भावार्थदीपिकानुवादे द्वादशोऽध्याय:।

हे सद्गुरो अम्ब, त्वं शुद्धा उदारा इति विख्याता।त्वम् अनवरतम् आनन्दं वर्षसि।विषयसर्पस्य दृढालिङ्गनेन जीव: मूर्च्छित:।तद्विषं तव कृपादृष्ट्या निर्विषं भवति। तव अन्त:करणे यदा जीवविषये प्रसादरसस्य कल्लोला: उल्लसन्ति, तदा कं वा जीवं ताप: तापयेत्? कं वा जीवं शोक: दहेत् ?तव स्नेहेन एव त्वद्दासानां योगसुखानुभव: भवति। तेषां सोहंसिद्धिविषये हठं त्वं समादधासि। आधारशक्तिरुपे अङ्के कुण्डलिनीं बोधयसि।तया दासम् उन्नयसि।तं हृदयाकाशदोलायां दोलयसि।प्रत्यगात्मदीपेन तं नीराजयसे।मन:पवनयो: क्रीडनकं तस्मै कल्पयसे।आत्मसुखरूपेण अलङ्कारेण तं भूषयसे।सप्तदश्या: कलाया, स्तन्यं तं पाययसि।तदर्थम् अनाहतस्य गीतं गायसि। समाधिबोधेन सान्त्वयसि, स्वापयसि च।अत: त्वं साधकानां माता।तव पादे विद्या विकसिता।अत: एव तव कृपाछायां न वर्जयामि अहम्।हे सद्गुरुकृपादृष्टे, त्वत्कारुण्यं यमाश्रयते, स: सकलविद्यानां स्रष्टा भवेत्। अत: हे श्रीमति, हे अम्ब, स्वजनानां कल्पतरो, ग्रन्थनिरूपणाय माम् आज्ञापय।एतस्मिन् निरूपणे नवरसानां सागरा: उल्लसेयु:।सिद्धान्तरत्नानाम् आगार: भवेत्।भावार्थानां पर्वता: तत्र जायेरन्। एतस्मिन् देशभाषाभाष्ये साहित्यसुवर्णस्य खनय: विवृता: भवेयु:।सर्वत्र विवेकवल्लर्य: रोपिता: भवेयु:।सिद्धान्ततरूणां घनानि वनानि भवेयु:।तत्र सदा संवादफलानि उद्गच्छेयु:।श्रुतिविरुद्धविचाराणां दरीं लोपय।वितण्डरूपान् कुमार्गान् विध्वंसय।कुतर्करूपान् हिंस्रपशून् नाशय।श्रीकृष्णगुणवर्णने मां प्रेरय। श्रोतॄन् श्रवणराज्ये एकाग्रतया स्थापय।अस्मिन् मराठीभाषारूपे नगरे ब्रह्मविद्यासमृद्धिं कुरु।सर्वस्मिन् जगति दानादानव्यवहारा: आनन्दमया: भवेयु:।अम्ब, त्वं सुदैवरुपेण निजस्नेहाञ्चलेन माम् आच्छादयसि चेत्, उकतै: सकलगुणै: परिपूर्णं निरूपणम् इदानीम् एव करिष्ये।एवं प्रार्थना ज्ञानेश्वरेण कृता।तदा गुरुदेव: कृपादृष्ट्या तम् अवलोकितवान्, उक्तवान् च, ‘आरभस्व गीतार्थम्। अलम् अतिवचनेन’ इति।तदानीम् ‘एतत् तु महाप्रसादरूपं वचनम्’ इति उक्त्वा प्रमुदित: ज्ञानेश्वर: वदति, ‘शृणुत इदानीम्।निरूपये प्रबन्धम्’ इति।

अर्जुन उवाच

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा:॥१

तदानीं सकलवीराधिराज: , सोमवंशस्य विजयध्वज:, पाण्डुनृपात्मज: वचनम् आरब्धवान्।श्रुतं वा देव, त्वया यद् विश्वरूपं दर्शितं,तद् अद्भुतम् आसीत्।तेन चित्तं मे भयार्तम्।तथा च एषा कृष्णमूर्ति: सततम् अभ्यस्ता।अत: चित्तेन सा एव आधारीकृता।तथापि ‘मा एवं कुरु’ इति देवेन अहं निवारित:।व्यक्तरूपेण अथवा अव्यक्तरूपेण त्वमेव वर्तसे निश्चयेन।भक्त्या व्यक्तं प्राप्यते, योगेन च अव्यक्तम्।एतौ द्वौ मार्गौ त्वां प्रति एव आगच्छत:।एकस्मिन् मार्गे व्यक्तरूपस्य देहली, अन्यत्र अव्यक्तरूपस्य देहली स्थिता।राशिमात्रस्य सुवर्णस्य या गुणवत्ता, सा एव माषमात्रस्य सुवर्णस्य।अत: एकदेशस्य व्यापकस्य च गुणवत्ता समा।यत् सामर्थ्यम् अमृतस्य सागरे, तद् एव चुलुकामात्रे अमृततरङ्गे।एतत् सर्वम् अहं जानामि।तथापि एतद् ज्ञातुं पृच्छा एषा क्रियते, यत् त्वया क्षणकालं यद् व्यापकरूपम् अङ्गीकृतं, तत् तत्वरूपम् अथवा कौतुकमात्रम्?त्वदर्थम् एव येषां कर्म, त्वम् एव येषां परं तत्वं, त्वद्भक्त्यर्थं यै: मनोभाव: समर्पित:, सर्वथा ये त्वां मर्मभूतं मत्वा उपासते, ते तव भक्ता: एकत:।यत् प्रणवात् परं, वैखरीवाण्या अलभ्यं, कया अपि उपमया रहितम् अक्षरम् अव्यक्तम्, अनिर्देश्यं तत्वं तस्य सोऽहंभावेन उपासनां कुर्वाणा: ज्ञानिन: अन्यत:।हे अनन्त, ज्ञानिन: तथा भक्ता: एतेषु योगस्य तत्त्वं कै: अवगतम्? एतेन किरीटिन: वचनेन सन्तुष्ट: स: जगद्बन्धु: उक्तवान्, साधु पृष्टवान् पार्थ।

