दैवज्ञवल्लभा/अध्यायः १४ (प्रकीर्णः)

(दैवज्ञवल्लभा 14 इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः १३ ज्योतिषम्
दैवज्ञवल्लभा
अध्यायः १५ →


च्युतिर्लग्नाज्ज्ञेया हिबुकगृहतो वृद्धिरुदिता
प्रवासः स्यान्मध्याद्भवति विनिवृत्तिः स्मरगृहात्।
गृहैरेतत्प्रश्नोदयसमयगैर्वाच्यमखिलं
प्रविष्टः स्वं गेहं हिबुकगृहगे प्रोषितपुमान्॥ १॥

लग्नाद्‍द्वितीयनिधनास्तमयेषु सौम्यैः पापैस्त्रिषष्ठभगतैश्च शुभं फलं स्यात्।
व्यत्वासतः सपदि सेवकसेव्ययोश्च नित्यं प्रवासकलहौ प्रतिपादनीयौ॥ २॥

सौम्यैरष्टमसंस्थैर्द्वितीयसंस्थैस्तथैव दीर्घायुः।
भवति प्रष्टुर्नित्यं तदन्यथात्वेऽन्यथात्वं स्यात्॥ ३॥

दशमचतुर्थेरेभिः सुखसंपत् क्षतिस्तु विपरीते।
वित्तैकादशसंस्थैर्वित्ताप्तिः प्रष्टुरादेश्या॥ ४॥

पापैर्विलग्ने परिपृच्छतस्तु शरीरपीडा कलहश्च वाच्यः।
सुखक्षतिः स्यात्सुखगैर्गृहस्य भेदस्तथा बांधवविग्रहश्च॥ ५॥

अस्तस्थितैः स्याद्गमनस्य बाधः कर्मस्थितैः कर्मविनाशमाहुः।
सर्वत्र चामुत्र शुभैर्न दृष्टे कृच्छ्रेण संसिद्धिमुदाहरन्ति॥ ६॥

शीतद्युतौ पापयुतेक्षिते वा नारीजनैः स्यात्सह विग्रहस्तु।
सुखस्थितैर्द्यूनगतैश्च यद्वा तथैव पापैरवधारणीयः॥ ७॥

लग्नादष्टमगेऽर्के शुभयुक्ते वा शुभन संदृष्टे।
तस्माद्देशादन्यं देशं गत इति पिता तस्य॥ ८॥

सूर्यः कटुः शशधरो लवणो महीजस्तिक्तो विमिश्रितरसश्च शशांकसूनुः।
जीवो भवेच्च मधुरोऽम्लकषायकौ च शुक्रार्कजौ च बलवानिह केन्द्रगामी॥ ९॥

यस्तत्र काले किल लग्नदृग् वा ग्रहो रसस्तस्य तु यः प्रदिष्टः।
स एव तावत्प्रतिपादनीयो बलक्रमेण द्वितये रसाश्च॥ १०॥

सौम्यर्क्षसंस्थस्य स शोभनः स्यात्पापर्क्षसंस्थस्य तु नीरसः स्यात्।
ग्रहस्य वक्रस्य रसं न भोक्ता भुङ्क्ते च पात्रे च पुनः प्रदत्तम्॥ ११॥

स्थिरे विलग्ने न गमागमौ स्तो न रोगशांतिर्न च वित्तनाशः।
मृतो न नष्टो न पराभवोऽपि चरे विलग्ने विपरीतमेतत्॥ १२॥

विमिश्रितं स्याद्‍द्वितनौ तदंशद्वये चरस्थावरवद्वदन्ति।
शुभेक्षणाल्लग्नशशांकयोर्वा भवेच्छुभं चाशुभमन्यथा तु॥ १३॥

कंदृक्श्रोत्रनसाकपोलहनवो वक्रं च होरादय-
-स्तेकण्ठासकबाहुपार्श्वहृदयक्रोडानि नाभिस्ततः।
वस्तिः शिश्नगुदे ततश्च वृषणावूरु ततो जानुनी
जंघांघ्रीत्युभयत्र वा समुदितै द्रेष्काणभागैस्त्रिधा॥ १४॥

तस्मिन्पापयुते व्रणः शुभयुते दृष्टे च लक्ष्मादिशे-
-त्स्वर्क्षांशस्थिरसंयुते च सहजः स्यादन्यथाऽऽगंतुकः।
मन्देऽश्मानिलजोऽग्निशस्त्रविषजो भौमे बुधे भूभवः
सूर्ये काष्ठचतुष्पदेन हिमगौ शृङ्गाब्जजोऽन्यैः शुभः॥ १५॥

