ति दुःसहः ।
पलाण्डुना विना तत्र न जीवामीति वक्ति सा ॥४५॥
अम्लाननयना दैन्यजननी घर्घरस्वना ।
दुःखोच्छासवती वृद्धा नीचयाच्नेव नोचिता ॥४६॥
नष्टच्छायाञ्जनवती रोगाा धातुवादिनी ।
भूतावेशोल्वणा वेश्या युक्ता सिद्धगुणैरिव ॥४७॥
हृदयनयनचौरी चारुवेशेन वेश्या ललितंवलितरङ्गिभूलता तावदेव ।
स्थित इह धनिकोऽद्य प्रातरागच्छ गच्छे त्यनुचितमुचितं वा वक्ति यावन्न किञ्चित् ॥४८॥
- वेश्यावर्णनं नाम तृतीय उपदेशः ॥
चतुर्थ उपदेशः
सम्पाद्यताम्हालाइलोल्वणां काली कुटिला कुट्टनी नुमः ।
वेश्यारतिनिधानस्य क्षयरक्षामहोरगीम् ॥१॥
शक्रराज्यापहरणक्षमा विबुधवर्जिता ।
कुट्टनी ब्रह्महत्येव भवस्यापि भयप्रदा ॥२॥
कालकापालिकोत्तालकंकालाकृतिराकुला... ।
कुट्टनी मानुषानत्ति रक्ताकर्षणशालिनी ॥३॥
क्षणा धोऽप्यबुधतां समुद्रोऽपि विमुद्रताम् ।
कुट्टनीदृष्टिपतितः शेषोऽप्यायात्यशेषताम् ॥४॥
भगदत्तप्रभावान्या कर्णशल्योत्कटस्वरा ।
सेनेव कुरुराजस्य कुट्टनी किन्तु निष्कृपा ॥५॥
न कान्तं न कलावन्तं न शूरं सहते सदा ।
प्रतीपचारिणी घोरा राहुच्छायेव कुट्टनी ॥६॥
नापेक्षते परिचयं नोपकारं स्मरत्यपि ।
सर्वदैव विरागान्ता खलमैत्रीव कुट्टनी ॥७॥
सदंष्ट्रा कुट्टनी क्रूरा भुजंगाकृष्टिकारिणी।
याता मूर्तिः कृतान्तस्य नूनमन्यप्रकारताम् ॥८॥
जनपुण्यैरसामान्यैः कुट्टनी कुट्टनी नृणाम् ।
काली बालकंकाली भक्षिता व्रजतु क्षयम् ॥९॥
रामेण ताटका मिथ्या हता कृष्णेन पूतना ।
विश्वकण्टकता याता निहता किं न कुट्टनी ॥१०॥
नूनं बिभेति कुट्टन्याः सोऽपि सर्वहरो यमः ।
स्नायुचर्मास्थिशेषापि सा मायेव यदक्षया ॥११॥
कलहोल्लश्चितकचा त्रुटितश्रवणद्वया ।
छिननासा पिशाचीव घटयत्येव कुट्टनी ॥१२॥
वपुच्छैश्छागशृङ्गश्च व्यालैरुष्ट्रगलैः खलैः।
कुट्टनीहृदयान्मन्ये कौटिल्यमुपजीव्यते ॥१३॥
यौवने मूल्यकुल्येव तुलेव रतिविक्रये ।
पण्यस्त्रीणामनेकार्था कृता देवेन कुट्टनी ॥१४॥
जाने जाम्बवतो ज्येष्ठा जर्जरा वृद्धकुट्टनी ।
रामायणसहस्राणां साक्षिणी कथमन्यथा ॥१५॥
सधनं कामुकं धृष्टा विलोक्यानिशमागतम् ।
जिह्वां प्रसाये नियोति कुट्टनी कार्यगौरवात् ॥१६॥
कुट्टन्या प्रविशन्नेव नरः साभरणाम्बरः।
सविषाणखुरो मेषः सौनिकेनेव गण्यते ॥१७॥
वात्सल्यपेशलगिरा सर्वमातेव कुट्टनी ।
करोति पुत्रेत्याह्नानं पुराणस्यापि वेधसः ॥१८॥
न हृद्यस्त्वत्परः काण खल्वाट शोभसे परम् ।
इति वित्तार्थिनी स्तौति कुरूपमपि कुट्टनी ॥१९॥
हरत्यपकमनिशं पर गिलति लाघवात् ।
बहुच्छिष्टं विधत्ते च लुण्ठिता कुट्टनी नृणाम् ॥२०॥
कामिनः सप्रयत्नस्य बन्धकीभोजकारिणः ।
न तृप्यति महाकाली महिषस्यापि कुट्टनी ॥२१॥
अदृश्योपक्रमैस्तैस्तैः करोति सुशिरं नरम् ।
यत्सत्यं जृम्भमाणस्य जिह्वां नयति कुट्टनी ॥२२॥
रात्रौ विचिकाक्रान्ता क्रन्दती वान्तभोजना।
परिष्वक्ता बन्धुजनैः पुनर्जातेव कुहनी ॥२३॥
छिन्नार्धनासिका मात्रा........विकृतानना ।
जिह्वां प्रसार्य महती .... .... ... ॥२४॥
. .. .... .... .... .... ॥२५॥
..... ................. ॥२६॥
भृगुतुङ्ग बजामीति कृत्वा पुण्यदि ...