श्लोक:२-१२

सम्पाद्यताम्

श्रीभगवान् उवाच।

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।श्रद्धया परयोपेतास्ते मे युक्ततमा मता:॥२

भो: किरीटिन्, अस्ताचलं यातं रविबिम्बम् अनुयान्ति रश्मय:।वर्षाकाले सरित् सततं प्रवर्धमाना, तथा भक्तानां श्रद्धा नित्यं नवीना।प्राप्ते अपि सागरे गङ्गौघ: दुर्निवार:।तथा भक्तानां प्रेमभाव:।एवं ये भक्ता: सर्वै: इन्द्रियै: सह चित्तं मयि आवेशयन्ति, दिवानिशं माम् उपासते, सर्वस्वं मह्यम् अर्पयन्ति, ते भक्ता: परमं योगयुक्ता: इति अहं मन्ये।

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते।सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥३

सन्नियम्येनद्रियग्रामं सर्वत्र समबुद्धय:।ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता:॥४

तथा च हे पाण्डव, अन्ये केचन सोऽहम्भावम् आरुह्य निरवयवम् अक्षरतत्त्वम् आश्लिष्यन्ति।यत्र मनोनखं न स्पृशति, बुद्धे: दृष्टि: न प्रविशति, तद् अक्षरतत्त्वम् इन्द्रियगम्यं स्याद् वा? न तत् तत्वं ध्याने गम्यते।न एकस्मिन् स्थाने प्राप्यते, न वा केनचिद् आकारेण व्यज्यते, तत् सर्वत्र सर्वभावेन सर्वदा अवस्थितम्।तस्य चिन्तने चिन्तनसामर्थ्यम् अपि श्रान्तम्।तद् न ‘भवति’ न च ‘न भवति’।यद् न ‘अस्ति’ न वा ‘न अस्ति’।अत: तस्य साधने सर्वे उपाया: व्यर्था:।तद् न चलितं भवति न वा च्युतं भवति।तद् न समाप्तं भवति, न वा मलिनं भवति।तद् न चलति, न वा च्यवति।तद् न विलीनं भवति, न वा मलिनं भवति। एतादृशं तत्त्वं कैश्चिद् आत्मसात् कृतम्।वैराग्यमहाग्नौ विषयजातं दग्धम्।तस्मिन् अग्नौ धैर्येण इन्द्रियाणि तापितानि।अनन्तरं संयमनशक्त्या तानि अन्तर्मुखानि कृतानि, हृदयकपाटे निगृहीतानि।अपानद्वारम् आवृतम्।आसनं साधितम्।मूलबन्धरूप: तट: रचित:।आशाबन्धा: छिन्ना:।अधैर्यपाषाणा: भिन्ना:। निद्रारूपं तम: शमितम्।वज्रासनाग्निना सप्त धातव: प्रज्वालिता:।व्याधीनां मस्तकेषु शतघ्नीप्रहारा: कृता:।मूलाधारचक्रे कुण्डलिनीज्योति: ज्वालितम्।तस्य प्रभया आमस्तकं देह: दीप्त:।नवसु द्वारेषु संयमार्गला संस्थापिता।सुषुम्नाया गवाक्ष: तावदुद्घाटित:।प्राणशक्तिरेव चामुण्डा।तस्यै सङ्कल्पमेष: मनोमहिष: च बलि: समर्पित:।इडापिङ्गलयो: साम्यं कृत्वा अनाहतस्य माध्यमेन सप्तदशी अमृतकला त्वरया साधिता।अनन्तरं मध्यमा या सुषुम्ना नाडी, तस्या: विवरे सोपानमार्गं रचयित्वा चरमं ब्रह्मरन्ध्रं प्राप्तम्।ते सुषुम्नान्तर्गतं सोपानमार्गम् उल्लङ्घ्य महदाकाशं कक्षीकृत्य ब्रह्मणि व्याप्ता:।एते समबुद्धय: योगिन: सोऽहम्भावसिद्ध्यर्थम् एतादृशं दुर्गमं योगमार्गम् अनुसरन्ति। एवं ये केचन जीवभावेन ब्रह्म अधिगच्छन्ति, ते अपि माम् एव प्राप्नुवन्ति।

क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम्।अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते॥५

