दैवज्ञवल्लभा/अध्यायः ४ (सामान्यगमाऽऽगमौ)

← अध्यायः ३ ज्योतिषम्
दैवज्ञवल्लभा
अध्यायः ५ →


स्थिरे विलग्ने न गमागमौ स्तश्चरे विलग्ने तु विनिश्चितौ तौ।
मिश्रं फलं स्याद्वि तनौ तदर्धं द्वये चरस्थावरवत्तदूह्यम्॥ १॥

सूरसौरिगुरुसौम्यसितानामेककोऽपि चरलग्नगतश्चेत्।
आशु तर्हि गमनं स्पृहणीयं वक्रतामुपगतस्तु न हीति॥ २॥

स्थिरराशिलग्नवर्ती गुरुबुधसितभास्करेषु यद्येकः।
गन्तुः पथो निवृत्तिं जनयति निःसंशयं प्रश्ने॥ ३॥

रविर्वा गुरुर्वा बुधो वा सितो वा भवेदायराशिस्थितः प्रश्नकाले।
गतिः प्रच्छतः शीघ्रमेवाभिधेया निवृत्तिं पथोऽमीभिरन्त्यालयस्थैः॥ ४॥

सौरांगिरसोः पश्येदेकोऽपि वा स्थिरं समुद्यन्तं।
प्रष्टाऽऽगमनं प्रच्छेत्तस्यागमनं न वक्तव्यम्॥ ५॥

षष्ठत्रिकोणसंस्थैः पापैश्च पापसंदृष्टैः।
गमनागमनं च वाच्यं स्थिरलग्ने चेच्चरे तु विपरीतम्॥ ६॥

चन्द्रतोऽथ् यदि वा विलग्नतो द्वादशद्वितयराशिगामिनः।
शुक्रवाक्पतिशशान्कनन्दनाः का गमाऽऽगमकथाऽस्ति पृच्छतः॥ ७॥

बलेन सर्वोत्तमतामुपागतो ग्रहो गृहे यावति लग्नतो भवेत्।
प्रवासतस्तत्समसंख्यमासतो निवर्तनं गन्तुरसंशयं वदेत्॥ ८॥

चरांशकस्थे किल काल एष स्थिरांशके तद्विगुणस्तु वाच्यः।
द्विदेहलग्नांशगते ग्रहे तु विचिन्तितस्तत्त्रिगुणो विधेयः॥ ९॥

यातुः पृच्छालग्नतः सप्तमस्य स्वामी यायाद्यावता वक्रभावम्।
कालेनैति प्रस्थितस्तावतेति प्राहुस्त्वेते प्रश्नतत्त्वप्रवीणाः॥ १०॥