भुक्ते नानारसाहारं कुट्टनी बान्धवा ...
ज्वरातीसारशोफार्ता तीर्थ नीता ...
स्वद दिनैः प्रतीपमायाति कुट्टनी विजयेश्वर ...
चौराः सर्वे स्थिताः केन नीता सा हेम ...
इत्युक्त्वा कुट्टनी स्वस्था निष्कासयति ...
कामिनः सुरतेच्छायां वेश्याविन्यस्तचक्षुष... ।
पूर्वराजकथाव्याजैर्विघ्नं चरति कुट्टनी ॥३०॥
क्षीणं व्यसनिनं मूढं दुर्दशेव विनाशिनी ।
कुट्टनी प्रेरयंत्येव सपत्नकलहादिषु ॥३१॥
विरक्ता रिक्तहस्तस्य प्रच्छन्नव्यक्तयुक्तिभिः ।
सक्ता निष्कासनोपाये निद्रा नायाति कुट्टनी ॥३२॥
सर्वस्वेनाप्यसन्तुष्टा रूक्षा स्नेहशतैरपि ।
निर्मिता कामिनां विघ्नः कृतघ्ना केन कुट्टनी ॥३३॥
नयननयनसक्ता रक्तमांसप्रसक्ता सकलसकललोकग्रासमुक्ताट्टहासा ।
कलितकलितरङ्गस्फारसंचारचारा भ्रमति जगति पुंसां कुट्टनी कुट्टनी सा ॥३४॥
- कुट्टनीवर्णनं नाम चतुर्थ उपदेशः॥
पञ्चम उपदेशः
सम्पाद्यताम्क्षीणाय गुणहीनाय सदोषाय कलाभते ।
विटाय कृष्णपक्षेन्दुकुटिलाय नमो नमः ॥१॥
सर्वोद्वेगकरी चेष्टा भुजङ्गस्य विलासिनः ।
विटस्यानेकजिह्वस्य भोगमात्राभिमानिनः ॥२॥
परदारानुबद्धस्य सरागस्य विकारिणः ।
विशेष नाधिगच्छामि विषस्य विटकस्य च ॥३॥
सदा विप्लवशीलेन कोपनेन प्रमादिना ।
चटुलेन विटः स्पष्टं मकंटेनोपमीयते ॥४॥
अन्तर्मुखोऽन्तरालीनो ध्यानवान्संहतेन्द्रियः।
क्षणादवाप्तो योगित्वमात्मारामस्थितिर्विटः॥५॥
वेश्याभिस्थूत्कृतमुखः सुजनेन विवर्जितः।
अमङ्गलाकृतिरिव भ्राम्यतेऽविरतं विटः ॥६॥
सूचीहस्तः सूत्रधारः सकङ्कणप्रवेशकः।
क्षीणो नटायते स्पष्टं विटः कपटनाटके ॥७॥
विटो राम इवाभाति काकुस्थः कुलटागृहे ।
निकृत्तकुट्टनीशूर्पणखाश्रवणनासिकः ॥८॥
गतागतेष्वखिन्नेन सततं चक्रचारिणा।
खरस्वनेन प्रकटं विटेन शकटायते ॥९॥
शूरो दोषाकरः स्त्रीणां वक्रश्चित्ते खलो बुधः ।
गुरुः पापे व्यये शुक्रो विटः पथि शनैश्वरः॥१०॥
वेश्याभिर्विप्रलब्धोऽपि निरस्तोऽप्यसकृतिटः।
पुनर्विशति तद्नेहं श्वा हतो लगुडैरिव ॥११॥
क्षीणः कृतोपवासोऽपि शून्यदेवकुले कचित् ।
मिथ्यैव भोगानाचष्टे यैर्विराटायते विटः ॥१२॥
निदाघे स्थूलवसनं माघे तनुतराम्बरम् ।
पिङ्गं धत्ते विटो वेश्याहस्तोत्पुंसनकुङ्कमैः ॥१३॥
विलेपनाङ्कितपटः स्वदत्तनखमण्डितः।
वेश्यासम्भोगसौभाग्यं याति प्रकटयन्विटः ॥१४॥
फणाटोपकृतास्फोटविचटत्पटपल्लवः ।
विटस्ताम्बूलगण्डूपैर्वेश्याभिः परिपूर्यते ॥१५॥
उदश्चितकचः किञ्चिचिबुकश्मश्रुवेष्टने ।
दिने देवगृहाधीशवदनं वीक्षते विटः ॥१६॥
दर्पयन्दन्तताम्बूलो दन्त्यमायाक्षरैः पदैः।
अलग्नोष्ठपुटो वक्ति कथनः कटुको विटः॥१७॥
रूः पश्चात्पुरः स्निग्धैः कचैः कृत्रिमकुञ्चितैः ।
शिरो विलोलयन्ब्रूते वेश्यां केशधनो विटः ॥१८॥
