दैवज्ञवल्लभा/अध्यायः ९ (नष्टलाभाऽलाभौ)

← अध्यायः ८ ज्योतिषम्
दैवज्ञवल्लभा
अध्यायः १० →

स्थिरोदये वा यदि वा स्थिरांशे वर्गोत्तमे वा यदि वा विलग्ने।
तत्रैव तच्चोरितमस्ति वस्तु स्वकेन केनापि चरे परैस्तु॥ १॥

द्विशरीरराशिलग्ने प्रतिवेशिजनेन हृतमुदाहार्यम्।
तत्रस्थं स्थिररशौ चररशौ तच्च सञ्चलितम्॥ २॥

लग्ने प्रजाते द्वितनौ हृतं स्वं गृहाद्बहिर्निर्गमितं विचिन्त्यम्।
हर्ता सवीर्य्यास्तगखेटतुल्यो नौजे नृदृष्टे दयिताऽन्यथातः॥ ३॥

लग्नांशकादपहृतद्रविणस्य जातिर्द्रेष्काणतस्तदपहर्तृजनस्वरूपम्।
दिग्देशकालकलनं किल राशितः स्याल्लग्नांशकाद्भवति जातिवयोविभागः॥ ४॥

वयांसि तेषां स्तनपानबाल्यव्रतस्थिता यौवनमध्यवृद्धाः।
अतीव वृद्धा इति चन्द्रभौमज्ञशुक्रजीवार्कशनैश्चराणाम्॥ ५॥

रवीन्दुयुक्ते शनिभौमदृष्टे सिंहोदयेऽन्धः किल तस्करः स्यात्।
वामेन काणः शशिनि व्ययस्थे स चक्षुषाऽन्येन रवौ व्ययस्थे॥ ६॥

क्रूरः षष्ठः क्रूरराशौ विलग्नाद्यस्मिन्राशौ तत्प्रदेशे व्रणोऽस्य।
एवं प्रोक्तं यन्मया जन्मकाले चिह्नं रूपं तत्तदस्मिन्विधेयम्॥ ७॥

आद्ये हृतं निपतितं तदनु द्वितीये द्रव्यं च विस्मृतमथो यदि वा तृतीये।
द्रेष्काणकेषु परिकल्प्यमिदं क्रमेण वाच्यं हृतं तदपि वेश्ममुखेऽन्तरेऽन्त्ये॥ ८॥

ग्रहैर्दिशः केन्द्रगतैर्विचिन्त्या विलग्नराशेस्तदसम्भवे वा।
विलग्नमध्याच्चलितैर्नवांशैर्विचिन्तनीयानि हि योजनानि॥ ९॥

शुक्रे धने देवगुरौ व्ययस्थे मूर्तौ शुभे वा हृतलब्धिरुक्ता।
होरेन्दुयुक्तालयदिङ्मुखेषु सूर्येण लग्नाधिपराशिभूमौ॥ १०॥

पूर्णः शशी यदि विलग्नतः शुभो वा शीर्षोदये यदि पुनः शुभदृष्टिदृष्टः।
लाभस्थितो बलयुतो यदि वा शुभः स्यात् नष्टस्य लाभमचिरेण ततः करोति॥ ११॥

लग्नाद्वितीये यदि वा तृतीये शुभेन युक्ते हिबुकेऽथवा स्यात्।
सौम्यैः सुहृत्सप्तदशस्थितैर्वा निःसंशयं चोरितवस्तुलाभः॥ १२॥

लग्ने सम्पूर्णतनुर्जीवेन सितेन वीक्षितश्चन्द्रः।
केन्द्रोपचयस्थैर्वा यदि सौम्यैः स्वोपचयगैराप्तिः॥ १३॥

लग्ने पूर्णश्चन्द्रो जीवः शुक्रो बुधोऽपि वा भवति।
लभतेऽपहृतं द्रव्यं शुभयुक्ते सप्तमे यदि वा॥ १४॥

लग्नात्पातालाद्वा द्वितीयस्थोऽथवा तृतीयस्थः।
भवति शुभग्रहश्चेन्नूनं प्रश्ने नष्टं धनं लभते॥ १५॥

पापविलग्नं पापे पश्यति नष्टं विनष्टमेव स्यात्।
शुभखगलग्ने तु शुभैर्दृष्टे नष्टाप्तिरेष्टव्या॥ १६॥

सिंहालिकुम्भा यदि पापवीक्षिता युताः स्मरस्थाः स्वनवांशगामिनः।
तदा विनष्टं त्वथवा बलान्विते कुजेऽष्टमस्थे यदि तन्नवांशे॥ १७॥