योगबलेन किमपि अधिकं प्राप्यते इति न।कष्टं तु अधिकं भवति।यै: सर्वभूतानां हितस्वरूपे निरालम्बे अव्यक्ते तत्त्वे भक्तिरहिता आसक्ति: कृता, तेषां मार्गे महेन्द्रादिपदानि आक्रमणं कुर्वन्ति।ऋद्धिसिद्धिरूपाणि द्वन्द्वानि विघ्नम् उत्पादयन्ति।कामक्रोधानां बहुविधा: उपद्रवा: उपजायन्ते।नि:सङ्गेन ब्रह्मणा सह सङ्ग: करणीय:।तृष्णायां तृष्णा एव पातव्या। क्षुधायां क्षुधा एव भोक्तव्या।दिवानिशं हस्तेन वायु: आलोडनीय:।दिवा आतपे शयनं करणीयम्। इन्द्रियनिरोधस्य सुखम् अनुभोक्तव्यम्।वृक्षै: सह मैत्रं सम्पादनीयम्।शरीरं शीतेन वेष्टनीयम, उष्णेन आच्छादनीयं, वृष्टिमये गृहे उषितव्यम्।किं बहुना पाण्डव, पतिं विना नित्यनूतन: अग्निप्रवेश: इव एष: योगमार्ग:।न अत्र योगमार्गे किमपि स्वामिकार्यं सम्पादनीयं, न वा कुलाचार: रक्षणीय: तथापि मरणेन सह अत्र दिने दिने नवीन: सङ्घर्ष: भवति।मरणाद् अपि तीव्रतरम् एतद् विषं किमर्थं पातव्यम् ? हठेन पर्वतगिलने मुखं पाटितं न भविष्यति वा? अत: हे सुभट, ये एतेन योगमार्गेण प्रस्थिता:, तेषां भागधेये दु:खस्य सारभाग: अस्ति इति ध्रुवम् दन्तहीन: जन: यदि लोहचणकान् खादेत् तर्हि तेन किं वा सिद्ध्येत्?उदरभरणम् अथवा प्राणहरणम्? बाहुभ्यां समुद्रतरणम् अथवा अन्तराले पदनिक्षेपणं कथम् इव शक्यम्? प्रचण्डे रणे दण्डाघातसहनं विना, सूर्यलोकस्य मार्गे कोऽपि प्रविशेद् वा?यथा पङ्गु: वायुना सह स्पर्धितुं न शक्नोति, तथैव देही अव्यक्ते गतिं साधयितुं न शक्नोति।तथापि ये धैर्यम् एकीकृत्य आकाशेन सह युद्धम् आरभन्ते, ते क्लेशपात्राणि भवन्ति।हे पार्थ, अन्ये ये भक्तिमार्गम् अनुसरन्ति, ते एतां व्यथां न अनुभवन्ति।

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परा: ।अनन्येनैव योगेन मां ध्यायन्त उपासते॥६

वर्णविशेषम् अनुसृत्य यानि कर्माणि विहितानि, तानि भक्ता: सुखेन कुर्वन्ति।ते विधिम् आचरन्ति, निषेधं परिहरन्ति।कर्मफलानि मयि समर्प्य ज्वालयन्ति।अर्जुन, एवम् एते भक्ता: कर्माणि मयि संन्यस्य लोपयन्ति।तेषाम् अन्येऽपि कायिक-वाचिक-मानसभावा: मां प्रति एव धावन्ति।एवं ते मत्परा: भूत्वा निरन्तरं माम् उपासते।निरन्तरध्यानवशात् ते ननु मम निवासमन्दिरम् एव जाता:।एतै: प्रेमभावेन मया सह एव व्यवहार: आरब्ध:।भोग: मोक्ष: च एतौ वराकौ व्यावहारिकौ त्यक्तौ।एवम् अनन्ययोगेन ये जीवं मन: अङ्गं च मह्यं समर्पितवन्त: तेषां किं वा वर्णये? तेषां सर्वं मनोरथम् अहं पूरये।

तेषामहं समुद्धर्ता मृत्युसंसारसागरात्।भवामि न चिरात् पार्थ मय्यावेशितचेतसाम्॥७

किं बहुना धनुर्धर, य: खलु मातु: उदराज्जात:, स: मातु: कियान् आप्त:? तथैव ते मम आप्ता:।ते यथा सन्ति तथा, तेषां कले: च कालात् च रक्षा मया अङ्गीकृता। संसारविषये मम भक्तानां का वा चिन्ता? भिक्षान्नं याचते वा कदापि समर्थस्य कान्ता? तथैव एते भक्ता: मम कलत्ररूपा:।तेषां विषये कथम् अपि मम लज्जा न भवति।अस्यां सृष्ट्यां जननमरणानां लहर्य: उद्भवन्ति। ता: दृष्ट्वा मम मनसि चिन्ता भवति। एतस्मात् भवसागरात् कस्य नु भयं न भवति? तत्र मदीया: जना: अपि भीता: भविष्यन्ति वा? अत: हे पाण्डव, मूर्तीनां मेलं कृत्वा तेषां संसारग्रामम् अहं धावित:।नामनौकानां सहस्रं सिद्धं भूत्वा अहं संसारसागरे तारक: जात:।ये नि:सङ्गा: दृष्टा:, ते ध्यानरूपे कटितटे निबद्धा:।ये सङ्गिन: दृष्टा:, ते नौकाम् आरोपिता:।केषाञ्चिद् उदरे प्रेमपेटिका बद्धा।अनन्तरं ते सायुज्यतटम् आनीता:।भक्ता: सन्ति इति चतुष्पदादय: अपि मया वैकुण्ठे प्रतिष्ठापिता:।अत: मद्भक्ता: सर्वथा निश्चिन्ता:।तेषां समुद्धर्ता अहम् अस्मि।यस्मिन् क्षणे भक्ता: मयि चित्तम् अर्पयन्ति, तस्मात् क्षणाद् आरभ्य अहं तेषां सहकारी भवामि।अत: हे भक्तराज धनञ्जय, त्वया एष: मन्त्र: सदा अवधारणीय: यद् अनेन मार्गेण मया गन्तव्यम् इति।