सुचिरं वालकं कृत्वा हस्ते प्रस्ताववर्जितम् ।
अङ्गुल्या वर्णयत्येव सर्व सर्वोद्भवो विटः ॥१९॥
यत्नेन खादिरं रागं रक्षन्बद्धमिवाधरे ।
प्रपायां मण्डकं भुंक्ते वेशमात्रधनो विटः ॥२०॥
निद्रा न याति विवलन्पलालशयने निशि ।
तूस्तप्रावरणं दृष्ट्वा ........................ ॥२१॥
.................. सजने जननी पुरः ।
ममेयं कुम्भदासीति वक्ति मानधनो विटः॥२२॥
टक्कराकोटिटाङ्कारविस्फुटन्मस्तको रटन् ।
खल्वाटः शन्तिो याति वेश्यावेश्म जरदिटः ॥२३॥
ऋणेन खण्डितो रागी पुंश्चलीनखमण्डितः ।
सपत्नदण्डितो याति विदेशं विटपण्डितः ॥२४॥
मासमात्रं शठः स्थित्वा कचित्खशकुटीरके।
प्रगल्भते दाक्षिणात्यभंगीभणितिभिर्विटः ॥२५॥
दुनिमित्तमिवासा यूकानां विपुलं पटम् ।
जूटं बध्नाति हा कष्टं बहिर्देशगतो विटः ॥२६॥
रसायनैर्विलज्ञानर्योगशास्त्रैरसङ्गन्तैः।
गन्धयुक्तिकथाभिश्व मुग्धान्भुक्ते जरविटः ॥२७॥
क्षपितविकलकालो धातुवादी विटाग्रयः सततमलिनभस्त्राभस्ममूषांगहस्तः ।
विकटकचकरालः कज्जलालिप्तभाल श्वरति रसविदग्धो दग्धचीरः पिशाचः ॥२८॥
- विटवर्णनाम पञ्चम उपदेशः॥
षष्ठ उपदेशः
सम्पाद्यताम्नमछात्राय सततं सत्रे वामाहारिणे ।
उग्राय विषभक्षाय शिवाय निशि शूलिने ॥१॥
कालकङ्कालसदृशश्छात्रो देशान्तरागतः ।
करङ्कशंकया दूरात्सजने वज्यते जनैः ॥२॥
क्षत्रिणः सपवित्रस्य स्पर्शहुङ्कारकारिणः ।
लजन्ते मुनयोऽप्यग्रे गौडस्यापरपाकिनः ॥३॥
ग्रहवारेषु भुञ्जानः स्नातकः संशितव्रतः।
प्रणतश्चाबसंकाङ्की जपति प्रहरद्वयम् ॥४॥
अवाप्ततिलकः सत्रे भोज्यरुद्वर्तनैश्च सः ।
भुजङ्गः कञ्चुकमिव त्यक्त्वा सञ्जायते नवः ॥५॥
भाटीः पृच्छति वेश्यानां द्यूतं पृच्छति निर्जितम् ।
मांसं संपृच्छति भोज्ये व्रतखिनेषु दैशिकः ॥६॥
छात्रः प्रवृत्तः पाण्डित्ये वृद्धकीरजिगीषया ।
कष्टेन जानात्योंकारं स्वस्तिज्ञाने कथैव का ॥७॥
अलिपिज्ञोऽप्यहंकारस्तब्धो विप्रतिपत्तये ।
गौडः करोति प्रारम्भ भाष्ये तर्के प्रभाकरे ॥८॥
स्पर्श परिहरन्याति गौडः कक्षाकृताञ्चलः।
कुञ्चितेनैकपार्श्वेन दम्भभारभरादिव ॥९॥
अलक्तकाङ्कितोद्धष्टनखश्चित्राम्बरोऽथ सः।
लज्जते मलपत्रेण चक्रताराचसञ्चये ॥१०॥
क्रुद्धः कर्मकरान्सान्निरस्य लगुडाहतान् ।
तमेव सहते दासं तरुणी यस्य गेहिनी ॥११॥
उपानत्कुत्सितारावगर्वितः स शनैर्ऋजन् ।
लोहितक्षुरिकापट्टवेष्टितां वीक्षते कटीम् ॥१२॥
लीलाश्चितलतापाणिभ्रूविलासविकारकृत ।
वेश्यावेश्मागरथ्यासु सायं भ्रमति दैशिकः ॥१३॥
कितवः कुट्टनी वेश्या चर्मकारः सनापितः।
पञ्च गौडशरण्डस्य करण्डग्रन्थिभेदिनः॥१४॥
निर्दीपपात्रतुल्यास्यकान्त्या जितशनैश्चरः।
गीयते रूपकन्दर्पश्छात्रो दुर्गतगायनैः ॥१५॥