समनुपतिता यस्मिन्भागे त्रयः सबुधा ग्रहा भवति
नियमात्तस्यावाप्तिः शुभेष्वशुभेषु वा।
व्रणकृदशुभः षष्ठो लग्नात्तनौ भसमाश्रिते
तिलकमसकृदृष्टः सौम्यैर्भवेत्स च लक्ष्मवान्॥ १६॥

क्रियः शिरोवक्रगमी वृषोऽन्यः पादांसकौ पृष्ठमुरोऽथपार्श्वे।
कुक्षिस्त्वपानोंऽघ्र्यथ मेढ्रमुष्कौ स्फिक्‌पुच्छमित्याह चतुष्पदांगे॥ १७॥

शंकुच्छायांगुलितो ज्ञात्वा तत्काललग्नलिप्तास्तु।
छायांगुलैर्विगुणिता अथ पृथक् सप्तभिर्विभजेत्॥ १८॥

शेषग्रहगुणकारोऽर्केन्दुकुजज्ञेज्यशुक्रसुरीणाम्।
पंचैकविंश मनवो नवाष्ट वह्नीश संज्ञाश्च॥ १९॥

( ५ ) ( २१ ) ( १४ ) ( ९ ) ( ८ ) ( ३ ) ( ११ ) हत्वा स्मरावशेषे स्यादुदयः शुभग्रहस्य तदा।
अभिमतसिद्धिः प्रष्टुर्न क्रूरस्योदये किंचित्॥ २०॥

गुणकारैक्यविभक्ते तस्मिन् सूर्यादिगुणकपरिशुद्धे।
यस्य न शुद्धयति वर्गो विज्ञेयस्तद्वशात्कालः॥ २१॥

भौमदिवाकरशेषे दिवसाः शुक्रेन्दुशेषतः पक्षाः।
सुरगुरुशेषे मासाः सौम्ये ऋतवः शनावब्दाः॥ २२॥

आधाने तदनु जये पराजये वा शत्रूणां निधनविधौ समागमे वा।
अर्थाप्तौ शुभमशुभं च सर्व कालं पृच्छायां समयमिमं विचिन्त्य वाच्यम्॥ २३॥

रवौ विलग्ने ज्वलनः प्रदीपो रक्तं च वस्त्रं नृप-दर्शनं च।
श्वेतं च वस्त्रं सितपुष्पगन्धा नारी च पीयूषमयूखगर्भे॥ २४॥

महीसुते विद्रुमहेमरक्तस्रावस्तथैवार्द्रमृगादिमांसम्।
शशांकपुत्रे नभसि प्रयाणं जीवे सुरैर्बन्धुजनेन योगः॥ २५॥

शुक्रे सलिलोत्तरणं तुंगाक्रमणं खरांशुपुत्रे च।
लग्नस्थे वक्तव्यं स्वप्नप्रश्ने विमिश्रितं मिश्रैः॥ २६॥

शत्रुग्रहनीचगृहगैर्दुःस्वप्नो निर्जितैर्ग्रहैर्वाच्यः।
रविकिरणलुप्तकायैः स्वप्ने प्रष्टुर्भवेद्भंगः॥ २७॥

लग्नचन्द्रान्तरालसंख्यया फलपाककालो वाच्यः।
स्वस्वप्नान्तरे यं निरूप्यं पूर्वपूर्ववदित्येवं प्राह यवनेश्वरः॥ २८॥

अकचटतपयशवर्गा रविकुजसितसौम्यजीवसौरीणाम्।
चन्द्रस्य च निर्दिष्टा प्रश्ने प्रथमोद्भवम् वर्णम्॥ २९॥

ज्ञात्वा तस्माल्लग्नं संगृह्य शुभाशुभं वदेत्प्रष्टुः।
वर्गादिमध्यचरमैर्वर्णैः प्रश्नोद्भवैर्विषमम्॥ ३०॥

राशिं लग्नं प्रवदेच्छेषैर्युग्मं सितज्ञजीवानाम्।
कुजरविजयोश्च नैवं रविशशिनोरेकराशित्वात्॥ ३१॥

तस्मात्प्राग्वत्प्रवदेत्पृच्छासमये शुभाशुभं सर्वम्।
कालस्याविज्ञानादेतच्चिन्त्यं सदा प्रश्ने॥ ३२॥