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय।निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय:॥८

सनिश्चयां बुद्धिं तथा सवृत्तिकम् एतद् मन: इति उभयम् अपि मम स्वरूपे स्थिरं कुरु।एतत् तत्त्वद्वयं यदा प्रेमभावेन मयि रममाणं भवति तदा त्वं मां प्राप्नोषि।ब्रूहि रे अर्जुन, यदा तव बुद्धि: मयि निवसति. तव मन: च मयि निवसति तदा त्वम् अहम् इति द्वैतम् अवशिष्टं वा? दीपनिर्वाणम् अनु तेज: शाम्यति।रविबिम्बम् अनु प्रकाश: लुप्यति।उत्क्रान्तं प्राणम् अनु इन्द्रियाणि निर्गच्छन्ति।तथैव मनोबुद्धिम् अनु अहङ्कार: अपि आगच्छति।अत: मन:बुद्धिं च मम स्वरूपे स्थापय।एतेन त्वं सर्वव्यापक: अहं भविष्यसि।एतस्य आश्वासनवचनस्य अपवाद: नास्ति इति आत्मन: शपथं कृत्वा ब्रवीमि।

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥९

यदि वा मनोबुद्धिसहितम् इदं चित्तं मम हस्ते अर्पयितुं न शक्नोषि, तर्हि एवं कुरु अष्टसु प्रहरेषु निमेषमात्रं तु अर्पय।यस्मिन् यस्मिन् निमेषे मम सुखस्य अनुभव: भविष्यति, तस्मिन तस्मिन् निमेषे विषये तव अरुचि: भविष्यति।यथा शरत्काले प्राप्ते नदी सङ्कोचम् आयाति, तथा प्रपञ्चात् तव चित्तं वेगेन आकुञ्चितं भविष्यति।पौर्णिमात: दिने दिने शशिबिम्ब: ह्रस्व: भूत्वा अमावास्यायाम् अभावं गच्छति।तथा भोगत: शनै: शनै: तव मन: दूतं गत्वा मां प्रविश्य मद्रूपं भविष्यति।सोऽयम् अभ्यासयोग:।एतेन अभ्यासयोगेन असाध्यं किमपि नास्ति।अभ्यासबलेन एके अन्तराले भ्रमन्ति, एके व्याघ्रसर्पान् विनमयन्ति,एके विषम् अपि आहारीकुर्वन्ति।एके सागरे मार्गं जनयन्ति, एके सकलान् वेदान् पठन्ति।अत: अभ्यासेन किमपि दुष्करं न भवति इति मां प्रति अभ्यासयोगेन प्राप्नुहि।

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥१०

अथवा यदि अभ्याससामर्थ्यम् अपि तव नास्ति तर्हि यत्र असि तत्र एव तिष्ठ। मास्तु इन्द्रियनिग्रह:, मास्तु भोगत्याग:, मा करोतु स्वजात्यभिमानवर्जनम्।आचर कुलधर्मम्।पालय विधिनिषेधम्: एवं सुखेन त्वं वर्तस्व।तथापि मनसा, वाचा, देहेन यत् किमपि कर्म भवति, तत् मया कृतम् इति भावय।करणीयं वा न करणीयं वा इति एतत् सर्वं स: एव विश्वचालक: परमात्मा विजानाति।कर्मणि न्यूनं वा अधिकं वा इति चिन्ता मनसि मास्तु।जीवनं कर्ममयं कुरु।उद्यानपालेन जलं यत्र नीयते,तत्र तद् अविरोधं याति।तथा तव वर्तनं भवेत्।मतौ अहं कर्म करोमि इति प्रवृत्तिभार: न भवेत्, न वा अहं कर्म न करोमि इति निवृत्तिभार: भवेत्। अखण्डं चित्तवृत्ति: मयि समर्पिता भवेत्।वस्तुत: सुभट अर्जुन, मार्ग: सरल: वा विकट: वा इति चिन्ता रथस्य मनसि कदापि भवति वा?यद् यत् कर्म भवति, तत् तद् न्यूनं वा अधिकं वा इति गणनाम् अकृत्वा नि:शङ्कतया मयि समर्पय।अर्जुन, यदि एतादृशी मद्भावना भवति, तर्हि तनुत्यागाद् अनन्तरं त्वं मद्रूपं मोक्षपदं प्राप्स्यसि।