यातः प्रसिद्धिं काठिन्यादविश्रान्तरतिः सदा ।
त्रिगुणेनापि मूल्येन वेश्यां नामोति दैशिकः ॥१६॥
यदैव शयने गाढं जूटं बनीति दैशिकः।
तदैव हा मृतास्मीति वेश्या ब्रूते भयार्दिता ॥१७॥
भाटीं गृह्णाति या वेश्या परनाम्नापि दैशिकात् ।
सैव तस्याः कटीशूलपथ्ये याति चतुर्गुणा ॥१८॥
यस्योपस्पृशतः शौचे पर्याप्ता नाभवन्नदी ।
स एव भुंक्त वेश्याभिरुत्सृष्टं मधुभोजनम् ॥१९॥
शीतकाले शिरःशाटी वेश्यावेश्मसु दैशिकः ।
हसन्कालमुखः शुक्लदशनो वानरायते ॥२०॥
रण्डां परवधू वापि यत्नादन्वेष्टुमिच्छति ।
पितुर्नाम्नां परिचयं स करोति गृहे गृहे ॥२१॥
हसन्ति किं भणन्तीति मुग्धोक्त्या परयोषितः ।
विश्वास्य सेवते धूर्तः सत्रभोजनवर्णनैः॥२२॥
घश्चत्कर्णसुवर्णांकः स्थूलत्रिगुणवालकी।
. प्रभाते धनदाकारस्तूर्णं निर्याति दैशिकः ॥२३॥
स पिशाच इवाभाति दिनान्ते द्यूतनिर्जितः ।
नग्नो भग्नमुखः पांसुलिप्तसत्रपसत्रपः ॥२४॥
उदराबद्धवस्त्रेण ग्रन्थिजूटेन नादिना ।
लगुडोद्धतहस्तेन च्छात्रेणोन्मूल्यते मठः ॥२५॥
. अनेकक्षुरिकाघातक्षुण्णकुक्षेः क्षयैषिणः।
. को नाम गौडयक्षस्य सत्रे याति विपक्षताम् ॥२६॥
भुक्तं करोति न प्रीत्या न भयानच गौरवात् ।
गौडश्चरति लोकेऽस्मिन्दुर्ग्रहोऽपि सविग्रहः ॥२७॥
द्वादश्यामन्यवद्गौडः सत्रच्छेदादुपोषितः ।
स्वयं पकेन कुरुते मत्स्यमांसेन पारणम् ॥२८॥
नापितश्चर्मकारो वा धीवरः सौनिकोऽपि वा।
स्वदेशे दैशिको नूनं सन्ध्यापाठं न वेत्ति यत् ॥२९॥
सत्रे च्छात्रेण पात्रेण कृते भोज्यप्रतिग्रहे ।
तुष्यन्ति देवता वेश्याः क्षीरिणीघृतमोदकैः ॥३०॥
वेश्यासक्तो द्यूतकरश्चाक्रिकः प्रायकृत्सदा ।
कुक्षिभेदी मठवने च्छात्रः पञ्चतपा मुनिः ॥३१॥
न ब्रह्मचारी न गृही न वनस्था नवा यतिः ।
पञ्चमः पञ्चभद्राख्य छात्राणामयमाश्रमः ॥३२॥
दैशिकः कृपया येन पीतकोशः प्रवेशितः ।
तस्यैव लिखति प्राये ब्रह्महत्यां विपाशनः ॥३३॥
वेश्यावारज्वरः सत्रसन्निपातो मठक्षयः।
न सङ्ग्रहैर्न हृदयैः साध्यतामेति दैशिकः ॥३४॥
शृंगग्राही दधिक्षीरे सूदाघातेषु दण्डधत् ।
मठच्छात्रः सदाच्छत्री न तथापि स दीक्षितः॥
३५ चाक्रिकः शिवतां यातश्चौरः कर्मकरैर्धतः ।
गौडो गर्वोन्नतग्रीवष्ठकुरोऽस्मीति भाषते ॥३६॥
सत्रान्नेनोदरस्थेन ये मृता बुद्धदैशिकाः ।
ते सत्रतूर्ये क्रोशन्ति जातास्तत्रैव कुक्कुटाः ॥३७॥
याचते पण्यमधिकं मूल्यमल्पं प्रयच्छति ।
वणिजस्तिष्ठति पुरः प्रभाते दैशिकः कलिः ॥३८॥
मत्स्या मत्स्यमिवाश्नन्ति भागीकृत्यातुरं क्षणात् ।
छात्राश्छनकरण्डादिपटशाटककम्वलैः॥३९॥
श्राद्धपक्षे मठच्छात्रो भुक्त्वा ठक्कगृहे काचित् ।
न पश्यत्यूलनयनः शूलारूढ इव क्षितिम् ॥४०॥
नायं मठः शठमठः प्रांशुहठमठोऽपि वा ।
