दैवज्ञवल्लभा/अध्यायः १२ (विवाहविचारः)
← अध्यायः ११ | ज्योतिषम् दैवज्ञवल्लभा |
अध्यायः १३ → |
लग्नाच्छशी त्रिमदनायसुतारिसंस्थः सूर्यामरेज्यशशिजैरवलोक्यमानः।
प्रष्टुर्भवेन्नियतमेव विवाहदाता केन्द्रत्रिकोणभवनेश्वथवा शुभाश्च॥ १॥
अत्रैव यदि योगे स्याच्छुभः सप्तमवेश्मनि।
तदा लभेत् सज्जायां पापश्चेद्रूपवर्जिताम्॥ २॥
समस्थिते सूर्यसुते वरस्य लभ्या भवेन्निश्चितमेव कन्या।
अतोऽन्यथात्वं विषमस्थितेऽस्मिन्निःसंशयं प्रष्टुरुदाहरन्ति॥ ३॥
सप्तमवित्तोपचयस्थानस्थो गुरुनिरीक्षितश्चन्द्रः।
विदधाति युवतिलाभं तन्नाशं पापयुतदृष्टः॥ ४॥
यस्य प्रश्नविलग्नात् षष्ठाष्टमराशिगो भवेच्चन्द्रः।
व्यूढव्य तस्य नूनं मृत्युः स्यादष्टमे वर्षे॥ ५॥
यदि लग्नगतः क्रूरः पापस्तस्माच्चसप्तमे भवति।
सप्तभिरेव तदाऽब्दैः पुंसो निधनं विनिर्देश्यम्॥ ६॥
एवं लग्नोपगते चन्द्रे तस्माच्च सप्तमे भौमे।
परतो विवाहकालाज्जीवेन्मासाष्टकं स पुमान्॥ ७॥
उदयाष्टमराशिसंस्थिते भृगुपुत्रेऽप्यथवेन्दुनंदने।
विधवा क्षितिजे तु सप्तमे म्रियते निश्चितमेव कन्यका॥ ८॥
दिवामणिः सप्तमगो लग्नात्कन्यां मृतप्रजां कुरुते।
कुलटामुदयोपगतः कुरुते नैवात्र संदेहः॥ ९॥
सक्रूरौ कुरुतोऽमृतांशुशशिजौ षष्ठे स्त्रियं दुर्भगां
कुर्वाते शशिभार्गवौ च कुलटामाये च जायास्थितौ।
अत्रैवेन्दुजभार्गवौ जनयतो वैधव्यमावश्यकं
प्रत्येकं च सपापकैर्यदि ततोऽवश्यं तु वेश्या भवेत्॥ १०॥
लग्नात्स्मरेशत्रिसुतारिगश्चेद् गुर्वर्कसौम्यैः शशभृन्न चान्यैः।
दृष्टो दिशेदाशु तदा विवाहं चिरात्स विघ्नं त्वशुभेक्षितश्चेत्॥ ११॥
लग्नगं शशिसुतं शशिनं वा वीक्षते बलयुतो यदि शुक्रः।
योषिदाप्तिरचिरेण तदा स्यात्पापदृष्टिसहितं तु न हीति॥ १२॥
चरालयस्थौ यदि लग्नचन्द्रौ विलोक्यमानौ भृगुनन्दनेन।
पापग्रहाः कण्टकसंगताश्चेत्प्रभूतकान्तां लभते तदानीम्॥ १३॥