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित:।सर्वकर्मफलत्यागं तत: कुरु यतात्मवान्॥११

अथवा एवं कर्मसमर्पणम् अपि यदि त्वया न शक्यं तर्हि हे पाण्डुकुमार, त्वं मां भज।बुद्धे: पूर्वम् अथवा उत्तरं, कर्मादौ अथवा कर्मान्ते, मम स्मरणं यदि कठिनं मन्यसे, तर्हि त्यज एतदपि।त्यज मम ध्यानम्।तथापि तव बुद्धि: इन्द्रियनिग्रहे दक्षा भवतु।यदा यदा यद् यत् कर्म भवति, तदा तदा तेषां सर्वेषां फलानां त्यागं कुरु।वृक्षा: तथा वल्लर्य: पक्वानि फलानि उत्सारयन्ति।तथैव त्वम् अपि सिद्धानि कर्मफलानि त्यज। ‘मनसि मम ध्यानं करणीयम्। माम् उद्दिश्य कर्म आचरणीयम्’ इति मास्तु चिन्ता।गच्छतु सर्वं शून्यं प्रति।पाषाणे यथा वर्षणं, पवने यथा बीजवपनं, यथा वा स्वप्नदर्शनं तथैव कर्म इति मन्यताम्।यथा कन्याविषये मनुष्य: सर्वथा निरभिलाष: भवति, तथा कर्मफलविषये अपि सर्वथा निष्कामता भवेत्।अग्निज्वाला यथा अन्तराले लुप्यति, तथा लुप्यतु कर्म शून्ये।अर्जुन, अयं फलत्याग: सुकर:, तथापि सर्वेषु योगेषु अग्रेसर:।अनेन फलत्यागेन कर्म नैव अङ्कुरायते।वंशवृक्षेषु एकवारं बीजोद्भव: भवति।अनन्तरं सर्वं वंशवनं वन्ध्यं भवति।तथा अस्मिन् शरीरे फलत्याग: उद्भवति चेत् पुन: शरीरप्राप्ति: न सम्भवति।किं बहुना तत्र एव जननमरणपरम्परा समाप्यते।अभ्यासस्य आधारेण ज्ञानं लब्धव्यम्।ज्ञानस्य आधारेण ध्यानं साधनीयम्।यदा ध्याने चित्तवृत्ति: सर्वा मग्ना भवति, तदा सर्वं कर्म दूरे भवति।यदा कर्म दूरे भवति, तदा फलत्याग: सम्भवति।फलत्यागेन सकला शान्ति: अवाप्यते।सुभद्रापते, शान्तिलाभाय अयम् एव अनुक्रम: अस्ति।अत: अभ्यासस्य एव अङ्गीकार: उचित:।

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते।ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥१२

पार्थ, अभ्यासाद् अपि गहनं ज्ञानम्।ज्ञानाद् अपि विशिष्टं ध्यानम्।ध्यानाद् अपि उत्तम: कर्मफलत्याग:।त्यागाच्छान्तिसुखस्य भोग: सम्भवति।सुभट, एतेन मार्गेण एव, एवम् एव पदश: शान्तिस्थानं प्राप्यते।

श्लोक: १३-२४

सम्पाद्यताम्

अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च।निर्ममो निरहङ्कार: समदु:खसुख: क्षमी।१३

यथा चैतन्यं स्वपरभावं न मन्यते तथा च य: कस्य अपि भूतस्य द्वेषं न करोति,स: मम प्रिय:।वसुधा न मन्यते यद् अहम् उत्तमं धारयामि, अधमं वारयामि इति। कृपालु: प्राण: एवं न मन्यते यद् सधनस्य देहे सञ्चरामि, निर्धनस्य देहं परिहरामि इति।धेन्वा: तृषां हरामि, विषरूपं भूत्वा व्याघ्रस्य प्राणान् हरामीति तोयं न चिन्तयति।तथैव सर्वै: भूतै: सह यस्य समानं सख्यं य़: च कृपाया: जननी, स: मम प्रिय:।अहम् इति शब्दं स: न जानाति।मम इति कदापि न वदति।सुखं दु:खं च स: न वेत्ति।क्षमाविषये तस्य धैर्यं पृथिवीतुल्यम्।सन्तोष: तस्य उत्सङ्गे निवसति।

सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय:।मय्यर्पितमनोबुद्धिर्यो मद्भक्त: स मे प्रिय:॥१४