वृद्धराक्षसपूर्णेयं घोरा दारुगिरेगुहा ॥४१॥
मठश्मशाने वेतालाः पिशाचाः स्नानकोष्टके ।
घटयन्ति जनं छात्राः सत्रे सन्त्रासभैरवाः ॥४२॥
कुपितं कपिमालिङ्गन्य कण्ठे बद्धा महोरगम् ।
गौडं चातुरमासाद्य वैद्यस्य कुशलं कुतः ॥४३॥
स्नाने दाने व्रते श्राद्धे निष्कारणरुषा ज्वलन् ।
मातरं चोदयामीति वदन्सर्व करोति सः॥४४॥
व्रजति दिनमखिन्नः सत्रपां सत्रपाली रमयति च कुमारी दन्तरूपो विरूपः ।
क्षपयति भजमानः स्वां कुलाली कुलाली विलसति मठचहः पापकारी विकारी ॥४५॥
- च्छात्रवर्णनं नाम षष्ठ उपदेशः
सप्तम उपदेशः
सम्पाद्यताम्नुमः पुष्पवती कान्तां कन्यां यौवनशालिनीम् ।
पुरुषस्पर्शरहितां श्वभ्रजातां लतामिव ॥१॥
अविद्ययेव जरया स्पृहया च विमोहितः।
कुमारी याचते वृद्धः कदर्य इव संपदम् ॥२॥
विवाहं परलोकार्थं करोत्येष विचक्षणः ।
इति वृद्धस्य वरणे वक्ति स्मितमुखो जनः ॥३॥
कृतारुचिः पृथुश्वासतमोदृष्टिविरागवान् ।
कन्याया वरणे वृद्धो मूर्तो ज्वर इवागतः ॥४॥
अकाले जरया पुत्रि व्याप्तोऽयं धनिनां वरः।
इति वृद्धः पिता ब्रूते तनयामश्रुवर्षिणीम् ॥५॥
वृद्धहस्तेन कुचयोः स्पर्शो मे कथमेतयोः।
इत्युच्छासवती कान्तं कन्या शोचति यौवनम् ॥६॥
आलम्भ्य कन्यामञ्जयो विवाहे पाणिपल्लवम् ।
वृद्धः कुचफलन्यस्तवदनो वानरायते ॥७॥
वधूर्वरोत्सवायाततरुणन्यस्तलोचना।
नोपसर्पति वृद्धस्य शय्यां वध्यशिलामिव ॥८॥
भायोसमागमे वृद्धः प्रणामानतमस्तकः।
पादास्फोटनभन्नास्यः पतितो मूर्छितः क्षितौ ॥९॥
लालापूर्णेन वक्त्रेण परिचुम्बनमीहते ।
धिगहो वत नष्टा धीरिति वृद्धं ब्रवीति सा ॥१०॥
पितः पितामहोऽस्तीति त्वत्तुल्यः किं न लज्जसे।
आनीताहं कुपतिना वद कस्य कृते त्वया ॥११॥
इति प्रलापिनी वृद्धः शयनं याचते वधूम् ।
वाक्यैः पतितदन्तालीगलल्लालालवाकुलैः ॥१२॥
वधूर्वृद्धभुजङ्गेन स्पृष्टा हाकष्टवादिनी ।
दष्टेव खटामुत्सृज्य गेहान्देहं पलायते ॥१३॥
बलाइन्धुजनैनीता पुनः शय्यानिकेतनम् ।
वधूद्धस्य संस्पर्श चण्डालस्येव रक्षति ॥१४॥
पृथगंशुकसंवीतां सुप्तामालिङ्गतः प्रियाम् ।
वृद्धस्य निद्रा नायाति कुपितेव तदीर्घ्यया ॥१५॥
रजस्वलोत्सवे वध्वाः पूर्वजारसमागमात् ।
प्रातः क्षिपति.सिन्दूरं दृद्धस्य वदने जनः॥१६॥
विधेयं सकलाज्ञासु पुष्पालंकारवस्त्रदम् ।
कटुकौषधवद्रुद्ध मुहूर्त सहते वधूः ॥१७॥
मुहुः शक्तिदरिद्रस्य गूढांगं स्पृशतो मुहुः।
न रतिर्विरतिर्वापि स्थविरस्य प्रजायते ॥१८॥
प्रमादायदि वृद्धस्य शक्तिराकालिकी भवेत् ।
तदर्थ तस्य निर्यान्ति शुक्रेणैव सहासवः ॥१९॥
पीनस्तनोरुजधना जीर्णवीणोपमाकृतिः।
तरुणी संस्पृशन्टद्धः शुष्कोऽप्यायाति शुष्कताम् ॥२०॥
वृद्धस्य दृष्यैराहारै_जीकरणमिच्छतः।
अतीसारैः सवमनैनष्टा पुष्टिस्त्रिवार्षिकी ॥२१॥
अहो वृद्धस्य पर्यन्ते लग्नः सुकृतसञ्चयः ।
भार्या सुरतमन्त्रेण नामग्रहणकारिणी ॥२२॥
गर्भिणी परवीजेन वृद्धस्योत्सवकारिणः ।
ददात्यनुज्ञां सततं पादसंवाहने वधूः ॥२३॥
प्रहर्षात्पादपतनैर्वन्धुमध्ये वधृगिरा।
पुत्रजन्मनि वृद्धेन सपत्नोऽपि निमन्त्रितः ॥२४॥
घुणजग्धस्य दग्धस्य तरोर्जातोऽयमंकुरः ।
इति ब्रुवाणा वृद्धस्य प्रनृत्यन्त्युत्सवे स्त्रियः ॥२५॥
षष्ठीप्रजागरेणेव वृद्धस्याजीर्णकारिणः ।
पर्यन्तकारी विषमः श्वासः समुपजायते ॥२६॥
धन्या त्वं वृद्धदयिते पुत्रिकाविधवाधुना ।
गृहिणी स्त्रीभिरित्युक्ता वाष्पं नोज्झत्यमङ्गलम् ॥२७॥
अभियुक्तैस्तथा चोक्तं कैश्चित्कुशलवादिभिः ।
भाग्ययोग्यं न नारीणां यौवने म्रियते पतिः ॥२८॥
माश्रीषं मापि काद्राक्षं नियं सर्वापदां पदम् ।
स्थविरं तरुणीभार्य वेश्यासक्तंच निर्धनम् ॥२९॥
क्व कियत्कि तवास्तीति कण्ठप्राप्ताधजीवितम् ।
घृर्द्ध चौरमिवाभ्येत्य धनं पृच्छति गहिनी ॥३०॥
विरतसुरतशक्तिः स्पर्शमात्रैकभक्ति निशि निशितवचोभिर्भय॑मानो गृहिण्या।
भुजभुजगनिबद्धं स्वक्षये वृद्धयक्षः सुभगभगनिधानं रक्षति न्यस्तहस्तः ॥३१॥
- वृद्धभार्यावर्णनं नाम सप्तम उपदेशः ।
अष्टम उपदेशः
सम्पाद्यताम्एकत्र संक्षिप्तधिया प्रकीर्णजनवर्णनम् ।
देशभाषापदैर्मिश्रमधुना क्रियते मया ॥१॥
रागद्वेषसमाकुलमुग्रमहामोहलोभदम्भभयम् ।
गुरुमपि लाघवहेतुं भवमिव बहुविभ्रमं वन्दे ॥२॥
गुणरहितो रुतकारी शिष्यवधूनां सदा गुरुर्गदितः।
दीनारक्षयकरणा दीक्षेत्युक्ता कृता तेन ॥३॥
सुलभमहो वत पुंसां कलिकाले लीलयैव मोक्षपदम् ।
हीषामण्डकमधुना वक्ति गुरुनिसर्वस्वम् ॥४॥
गुरुः
लुण्ठितसकलसुरद्विज पुरनगरग्रामघोषसर्वस्वः।
पुनरपि हरणाकांक्षी व्रजति गुरुं दीक्षितो दिविरः ॥५॥
कलमशिखाहतजनतादीनतराक्रन्दलब्धविभवस्य ।
दिविरस्योन्नतिहेतो गिविधाने मतिर्भवति ॥६॥
वञ्चनविरचितपटलीसंग्रहमिशैश्च दीर्घसञ्चारः।
निगिलति मेषमशेषं तालक्षुद्रोऽथ वाचालः ॥७॥
दिविरः वक्त्रालोकिनि सदने प्रागल्भ्यादासभावमानीते ।
पत्यौ विरचितवेशा याति गुरुं दीक्षिता पत्नी ॥८॥
पशुसंस्पर्शाद्विमुखी समयविहीनस्य गेहिनी भर्तुः।
भायाति सदा कृत्वा गुरुसुरतपवित्रमात्मानम् ॥९॥
खरतरपृष्ठकटीतटमन्थरगमना गृहानेत्य ।
पादाघातैः पत्नी हन्ति पर्ति भोजनस्य चिरात् ॥१०॥
कुलवधूः
मधुपाने कृतबुद्धि कौलकथानष्टजातिसंकोचः।
मत्स्यशरावकहस्तो गुरुगृहमायाति दीक्षितो भट्टः ॥११॥
घटगलगलगलशब्दैर्गैलपूरं भैरवं पिवन्भट्टः।
संलक्ष्यते प्रवाहे लुठित इवाम्भोभराखिनः ॥१२॥
नीत्वा निखिला रात्रि क्षीवो वान्तासकः श्वलीढास्यः ।
अभिवादनपरिशुद्धः प्रातर्भट्टोऽन्यभट्टेषु ॥१३॥
भट्टः