यथा सागर: वृष्टिं विना अपि नित्यं परिपूर्ण:, तथैव उपचारं विना अपि स: सदा सन्तुष्ट:। स्वशपथेन स: अन्त:करणं धारयति।तस्य निश्चय: सदा सत्य: भवति। तस्य हृदयभवने आत्मा च परमात्मा च इति उभौ अपि एकासने विराजेते। एवं स: योगेन परमसमृद्ध: सन् अपि स्वमन: स्वबुद्धिं च मयि समर्पयति।अन्तर्बाह्यं योग: प्रतिष्ठित: चेत् तस्य अपि मयि अनुराग: विद्यते।अर्जुन, स: भक्त:, स: योगी, स: एव मुक्त:।स: मम प्रिया अहं तस्य कान्त: इति मन्यताम्। अथवा स:मम प्राणादपि प्रियतर: इति इदं वचनम् अपि न पर्याप्तम्।एषा प्रेमभावस्य कथा मनोमोहनी।सा वस्तुत: अवर्णनीया,परम् अयं श्रद्धाभाव: मां मुखरयति।अत: एषा पतिपत्नीप्रेम्ण: उपमा अकस्माद् अधरात् निर्गता। अन्यथा अस्य प्रेमभावस्य अनुवाद: शक्य: वा? अस्तु हे किरीटिन् एषा वार्ता। प्रियभक्तस्य विषये उपस्थिते सति मम हृदयस्थ: प्रेमभाव: द्विगुणित: भवति।तत्र अपि श्रोता यदि स्नेहालु: प्राप्यते, तर्हि तस्य प्रेममाधुर्यस्य तुलना एव न सम्भवति। हे पाण्डुसुत, त्वं मम प्रिय:।त्वमेव मम श्रोता।तत्र प्राप्ता एषा प्रियविषयिणी वार्ता।अत: अस्यां वार्तायाम् अहं मग्न: इति उक्त्वा देव: सानन्द: दोलित:।अथ देव: वदति, यस्य आसनं मम हृदये कल्पये, तादृशस्य भक्तस्य लक्षणं शृणु।

य़स्मान्नोद्विजते लोको लोकान्नोद्विजते च य: हर्षामर्ष भयोद्वेगैर्मुक्तो य: स च मे प्रिय:॥१५

जलचराणां सिन्धो: भयं नास्ति, जलचरेभ्य: सिन्धो: उद्वेग: नास्ति।एवम् उन्मत्तजगत: यस्य खेद: न भवति, यस्य सम्पर्केण जनानां पीडा न भवति, स: मम प्रिय:।किं बहुना पाण्डव, यथा शरीरम् अवयवेभ्य: उद्विग्नं न भवति, तथा स: जीवेभ्य: उद्विग्न: न भवति।सर्वं जगद् देहरूपं जातम्। तेन तस्य प्रियाप्रियभाव: गत:।भेदस्य अभावात् हर्षामर्षौ समाप्तौ।एवं स: द्वन्द्वविनिर्मुक्त: सन् भयोद्वेगरहित: अपि सन् मम भक्त: भवति, तर्हि तद्विषये मम महान् प्रेमभाव:।स: मम जीवस्य जीव: भवति।स: निजानन्देन परिपूर्ण: वर्तते। आत्मानन्दस्य परिणति: ननु तस्य आयुष्यम्।स: पूर्णताया: वल्लभ: भवति।

अनपेक्ष: शुचिर्दक्ष उदासीनो गतव्यथ:।सर्वारम्भपरित्यागी यो मद्भक्त: स मे प्रिय:॥१६

हे पाण्डव, तस्य समीपम् अपेक्षा न प्रविशति।तस्य अस्तित्वमात्रेण अन्यस्य सुखं वर्धमानं भवति।काशीनगरं मोक्षं दत्ते परं शरीरं हरते।हिमगिरि: दोषघ्न: परं जीवितघ्न: अपि।सज्जनस्य शुचित्वं तथा नास्ति।गङ्गा शुचि वर्तते पापं तापम् अपि हरते, परं जनम् आप्लावयते। य: भक्तिनद्या: पारं न जानाति, गभीरतां न जानाति, स: अपि भक्त: भक्तिनद्यां मज्जति।अपरोक्षं मोक्षं च लभते। साधूनाम् अङ्गसङ्गाद् गङ्गाया: पापभङ्ग: भवति।अत: साधूनां शुचित्वं कियत् स्यात्?स्वस्य शुचित्वेन स: तीर्थानाम् अपि आश्रयभूत:।स्वस्य मनोमालिन्यं स: दिगन्तं पारितवान्।यथा सूर्य: तथा अयं साधु: अन्त: बहि: च निर्मल:।यथा पादादिक्रमेण सूत: मनुष्य: गुप्तधनम् अपि स्पष्टं द्रष्टुं शक्नोति, तथा एष: गहनम् अपि तत्त्वार्थं स्पष्टं पश्यति।यथा गगनं व्यापकम् अपि अस्ति, उदासीनम् अपि।तथा अस्य साधो: मानसं सर्वेषु विषयेषु भवति।यथा व्याधहस्ताद् मुक्त: विहग: तथा एष: संसारव्यथात: मुक्त:, नैराश्यबोधे मग्न:।यथा मृत: मनुष्य: लज्जां न जानाति, तथा नित्यसुखस्य योगाद् एष: साधु: अल्पम् अपि तोदं न जानाति।कर्मारम्भविषये तस्य मनाग् अपि अहङ्कार: नास्ति।निरिन्धन: अग्नि: स्वयं शाम्यति, तथा स: स्वयम् एव उपशान्त:।एषा च शान्ति: मोक्षार्थम् आवश्यकी।इत: पर्यन्तम् स: सोऽहंभावेन परिपूर्ण: सन् द्वैतस्य परतीरं प्रति प्रस्थित:।अथ भक्तिसुखार्थं द्विधा भूत्वा स्वयं सेवकत्वम् अङ्गीकरोति।अन्यस्य नाम अहं (श्रीकृष्ण:) इति करोति।अनन्तरं ये अभक्ता:, तेभ्य: भक्ते: कौतुकं दर्शयति।एतादृशस्य भक्तस्य विषये मम अभिलाष:।एतादृश: भक्त: मम ध्यानस्य विषय:।एतादृशस्य भक्तस्य लाभेम मम सन्तोष:। तदर्थम् अहं रूपं धारयामि।तदर्थम् अहम् अस्मिन् जगति वसामि। स्वजीवेन स्वप्राणेन च तस्य आर्तिक्यं रचयामि।