निक्षेपक्षयकारी निह्नवदनः कलाक्षपायक्षः।
पणिगर्योदयकांक्षी गुरुगृहमाप्तो न मोक्षार्थी ॥१४॥
मार्जनरेणुकरालो गुडमधुघृतपिङ्गतैललिप्तकरः।
ग्राहकघट्टनसक्तो हट्टपिशाचो वणिङ्मूर्तः ॥१५॥
दुर्गन्धोत्कटसंचितधननिचयक्लिन्नहट्टनिगडस्य ।
वणिजः कृतो विधात्रा श्रीगुरुनाथः प्रणालनिष्कर्षः ॥१६॥
वणिक्
सारस्वतमन्त्रार्थी किंचित्संस्कारलिप्तजिह्वाग्रः।
कुलवागीशीसिद्धयै याति गुरुं काव्यहेवाकी ॥१७॥
अज्ञातधातुलिंग मुखकूणनमुल्बणमपकम् ।
अज्वरमिव वमति कविः श्लोकं कृच्छ्रात्सह प्राणैः ॥१८॥
शुष्कश्लोकध्यानात्कुष्णाति दिवानिशं हृदयम् ।
मन्दः काव्येन विना गत्वा कुरुते न वृत्तिं स्वाम् ॥१९॥
कविः
जरया जीर्णशरीरः कासश्वासप्रयासहतशक्तिः।
व्रजति रसायनसिद्धः स्वगुरु वृद्धोऽग्यशेषायुः ॥२०॥
मूषामुखविस्तीर्णं भूरिसुवर्णैः करोमि सम्पूर्णम् ।
निजजनमपरं च रसैरित्युक्त्वा निधनो म्रियते ॥२१॥
पर्यन्तातीसारे लग्ने वृद्धस्य सूतसिद्धस्य ।
शुद्धिहमलानां जातेत्युपजायते हर्षः ॥२२॥
धातुवादी
श्वेतार्काकृतिगणपतिमन्त्रार्थी कितवचक्रविजयाय ।
कितवः शफरीमण्डकसिन्दूरकरो गुरुं याति ॥२३॥
मूत्रनिरोधात्कृच्छ्री सततमनशनव्रतो जितो मौनी ।
धत्ते तापसवृत्ति चित्रं संसारवञ्चकः कितवः ॥२४॥
भस्मविलिप्सशरीरः सततं नग्नः कपालपाणिश्च ।
ईश्वररूपोऽपि भुर्श दारिद्यानिकेतनं कितवः ॥२५॥
द्यूतकरः
गुरुरिति वितरति सर्वं पशुसंकाशो गतानुगति ।
बुद्धिविहीनः शिष्यः केवलभक्तो गलाट....मध्यः॥२६॥
बुद्धिविहीनः
यागगृहेष्वासन्नो भोजनपानैकसेवकः शिष्यः।
चौरस्याप्यतिचौरश्चरति सदा वञ्चकस्य गुरोः ॥२७॥
जय जय भगवन्मोक्षक्षपणैकनिमित्तदत्तसंसार ।
मममधर्मपथे मामुद्धर नाथ स्वहस्तेन ॥२८॥
इत्यादिस्तुतिवचनैः पादांग्रालीनमस्तकः स गुरोः ।
भुक्ते पिवति च दम्भाद्भक्तिविहीनो महाधूर्तः ॥२९॥
गुरुभक्तः आह्वानेऽपि विसर्जनकारी देवस्य घघरैगीतैः।
तुम्बकवीणास्कन्धः प्रविशति यागे गुरोः शिष्यः ॥३०॥
सोत्कण्ठेषु श्रोतृषु कृच्छादिवसेन सारणां दत्त्वा ।
तन्त्रीघर्षणखषखष शब्दैः श्रुतिशूलमाधत्ते ॥३१॥
नार तुम्बुरुगर्वः स्वरटांकारशब्देन ।
मुहुरीक्षते मुखानि श्रोतृणां साधुवादाय ॥३२॥
वैणिकः
आतुरधनसम्पूर्णश्चूर्णार्धश्लोकपाठपाण्डित्यः ।
वैद्यो गृहमति गुरोः शिष्यधनव्याधिभक्षस्य ॥३३॥
हृदयविहीनो धूर्तः संग्रहरहितः स वंचको वैद्यः।
वक्ति न दोषान्दोषी चरकश्चरकं न जानाति ॥३४॥
शब्दाटोपैयकृद् दुःसहतरसंनिपातहतलोकः।
वैद्यो विद्युदिवोग्रः पतति निधानेषु सदनेषु ॥३५॥
वैद्यः
यूकांगचुल्लमुख श्चद्रापीडान्वयी नयनपीडः।
कुलगुरुमेति ग्रामात् तण्डुलत्रस्त्रां वहन्कले ॥३६॥
चूर्णहरिद्रारञ्जितनवहिमसूत्राभशीर्षशाांकः।
खञ्जन्या सितसङ्कटविकटमोचोटनिर्गताङ्गुष्ठः ॥३७॥
ऋणराशिर्लेखशतैर्भुक्तफलो निर्गुटः कुटुम्बिभटैः।
नीराजा भीत्या प्रदिति वर्षेण राजकुलम् ॥३८॥
निर्गुटः
चरितरवहेतुर्मीणां पण्डितो गुरुं याति ।
पदम सानुनासिक पदैर्जनितशिरःशूलः ॥३९॥
चाइसमन्वयहीनो मलाकलमस्फारभारमलपत्रः।
विरीतच्छिन्नाधैः पठति पदैष्टिष्पिकाबन्धैः॥४०॥
विद्वानसाधुशब्दो विस्मृतलिङ्गो नपुंसकप्रकृतिः।
विदितसकलसमासो सत्सु सदा द्वन्द्वमेव जानाति ॥४१॥
नासास्थूत्कृतिमित्रै मिथ्याकाशैः सकण्ठटांकारैः।
पृष्टो विघ्नं कुरुते विस्मृतलट्मत्ययो विद्वान् ॥४२॥
पण्डितः
मिथ्या प्रातः प्रातर्दाता सर्वस्य चर्मकार इव ।
लिखति भगार्चनेकल्प याति गुरुं लेखको भक्तः ॥४३॥
संकरकद्वर्णानां विबुधानां पतितपंक्तिभिर्भयदः।
सततामेध्यः पापी कलिकालो लेखकः साक्षात् ॥४४॥
आकारशीर्षहारी नवदरकारी पदार्थसंहारी।
अक्षरभक्षकमेलालिप्तमुखो लेखकः कालः ॥४५॥
लेखकः
नयनशिवः खल्वाटो .........दन्तुरश्च रूपशिवः।
जटिनो विशन्ति यागे ध्यानशिवस्तन्त्रमन्त्रहीनश्च ॥४६॥
त्रिफलाक्षालनविमलो धूपाढयो भस्पमुष्टिहतयूकः ।
वेश्यानामुपधानं धन्यो जटिनां जटाजूटः ॥४७॥
तन्त्रस्थानायातः पायतपोभिः शटीजपध्यानैः ।
अश्नाति मठतपस्वी शिवतासिद्धथै पुनर्विषमः ॥४८॥
जटाधरः
कुशतिलराजतवालि कलितकरा स्नानदानजपनिरता ।
मधुमांसाशनहीना रण्डा त्राणं गुरुं स्मरति ॥४९॥
श्राद्धे भर्तुर्विद्यां त्यक्तवा सा भट्टभोजकश्राद्धम् ।
भक्त्या मृतकोद्धारे जानं हस्ते गुरोः क्षिपति ॥५०॥
मण्डिसीवरजघना धनकुचकलशा विलोलाक्षी।
अस्तु सुखाय विटानां जवरतरसवाहिनी रण्डा ॥५१॥
रण्डा
इत्युद्देश्यनिर्देशनेन विविधं यत्किञ्चिदुक्तं मया
तत्सर्वं स्मितकारणं सहृदयाः शृण्वन्तु सन्तः क्षणम् ।
क्षेमेन्द्रः प्रणतिं करोति न पटुर्लोकोपहासेष्वलं
किन्त्वेष व्यपदेशतः प्रतिपदं देशोपदेशः कृतः॥५१॥
- प्रकीर्णवर्णनं नाम अष्टम उपदेशः
दीर्घा दूरे दुराशा खलमुखरमुखालोकने का कथैव सेवासन्तापशान्तिः प्रशमपरिचिता स्वान्तसन्तोषलक्ष्मीः ।
सर्व श्लाघ्यं वदन्ते पयसि बुसरजः किन्त्वयं दोषलेषाद्यस्योन्मेषः कथानां हृदयपरिमला शुद्धयते केन सार्धम् ॥१॥
दर्पान्धो नगरे तथापरगुणोत्कर्षे महामत्सरो पाये शेषवृषाशयस्तरुशिलामायः परो गह्वरः ।
सोन्मेषप्रतिभः प्रगल्भवचसामन्तश्चमत्कारिणां चित्रं नास्ति विचारचारुचतुरः प्रत्युत्तरार्हः सुहृत् ॥२॥
- कृतिः क्षेमेन्द्रस्यति शम् ॥
- देशोपदेशः समाप्तः
स्रोतः टिप्पणं च
सम्पाद्यताम्- Deshopadesha & Narmamala of Kshemendra से इमेज (PDF) लेकर उसे गूगल डॉक्स द्वारा ओसीआर किया। इसके बाद इसमें स्वयं कुछ वर्तनी सुधार किया। अधिकांश वर्तनी सुधार अभी भी बाकी है।