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।शुभाशुभपरित्यागी भक्तिमान्य:स मे प्रिय:॥१७

य: आत्मलाभतुल्यम् उत्तमं किमपि न पश्यति अत: केन अपि भोगेन न हृष्यति, स: मम प्रिय:।स: स्वयं विश्वरूप: भवति।तेन स्वाभाविकतया भेदभाव: लुप्यति।अत: तस्य मनसि द्वेषभाव: सर्वथा नास्ति।यत् स्वीयं तत् कल्पान्तेऽपि न नश्यति इति ज्ञात्वा स: गतस्य शोकं न करोति। यस्माद् अधिकं किमपि नास्ति,तत् तत्त्वं स: स्वयं जात: अत: तस्य आकाङ्क्षा नास्ति। यथा सूर्य: दिवस: रजनी इति भेदं नैव जानाति, तथा स: उत्तमम् अधमम् इति भेदं न जानाति।एवं य: अखण्डबोधाकार: भूत्वा अपि मम भक्त:, स: मम प्रिय:।तव शपथं कृत्वा वदामि यत् तस्माद् अन्य: प्रियतर: बान्धव: मम नास्ति।

सम: शत्रौ च मित्रे च तथा मानापमानयो:।शीतोष्णसुखदु:खेषु सम: सङ्गविवर्जित:॥१८

पार्थ, य: वैषम्यं मनाग् अपि न जानाति, यस्य दृष्टौ शत्रु: मित्रं च समानौ, स: मम प्रिय:।पाण्डव, गृहजनेभ्य: प्रकाशं ददामि, बाह्यजनेभ्य: तम: यच्छामि, इति दीप: न करोति। पोषकाय नाशकाय च वृक्ष: समानां छायां ददाति।इक्षुदण्ड: पालकस्य कृते मधुर:, निष्पीडकस्य कृते तिक्त: इति न भवति।अर्जुन, तथा स: अरिमित्रेषु मानापमानयो: च समभावेन वर्तते।त्रिषु ऋतुषु गगनं समानं तथा स: अपि शीते उष्णे च सम:।दक्षिणवात: तथा उत्तरवात: एतयो: मध्ये यथा मेरु: स्थिर:, तथा सुखलाभे दु:खलाभे च स: मध्यस्थ: अचल:च।चन्द्रिकाया: माधुर्यं सधनेभ्य: निर्धनेभ्य: समानं तथा स: अपि सर्वेषु भूतेषु सम:।सर्वस्य विश्वस्य कृते जलं सेव्यं भवति, तथा स: अपि त्रिलोकस्य कृते वाञ्छित: भवति।एवं य: अन्तर्बाह्यं सङ्गं त्यक्त्वा स्वस्मिन् एकाकी रमते, स: मम प्रिय:।

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित्।अनिकेत: स्थिरमतिर्भक्तिमान्मे प्रियो नर:॥१९

य: न निन्दां मन्यते, न वा स्तुतिं मन्यते, स: मम प्रिय:।यथा आकाशे लेप: न भवति, तथा स: निन्दां स्तुतिं च एकस्यां पङ्कतौ उपावेश्य, प्राणवृत्या जने वने विचरति।स: न सत्यं वदति, न वा असत्यं वदति।मौनी भवति।उन्मनोऽवस्थाम् अविरतम् अनुभवति।इष्टलाभेन स: तुष्ट: न भवति।यथा पर्जन्याभावे समुद्र: शुष्क: न भवति, तथा लभाभावे स: रुष्ट: न भवति।यथा वातस्य कुत्र अपि एकत्र स्थिति: नास्ति तथा तस्य अपि एकत्र स्थिति: नास्ति।सकलं गगनं वातस्य निवासस्थानं तथा निखिलं विश्वं तस्य निवासस्थानं भवति।‘वसुधा एव मम गृहम्’ इति तस्य स्थिरा मति: जाता। अथवा स: चराचरविश्वरूप: जात:।एवं सति अपि यदि तस्य मम भजने आस्था विद्यते, तर्हि अहं किरीटम् इव तं शिरसा धारये।एतादृशम् उत्तमं भक्तं वन्दे इत्यत्र नास्ति विचित्रम्।तस्य भक्तस्य चरणतीर्थं तु सकलं त्रिभुवनं मस्तके धारयति।यस्य गुरु: श्रीसदाशिव:, स: एव जानीयात्, श्रद्धेयवस्तुन: मम आदर: कथं करणीय: इति।अस्तु एतद्।महेशस्य स्तुतिमिषेण एषा आत्मस्तुति: भवति।अत: रमापति: उक्तवान् शङ्करस्य प्रेम्ण: महिमानं न वदामि।केवलम् एतावद् एव वदामि यत् एतादृशं भक्तम् अहं शिरसा धारयामि।एष: भक्त: चतुर्थीं पुरुषार्थसिद्धिं करे धारयन् विश्वे तां सिद्धिं वितरन्, भक्तिमार्गेण प्रस्थित:।मार्गे य: कोऽपि कैवल्यस्य अधिकारी प्राप्यते तदा तस्मै स्वसामर्थ्येन मोक्षं प्रददाति।तथापि जलं यथा सदा निम्नं स्थलं याति तथा स: अपि सततं लघुत्वं स्वीकरोति।अत: अहं तं नमामि।मुकुटम् इव तं शिरसा वहामि।तस्य पदचिह्नम् उरसि धारयामि।तस्य गुणै: स्ववाणीं भूषयामि।तस्य कीर्त्या श्रवणं मण्डयामि।तं द्रष्टुं मम तीव्रा इच्छा, अत: अनेत्रस्य अपि मम नेत्रे भवत:।करधृतेन लीलाकमलेन तं पूजये अहम्।द्वयो: भुजयो: सतो: इतोऽपि भुजद्वयं धारये, तं गाढम् आलिङ्गितुम्।तेन सङ्गतं भवेदिति एतदर्थं विदेह: सन् अपि अहं देहं धृतवान्।किम् अधिकेन उक्तेन? तत् सुखं सर्वथा उपमारहिरम् इत्येव वदामि।तेन सह मम मैत्रं वर्तते इति नास्ति चित्रम्।तस्य चरित्रं ये शृण्वन्ति, ते अपि मम प्राणात् प्रियतरा:।अर्जुन, य: अयं भक्तियोग: मया भवते पूर्णतया उपदिष्ट:, तत्र सर्वेषां योगानां समावेश: भवति।भक्तिस्थिते: महिमा एतावान् अस्ति यद् अहं भक्ते प्रेम करोमि, तं शिरसा धारयामि।

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।श्रद्धधाना मत्परमा भक्तास्तेऽतीव मे प्रिया:॥२०

धर्म्यां रम्याम् अमृतधारारूपाम् इमां कथां ये शृण्वन्ति, शृत्वा अनुभवन्ति, श्रद्धया आदरेण च येषु एष: भक्तियोग: विस्तरं प्राप्नोति, येषाम् अन्त:करणे स: स्थिर: भवति, ये तस्य आचरणं कुर्वन्ति, सुक्षेत्रे उप्तं बीजम् इव येषां मन:स्थिति: वर्तते, ये मां परमां गतिं मन्यन्ते, सर्वस्वं मन्यन्ते,मयि प्रेमभाव धारयन्ति, ते एव भक्ता:।ते एव योगिन:।तेषां विषये मम मनसि सततम् उत्कण्ठा विद्यते।येषां भक्तिकथया सह मैत्रं सञजातं, ते एव पवित्रं तीर्थं, ते एव पवित्रं क्षेत्रम्।तेषाम् ध्यानमा अहं करोमि।ते मम पूज्यदेवा:।तै: विना किमपि मह्यं न रोचते।तेषाम् अभ्यास: इव जात:।ते मम सञ्चित: धनराशि:।ते यदा मिलन्ति तदा समाधानं प्राप्यते। पाण्डुसुत, एतादृशां प्रेमलभक्तानां वृत्तं ये अनुवदन्ति, ते अपि मम परमदेवता:।सञ्जय: वदति,निजभक्तानां य: ब्रह्मानन्द:, य: जगत: आनन्दस्य आदिकारणं, स: भगवान् एवम् उपदिष्टवान्।हे धृतराष्ट्र, य: निर्मल:, निष्कलङ्क:,सर्वलोकेषु कृपालु:.शरणागतेषु स्नेहालु:,शरण्य:, सुराणां सहाय्यकर्ता, लीलया लोकपालनकर्ता, प्रणतस्य प्रतिपालनं यस्य क्रीडा अस्ति, धार्मिक: इति यस्य कीर्ति:, अगाधदातृत्वेन य: सम:, अतुलनीयेन बलेन य: बले: बन्धनकर्ता, भक्तजनेषु वत्सल:, प्रेमलेषु जनेषु निष्कपट:, सेतुरूपेण जगत: धर्ता, सर्वकलानां निधि:, स: वैकुण्ठस्य राजा, निजभक्तानां सम्राट् कथयति।भाग्यवान् अर्जुन: तत् शृणोति।सञ्जय: वदति, हे धृतराष्ट्र, राजन्, शृणु इत: परं भगवान् श्रीकृष्ण: किं वदति इति। सा एव कथा मया मराठीभाषया प्रतिपाद्यते, शृणुत।ज्ञानदेव: वदति, भवादृशां साधूनां चरणस्पर्श: मया करणीय: इति मम गुरु: निवृत्तिदेव: मां शिक्षितवान्। ॥इति श्रीज्ञानदेवविरचितायां भावार्थदीपिकायां द्वादशोऽध्याय:॥

"https://sa.wikisource.org/w/index.php?title=द्वादशाध्याय:&oldid=91223" इत्यस्माद् प्रतिप्राप्तम्